________________ प्रमाणप्र० का० 26] अन्यापोहवादः 555 मर्थक्रियाकारित्वं संभवतीत्युक्तं सामान्यनिषेधावसरे'। तन्नार्थगोचराः शब्दाः किन्तु अन्यापोहगोचराः / ___ स चौर्धपञ्चमाकारः; तथाहि-न जातिव्यक्तथोस्तैद्गोचरत्वं पूर्वोक्तदोषात् / नापि ज्ञानतदाकारयोः; तयोरपि स्वेन रूपेण स्वलक्षणत्वात्, तस्य च सङ्केताविषयतया शब्दगोचरतानुपपत्तेः, किन्तु स एव ज्ञानाकारो दृश्यविकल्पावेकीकृत्य बहीरूपतया- 6 ऽध्यस्तोऽर्धपश्चमाकारः अन्यापोहः / बाह्यत्वं हि तस्य अर्धाकारः / अपोहश्च निषेधः / स च द्विविधः-पर्युदासः, प्रसज्यश्च। पर्युदासोऽपि द्विविधःबुद्ध्यात्मा, अर्थात्मा च / तत्र बुद्ध्यात्मा, बुद्धिप्रतिभासोऽनुगतैकरूपत्वेन अर्थेष्वध्यवसितः / अर्थात्मा अर्थस्वभावो विजातीयव्यावृत्तमर्थस्वलक्षणम् / तत्रै बुद्ध्यात्मनो (1) पृ० 285 / (2) जातिव्यक्तिज्ञानतदाकारा एते सत्याः, अर्धपञ्चमाकारः अर्धत्वं त दृश्यस्य सत्यत्वात् विकल्पस्यासत्यत्वात्-आ० टि०। (3) शब्दविषयत्वम् / (4) ज्ञानरूपेण / (5) ज्ञानस्वलक्षणस्य / (6) "व्याख्यातार एवं विवेचयन्ति न हि व्यवहारः / ते तु स्वालम्बनमेव अर्थक्रियायोग्यं मन्यमानाः दृश्यविकल्प्याविकीकृत्य प्रवर्तन्ते / ते हि यथावस्थितं वस्तु व्यवस्थापयन्तः एवं विवेचयन्ति / अन्यो विकल्पबुद्धिप्रतिभासः अन्यत्स्वलक्षणमिति, न व्यवहार एवं विवेचयन्ति / ते तु व्यवहारः स्वालम्बनमेवेति विकल्पप्रतिभासमेवार्थक्रियायोग्यं बाह्यस्वलक्षणरूपं मन्यमानाः / एतदेव स्पष्टयति-दृश्योऽर्थः स्वलक्षणम् विकल्प्योऽर्थः सामान्यप्रतिभासः तावेकीकृत्य स्वलक्षणमेवेदं विकल्पबु या विषयीक्रियते शब्देन चोद्यते इत्येवमधिमुच्यार्थक्रियाकारिण्यर्थे प्रवर्तन्ते, तदभिप्रायवशाद् व्यवहर्तृणामभिप्रायवशादेवमुच्यते विवेकिषु भावेषु विकल्पबुद्धिर्भवतीति / दृश्यविकल्प्यावेकीकृत्य प्रवृत्तेरिति वदता न स्वाकारे बाह्यारोप इत्युक्तं भवति अन्यथा स्वाकार एव प्रवृत्तिप्रसंगात् मरीचिकायां जलारोपादिव / नापि ब्राह्ये स्वाकारारोपः; आरोप्यमाणफलाथित्वेनैव प्रवृत्तिप्रसंगात् जलार्थिन इव जलभ्रान्तौ / ' अर्थानुभवे सति तत्संस्कारप्रबोधेन तदाकार उत्पद्यमानो विकल्प: स्वाकारं बाह्याभिन्नमध्यवस्यति न त्वभिन्नं करोति / तेन विकल्पविषयस्य दृश्यात्मतयाध्यवसायाद् दृश्यविकल्प्ययोरेकीकरणमुच्यते।"-प्रमाणवा० स्ववृ०, टी० 1172 / (7) “तथाहि द्विविधोऽपोहः पर्युदासनिषेधतः / द्विविधः पर्युदासोऽपि बुद्धयात्माऽर्थात्मभेदतः / तत्र बुद्धयात्मा बुद्धिप्रतिभासः, अर्थेष्वनुगतैकरूपत्वेना'ध्यवसितः / अर्थात्मा अर्थस्वभावः विजातीव्यावत्तमर्थस्वलक्षणमित्यर्थ ।"-तत्त्वसं०, पं० पृ० 316 / तुलना-"त्रिविधो हि वोपोहः-एकस्तावद् व्यावृत्तं स्वलक्षणमेव अन्योऽपोह्यतेऽस्मिन्निति कृत्वा, यदधिकत्याह-स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः इति... व्यवच्छेदमात्रं द्वितीयः अन्यापोहनमन्यापोह इति कृत्वा;"विकल्पबुद्धिप्रतिभासस्तु तृतीयः अपोह्यतेऽनेनेति कृत्वा, अयञ्च शब्दस्य निबन्धनतयाऽभ्युपगम्यते ।"-अनेकान्तजय० पृ० 37A. / (8) "तत्र बुद्ध्यात्मनः स्वरूपं दर्शयन्नाह-एकेत्यादि / एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा। अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः // तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम। कल्पकेऽर्थात्मताऽभावेप्यर्था इत्येव निश्चितम् / / ... यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेकं ज्वरादिशमनलक्षणं कार्यं कुर्वन्ति तथा शाबलेयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्या एकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्तीत्यन्तरेणापि वस्तभतं सामान्यमिति / अभयादिसमा इति-हरीतक्यादितुल्याः एकार्थकारितया साम्यम् / तानुपाश्रित्य इति-तानभयादिसमाननाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्नं विकल्पकं ज्ञानं तत्र यदाकारतयाऽर्थप्रतिबिम्बकमर्था 1 चार्थपञ्च-ब०, चार्थसंच-श्र०।-भासानु-ब० / 3-श्वव्यवस्थितः श्र० / 4 अथात्मा ब०।