________________ प्रमाणप्र० का० 26 ] अन्यापोहवादः स्तयोस्तेने सम्बन्धकरणं युक्तमतिप्रसङ्गात् / यो अस्येदमिति सम्बन्धकारिणि ज्ञाने न प्रतिभासेते न तयोस्तेन ज्ञानेन सम्बन्धकरणं यथा गोशब्दतदर्थयोः सम्बन्धज्ञानेऽप्रतिभासमानयोः अश्वशब्दतदर्थयोः न तेर्ने ज्ञानेन सम्बन्धकरणम्, न प्रतिभासेते च . स्वेन्द्रियज्ञानप्रतिभासिनौ शब्दार्थस्वभावौ अस्येदमिति सम्बन्धकारिणि ज्ञाने इति / न चार्थेनाऽकृतसम्बन्धः शब्दस्तं प्रत्याययितुमीशः अतिप्रसङ्गादेव / यो येन सहाऽकृत- / सम्बन्धो न स तमर्थं प्रत्याययति यथा अश्वेन सहाकृतसम्बन्धो गोशब्दः, अकृतसम्बन्धश्च स्वलक्षणेन सर्वः शब्द इति / स्वलक्षणविषयत्वे च शाब्दप्रत्ययस्य इन्द्रियप्रभवप्रत्ययवत् स्पष्टप्रतिभासप्रसङ्गः, न चैवम् , प्रतीतिविरोधात् / तदुक्तम् "अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते // " [ ] 10 "अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते / अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते // " [ वाक्यप० 2 / 425 ] इति / (1) शब्दार्थस्वलक्षणयो:-आ० टि० / (2) ज्ञानेन-आ० टि०। (3) शब्दार्थो-आ० टि० / सम्बन्धग्राहिज्ञानेन न शब्दार्थस्वलक्षणयोः सम्बन्धग्रहणम् सम्बन्धग्राहिज्ञानेप्रतिभासमानत्वात् / (4) गोशब्दार्थसम्बन्धग्राहिणा। (5) चक्षर्ज्ञानेऽर्थस्वलक्षणं श्रोत्रज्ञाने शब्दः प्रतिभाति-आ० टि०। (6) "एतदुक्तं भवति-यद्यगहीतसङ्केतमर्थ शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्वं प्रतिपादयेत्, सङ्कतकरणानर्थक्यञ्च स्यात्, तस्मादतिप्रसङ्गापत्तिः बाधकम् ।"-तत्त्वसं० 50 पृ० 277 / (7) शब्दः न स्वलक्षणं प्रतिपादयति तस्मिन्नकृतसङ्केतत्वात् / “प्रयोग:-ये यत्र भावतः कृतसमया न भवन्ति न ते परमार्थतस्तमभिदधति यथा सास्नादिमति पिण्डेऽश्वशब्दोऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तनि सर्वे ध्वनय इति व्यापकानुपलब्धेः कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात।"-तत्वसं० पं० 10276 / (8) व्याख्या-'अन्यदेव रूपादिस्वलक्षणमिन्द्रियग्राह्यम्, तस्मादन्यः शब्दस्य गोचरो विषय इति गृह्यताम् / शब्दात्प्रत्येति भिन्नाक्षः प्रध्वस्तनयनः, न तु प्रत्यक्षं यथा भवति तथेक्षते / समानविषयत्वे वाऽनन्धस्येवान्धस्यापि शब्दादपरोक्षैव प्रतिपत्तिः स्यात् / तथात्वे इन्द्रियाग्निसम्बन्धादिवद दाहशब्दादपि दाहार्थप्रतिपत्तिः स्यादित्याह-अन्यथैव...."-प्रश० व्यो०प०५८४ / “अन्यदेवेन्द्रियग्राह्य स्वलक्षणम्, अन्यच्छब्दस्य गोचरः सामान्यलक्षणम्, कुतः ? शब्दात्प्रत्येति भिन्नाक्ष: अन्धोऽपि घटादि, न तु प्रत्यक्षमीक्षते चक्षुष्मानिव / एतदेव भावयति-अन्यथा स्पष्टानुभवेन दाहसम्बन्धात् इन्द्रियार्थयोगेन दाहं स्वगतं दग्धोऽभिमन्यते, एवं पुमान्न जानाति, अन्यथा स्वस्पष्टाननुभवतः दाहशब्देन तेन दाहार्थः संप्रतीयते श्रोत्रा।"-शास्त्रवा० टी० श्लो० 666-67 / (9) स्फाटितनेत्र:-आ० टि०। (10) उद्धृतोऽयम्-'अन्यः शब्दस्य'-प्रश० व्यो० पृ० 384 / न्यायमं०१० 31 / शास्त्रवा० श्लो. , 666 / अनेकान्तजय० पृ०४५। प्रमेयक० पृ० 446 / सन्मति० टी० ए० 260 / धर्मसं०७० पृ० 149 / स्या० 2010 710 / (11) व्याख्या-"दाहाद्यर्थः प्रतीयते-यदि शब्देन यथावद्वाह्योऽर्थः प्रत्याय्यत तदा शब्दसन्निधापितोऽसौ तामार्थक्रियां कथन्न कुर्यात्, यतश्चाग्निसम्बन्धादग्धो दाहमन्यथाऽनुभवति दाहशब्देन च दाहमन्यथाऽवगच्छतीति शब्दार्थयोर्नास्ति कश्चिद्वास्तवः समन्वय इति बोद्धव्यम् ।”-वाक्यप० पु० टी० / उद्धृतोऽयम्-प्रश० व्यो० पृ० 584 / न्यायमं० पृ० 31 / शास्त्रवा० श्लो० 667 / अनेकान्तजय० पृ० 45 / नयचक्रवृ० लि. पृ० 44 B. / 'संप्रकाश्यते'-तत्त्वसं० 1 स्वेन्द्रियविज्ञान-श्र०। 2 उक्तञ्च ब०। 3-क्षते ॥इति / ब०। 20