________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० विशेषलक्षणम्-स्वभावतः परस्परविलक्षणानर्थानेकार्थकारितया समानहेतुत्वेनाश्रित्य यदेकप्रत्यवमर्शरूपमर्थप्रतिबिम्बस्वभावं ज्ञानमुत्पन्नं तस्य 'अपोह' इति संज्ञा / वस्तुभागच्छायो विकल्पेनोल्लिख्यमानो बाह्यत्वेनाऽभिमन्यमानो विकल्पाकारः स्वाकारविपरीताकारोन्मूलकोऽपोहः 'अपोह्यते अनेन' इति, विकल्पान्तरवाकाराद् भेदेन स्वयं प्रतिभासमानत्वात् / 'अपोह्यते अन्यस्मात्' इत्यन्यापोहः, अयं हि मुख्यतयैव अन्योपोहशब्दाभिधेयः / त्रिभिस्तु कारणैः औपचारिकः-कारणे कार्यधर्मारोपात्, कार्ये कारणधर्मोपचाराद्वा, विजातीयव्यावृत्तस्वलक्षणेन सहैकत्वाध्यवसायाद्वा ? कार्य हि यथोक्लान्यापोहस्य अन्यव्यावृत्तवस्तुप्राप्तिः, अतस्तत्कारणतया कार्यधर्मोऽन्यव्यावृत्तिः तत्री ध्यारोप्यते / कार्ये कारणधर्मो वा; कारणं हि एकप्रत्यवमर्शात्मनोऽन्याँपोहस्य अन्यासं10 सृष्टं स्वलक्षणं तदनुभवेन तस्य जनितत्वात् , अस्ति च कारणभूते स्वलक्षणे अन्यव्या वृत्तिः अतस्तस्याः कार्यभूते प्रत्युवमर्श उपचारः। विजातीयव्यावृत्तं यत्स्वलक्षणं तेन सह प्रत्यवमर्शप्रतिभासिनो रूपस्य एकत्वेनाध्यवसितत्वाद्वा अन्यापोहतेति प्ररूपितः पर्युदासरूपोऽपोहः / ___ प्रसज्यरूपेस्तु 'गौरयम् अगौर्न भवति' इति व्यवच्छेदमात्रपर्यवसित इति / 15 प्ररूपितप्रकारस्य अन्यापोहस्यैव वाचकः शब्दोऽभ्युपगन्तव्यः / वाच्यवाचकभावश्च भासो भाति तादात्म्येन तत्रान्यापोह इत्येषा संज्ञा उक्तेति सम्बन्धः। कल्पक इति-विकल्पके सविकल्प इति यावत् / एतच्च ज्ञान इत्यनेन समानाधिकरणम। अर्थात्मताभावेऽपि इति / बाह्यार्थात्मताया अभावेऽपि / निश्चितमिति अध्यवसितम्।"-तत्त्वसं०,पं० पृ० 317 / ' (1) अश्वादिविकल्पादन्यो गवादिविकल्पः- आ.टि०। (2) "अथ कथं तस्यापोह इत्येष व्यपदेश इत्याह-प्रतिभासान्तरादित्यादि। प्रतिभासान्तराद् भेदादन्यव्यावृत्तवस्तुनः। प्राप्तिहेतुतयाऽश्लिष्टवस्तुद्वारागतेरपि // विजातीयपरावृत्तं तत्फलं यत्स्वलक्षणम् / तस्मिन्नध्यवसायाद्वा तादात्म्येनास्य विप्लुतैः / तत्रान्यापोह इत्येषा संज्ञोक्ता सनिबन्धना। चतुर्भिनिमित्तैरपोह इति तस्याख्या। विकल्पान्तरारोपितप्रतिभासान्तराद् भेदेन स्वयं प्रतिभासनात् मुख्यतः,अपोह्यत इत्यरोहः, अन्यस्मादपोहोऽन्यापोह इति व्युत्पत्तेः। उपचारात्तु त्रिभिः / १-कारणे कार्यधर्मारोपाद्वा, यदाह अन्यव्यावृत्तवस्तुनः प्राप्तिहेतुतयेति। २-कार्ये वा कारणधर्मोपचारात्, तद्दर्शयति-अश्लिष्टवस्तुद्वारा गतेरपीति / अश्लिष्टम् अन्यासम्बद्धम् अन्यतो व्यावृत्तमिति यावत्, तदेव वस्तु द्वारमुपायः, तदनुभवबलेन तथाविधविकल्पोत्पत्तेः / ३-विजातीयापोहपदार्थेन सहक्येन भान्तः प्रतिपतृभिरध्यवसितत्वाच्चेति चतुर्थं कारणम् / तद्दर्शयति-विजातीयेत्यादि / अस्येति / विकल्पबुद्ध्यारूढस्य अर्थप्रतिबिम्बस्य सनिबन्धनेति / सह निबन्धनेन प्रतिभासान्तराद् भेदादिनोक्तेन चतुर्विधेन वर्तत इति सनिबन्धना।"-तत्वसं०, पं० पृ० 317 / (3) अन्यापोहः कारणम् अन्यव्यावृत्तवस्तुप्राप्ति: कार्यम्-आ० टि०। (4) अपोहे कारणे-आ० टि० / (5) एतत्कार्यम् / (6) एतत्कारणम्-आ० टि०। (7) अन्यापोहस्य-आ० टि०। (8) अन्यापोहस्वरूपे-आ० टि०। (9) "प्रसज्यप्रतिषेधश्च गौरगौन भवत्ययम् / अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते ॥"-तत्त्वसं० पृ० 318 / (10) “तदेवं त्रिविधमपोहं प्रतिपाद्य प्रकृते शब्दार्थत्वे योजयन्नाह-तत्रायमित्यादि / तत्रायं प्रथमः शब्दरपोहः प्रतिपद्यते / बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात्समुद्भवात् / / प्रथम इति यथोक्तार्थप्रतिबिम्बात्मा। तत्र कारणमाह-बाह्यार्थाध्य -1-नाम्यवस्थितत्वाद्वा आ० /