________________ 554 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० नचैकस्य वस्तुनो रूपद्वयमस्ति येन अस्पष्टं वस्तुगतमेव रूपं शाब्दप्रत्यये प्रतिभासेत; एकस्य द्वित्वविरोधात् / प्रयोगः-यत्कृते प्रत्यये यन्न प्रतिभासते न तत्तस्य विषयः यथा रूपप्रभवप्रत्यये रसः, न प्रतिभासते च शब्दप्रत्यये स्वलक्षणमिति / वस्तुविषयत्वे च शब्दानां मतभेदेन अर्थभेदाभिधायित्वानुपपत्तिः / उक्तश्च “परमार्थंकतानत्वे शब्दानामनिबन्धना / __ न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु // " [प्रमाणवा० 3 / 206] इति / तन्न स्वलक्षणस्वभावः शब्दस्य विषयो घटते / / ____नापि सामान्यरूपः; वास्तवस्य सामान्यस्यैवाऽसंभवात्, तदसंभवश्च अश्वविषाणवदनर्थक्रियाकारित्वात् सुप्रसिद्धः / न खलु नित्यैकस्वभावस्य॑ क्रमयोगपद्याभ्यापं० पृ० 280 / प्रमेयक० पृ० 447 / सन्मति० टी० पृ० 177, 260 / स्या० र० पृ० 710 / तुलना-"(उष्णादिप्रतिपत्तिर्या) नामादिध्वनिभाविनी। विस्पष्टा (भासते नैषा) तदर्थेन्द्रियबुद्धिवत् / / यथा युष्णाद्यर्थविषयेन्द्रियबुद्धिः स्फुटप्रतिभासा वेद्यते न तथोष्णादिशब्दभाविनी। न [पहतनयनरसनघाणादयो मातुलिङ्गादिशब्दश्रवणात्तद्रूपरसाद्यनुभाविनो भवन्ति यथाऽनुफ्हतनयनादय इन्द्रियधियाऽनुभवन्तः ।"-तत्त्वसं०, पं० पृ० 280 / (1) "न चैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टास्पष्टम् / येनास्पष्टं वस्तुगतमेव रूपं शब्दरभिधीयते इति स्यात्, एकस्य द्वित्वविरोधात् ।"-तत्त्वसं० पं० पृ० 281 / “न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुद्ध एकस्य वस्तुनः स्तः यत एकेनेन्द्रियबुद्धौ प्रतिभासेत अन्येन विकल्पे / तथा सति वस्तुन एव भेदप्राप्तेः।"-अपोहसि० पृ०७। (2) स्वलक्षणं न शब्दप्रत्ययविषयः शब्दप्रत्यये प्रतिभासमानत्वात् / “न स तस्य च शब्दस्य युक्तो योगो न तत्कृते / प्रत्यये सति भात्यर्थो रूपबोधे यथा रसः / / प्रयोग:-यो हि तत्कृते प्रत्यये न प्रतिभासते न स तस्यार्थः यथा रूपजनिते प्रत्यये रसः, न प्रतिभासते च शब्दे प्रत्यये स्वलक्षणमिति व्यापकानपलब्धिः"-तत्त्वसं० पं०५० 280 / (3) व्याख्या-"परमार्थः स्वलक्षणम् तस्मिन् एकस्थानः (एकस्तानः) प्रवृत्तिर्येषां तद्भावस्तत्त्वं तस्मिन् सति शब्दानामनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् दर्शनान्तरभिन्नेष्वर्थेषु सिद्धान्तभेदभिन्नेषु ।"-प्रमाणवा० स्ववृ० टी० 11209 / “परमार्थंकतानत्वे परमार्थंकपरत्वे शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शनं भिन्नाभ्युपगमेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु अनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् / न हि परस्परविरुद्धा बहवो धर्मा एकत्र सन्ति ।"-प्रमाणवा० मनोरथ० 3 / 206 / (4) 'दर्शनान्तरभेदिषु'-प्रमाणवा० / शास्त्रवा० श्लो० 647 / अनेकान्तजय० पृ० 35 A. / प्रकृतपाठ:-अष्टसह० पृ० 168 / सिद्धिवि० टी० पृ० 268 A. / 'तस्मात्प्रवृत्तिरर्थेषु समयान्तरभेदिषु'-स्या० र० पृ०७१०। (5) “अपि प्रवर्तेत पुमान् विज्ञायार्थक्रियाक्षमान् / तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधायकाः / तत्रानर्थक्रियायोग्या जातिः / न खलु लोकोऽसंकेतयन् शब्दानप्रयुञ्जानो वा दुःखितः स्यात्। व्यसनापन्नः अथ किमिति चेत् ; सर्व एवाधेय आरम्भः फलार्थः / निष्फलारम्भस्य उपेक्षणीयत्वात् / तदयं क्वचिच्छब्दं नियुञ्जानः किञ्चित्फलमेवेहितुं युक्तः। तच्चेत् सर्वम् इष्टानिष्टाप्तित्यागलक्षणम् / तेनायमिष्टानिष्टसाधनासाधनं कृत्वा तत्र प्रवृत्ति निवृत्ति वा कुर्या कारयेयं वेति नियोग आद्रियेत शब्दान् वा नियुञ्जीत अन्यथोपेक्षणीयत्वात्। तत्र जातिरनर्थक्रियायोग्या। नहि जातिहिदोहादौ क्वचिदपि प्रत्युपस्थिता। न वा तादृशप्रकरणाभावे लोकव्यवहारेषु शब्दप्रयोगः।"-प्रमाणवा० स्ववृ० 1195 / (6) सामान्यस्य / 1 रूपप्रत्यये श्व०। 2 सामान्यस्वरूपः श्र०, ब० /