________________ प्रमाणप्र० का० 26] अन्यापोहवादः कार्यकारणभावान्नान्यः; बुद्धिसम्बन्धिनो हि प्रतिबिम्बस्य शब्दजन्यत्वात तेद्वाच्यत्वं तज्जनकत्वाच्च शब्दस्य वाचकत्वमिति // छ / अत्र प्रतिविधीयते / यत्तावदुक्त - 'अपोहः शब्दलिङ्गाभ्याम्' इत्यादि; तदसमी चीनम् ; यतः प्रमाणतः कुतश्चित्तत्सिद्धौ तस्य तद्विषयत्वं युक्तम् , अपोहवादानरसनपरस्सरं शब्दस्य न चासौ कुतश्चित् प्रमाणात्प्रसिद्धः; तथाहि-अपोर्हः प्रत्यक्षतः सिद्ध्येत् , / परमार्थसत्सामान्य- अनुमानाद्वा ? न तावत्प्रत्यक्षतः; स्वलक्षणविषयत्वात्तस्य / नाप्यनुविशेषात्मकार्थवाच- मानतः; तदविनाभाविलिङ्गाभावात् / नहि असन्निवृत्त्या अगोनिकत्वसमर्थनम् - वृत्त्या चौविनाभूतं किञ्चिल्लिङ्गमस्ति / तादात्म्यतदुत्पत्तिप्रतिबन्धवसायिन्या इत्यादि / यदेव हि शाब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो यक्तः / न चात्र प्रसज्यप्रतिषेधाध्यवसायोऽस्ति, न चापीन्द्रियज्ञानवत् स्वलक्षणप्रतिभासः / कि तहि ? बाह्यार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते / तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात्तदात्मतया प्रतिभासनाच्छदार्थो युक्तो नान्य इति, भावः / एवं तावत्प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छन्दैरुपजन्यमानत्वान्मुख्यः शब्दार्थ इति दर्शितम् / शेषयोरप्यपोहयोः गौणं शब्दार्थत्वमुपवर्ण्यमानमविरुद्धमेवेति दर्शयन्नाह-साक्षादाकार एतस्मिन्नेवञ्च प्रतिपादिते / प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते / / न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः // व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः॥ तेनायमपि शब्दस्य स्वार्थे इत्युपचर्य्यते / न तू साक्षादयं शान्दो द्विविधोपोह उच्यते / एवञ्चेति / जन्यत्वेन / कस्मात्पुनः सामर्थ्येन प्रसज्यप्रतिषेधः प्रतीयत इति दर्शयन्नाह-न तदात्मेति / तस्य गवादिप्रतिबिम्बस्यात्मा यः परस्य अश्वादिप्रतिबिम्बस्यात्मा स्वभावो न भवतीति कृत्वा / एवं प्रसज्यलक्षणापोहस्य नान्तरीयकतया प्रतीतेौणं शब्दार्थत्वं प्रतिपाद्य स्वलक्षणस्यापि प्रतिपादयन्नाह-सम्बन्धे सतीत्यादि / तत्र सम्बन्धः शब्दस्य वस्तुनि पारम्पर्येण कार्यकारणभावलक्षणः प्रतिबन्धः। प्रथमं यथावस्थितवस्त्वनुभवः ततो विवक्षा ततः ताल्वादिपरिस्पन्दः ततः शब्द इत्येवं परम्परया शब्दस्य वस्तुभिः बारिग्न्यादिभिः सम्बन्धः स्यात्तदा तस्मिन् सम्बन्धे सति विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगमो भवति / अतो द्विविधोऽपि प्रसज्यप्रतिषेधः अन्यव्यावृत्तवस्त्वात्मा चापोहः शब्दार्थ इत्युपचर्यते / अयमिति स्वलक्षणात्मा, अपिशब्दात् प्रसज्यात्मा च ।"-तत्त्वसं०, 50 पृ० 318-19 / (1) ननु सौगतैस्तादात्म्यतदुत्पत्तिरूप एव सम्बन्ध इष्यते तत्किमत्र वाच्यवाचकभावोपीप्यते इत्याह-आ० टि०“यश्चापि शब्दस्यार्थेन स वाच्यवाचकभावलक्षणः सम्बन्धः प्रसिद्ध: नासौ कार्यकारणभावादन्योऽवतिष्ठते, अपि तु कार्यकारणभावात्मक एवेति दर्शयति-तद्पप्रतिबिम्बस्येत्यादि / तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मनि / वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः / / " शब्दः प्रतिबिम्बस्य जनकत्वाद्वाचक उच्यते, तच्च प्रतिबिम्बं शब्देन जन्यमानत्वाद्वाच्यम्।"-तत्त्वसं० पं० पृ०३१८१९। (2) तेन शब्देन तत्प्रतिबिम्बस्य वाच्यत्वम्-आ० टि०। (3) पृ० 551509 / (4) अपोहस्य / (5) शब्दलिङ्गगोचरत्वम् / (6) तुलना- "इन्द्रिय प्यगोपोहः प्रथमं व्यवसीयते / नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम् // 78 // पूर्वोक्तेन प्रबन्धेन नानुमाप्यत्र विद्यते / सम्बन्धानुभवोऽप्यस्य तेन नैवोपपद्यते // 71 // नागृहीतश्च गमकः शब्दापोहः कथञ्चन / प्रत्यक्षं न च तच्छक्तं न च स्तो लिङ्गवाचकौ // 106 // यतः स्याद् ग्रहणं तस्य, लिङ्गादीनाञ्च कल्पने। न व्यवस्थेति वाच्यैवं बिना प्रत्यक्षमूलतः ॥१०७॥"-मी० श्लो० अपोह० 78-79,106-7 / प्रमेयक० पृ० 435 / प्रमेयर० 3 / 101 / (7) अपोहाविनाभावि। 1 बाविनाभूतं ब०।