________________ 558 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. भागमपरि० प्रकारेण हि भवन्मते अविनाभावो व्यवस्थितः। नचान्यव्यावृत्तेः केनचित्सह तादात्म्यतदुत्पत्ती घटेते। तथाहि-अकृतकत्वव्यावृत्तिः कृतकत्वम् , तत् स्वलक्षणात्मकम् , नित्यव्यावृत्तिरूपाऽनित्यत्वात्मकं वा स्यात् ? न तावत्स्वलक्षणात्मकम् ; अवस्तुरूपत्वात् , यंद वस्तुरूपं न तत् स्वलक्षणात्मकं यथा खरविषाणम् , अवस्तुरूपश्च अकृतकत्वव्यावृत्ति5 रूपतया कृतकत्वमिति / नापि नित्यव्यावृत्तिरूपाऽनित्यत्वात्मकम् ; उभयो नीरूपतया तादात्म्यसम्बन्धाभावात्। यया नीरूपत्वं न तयास्तादात्म्यसम्बन्धः यथा खपुष्पवन्ध्यासुतयोः, नीरूपत्वञ्च अन्यव्यावृत्तिस्वभावयोः कृतकत्वानित्यत्वयोरिति / तन्नानयोस्तादात्म्यं घटते / नापि तदुत्पत्तिः; नीरूपत्वादेव / तथाहि-यन्नीरूपं तन्न कस्यचिजन्य जनकं वा यथा खरविषाणम् ,नीरूपश्च साध्यसाधनत्वेनाऽभिप्रेतं प्रकृतमन्यापोहद्वयमिति / 10 ननु चार्थाभावेऽपि अर्थाकारं यत् प्रतिबिम्बमुत्पन्नं तदेवान्यापोहः, स च स्वसंवेदनप्रत्यक्षत एव सिद्ध्यति, इत्यनर्थकं तत्रानुमानम् ; इत्यप्यसमीक्षिताभिधानम् ; ज्ञानेsकारधारित्वस्य तन्निराकारत्वसिद्धौ प्रतिषिद्धत्वात् / अस्तु वा तत् ; तथापि-अत्र कस्य प्रतिबिम्बनम्-स्वलक्षणस्य, सामान्यस्य वा ? न तावत्स्वलक्षणस्य; तस्य व्यावृत्ताकारत्वात् / अनुगतैकरूपश्च प्रतिबिम्बम् अन्यापो15 होऽभिप्रेतः, अतः स्वलक्षणेनापि तथाविधेनैव भवितव्यम् / तथाहि-यस्ये हि यदाकारं प्रतिबिम्बं तत् स्वयमपि तदाकारमेव यथा मुखचन्द्रादि, अनुगतैकाकारश्च स्वलक्षणस्य ज्ञाने प्रतिबिम्बमिति / अथ सामान्यस्य ज्ञाने प्रतिबिम्बनमिष्यते; तदप्यसत्; तस्याऽसतः प्रतिबिम्बनानुपपत्तेः / यदसन्न तत् कचित् प्रतिबिम्बति यथा खपुष्पम् , असञ्च भवन्मते सामान्यमिति / तत्रै तत्प॑तिबिम्बाभ्युपगमे वा प्रतिबिम्बोदयात्प्रागन्योन्यविविक्ततद्रूपद्वयोपलम्भप्रसङ्गः। यत्र यत् प्रतिबिम्बति तवयं प्रतिबिम्बोदयात्प्रागन्योन्यविविक्तमुपलभ्यते यथा मुखादर्शादि, प्रतिबिम्बैति च ज्ञाने सामान्याकार इति / अथ वाहदोहाघेकार्थक्रियाकारितया स्वलक्षणमेवानुवृत्ताकारं सत् सामान्यम् , अतो नोक्तदोषावकाशः; तदयुक्तम् ; एकार्थक्रियामकुर्वतस्तत्कारित्वाभावतः प्रतिबिम्बो (1) सौगतसिद्धान्ते / (2) अकृतकत्वव्यावृत्तिरूपं कृतकत्वं न स्वलक्षणात्मकम् अवस्तुरूपत्वात् / (3) अकृतकत्वव्यावृत्तिरूपकृतकत्व-नित्यत्वव्यावृत्तिरूपाऽनित्यत्वयोश्च / (4) अन्यव्यावृत्तिरूपयोः कृतकत्वानित्यत्वयोः तादात्म्यं न भवति नीरूपत्वात् / (5) कृतकत्वमनित्यत्वञ्च-आ० टि०। (6) पृ०१६७। (7) प्रतिबिम्बम् / (8) अनुगतैकरूपेण / (9) स्वलक्षणमनुगतेकाकारम् अनुगतैकाकाररूपेण प्रतिबिम्बितत्वात्। (10) सामान्यस्य अन्यापोहात्मकत्वेन अर्थक्रियाकारित्वाभावेन चासतः। (11) न समान्य ज्ञाने प्रतिबिम्बति असत्त्वात् / (12) बौद्धमते / (13) ज्ञाने / (14) सामान्य / (15) प्रतिबिम्बाधारस्य ज्ञानस्य प्रतिबिम्ब्यस्य च सामान्यस्य विविक्तं स्वरूपद्वयं प्रतिभासेत इति भावः। (16) ज्ञानं सामान्यञ्च विभिन्नतया उपलभ्येताम् तत्र प्रतिबिम्ब्यमानत्वात् / (17) प्रतिबिम्बाभावलक्षणो दोषः / (18) सामान्यस्य / 1-कं तयोःश्र०। नन चाकारं आ०। 3 इत्यसमी-2०14 'तस्य' नास्ति आ। 6-तव्यं यस्य यस्य हि आ०, श्र०। 6-विविक्तस्तद्रूप-ब०। 7-बिम्बते भ्र०। 8-बिम्बते च श्र०।