________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० [ क्षणभङ्गाध्यायः (?) ] इति / प्रयोगः-यात्र प्रतिभाति तत्तस्य विषयः यथा अक्षजे संवेदने परिस्फुटप्रतिभासमानवपुरर्थात्मा नीलादिस्तद्विषयः, शब्द लिङ्गप्रभवे च प्रत्यये बहिरर्थतत्त्वरहितं स्वरूपमात्रमेव प्रतिभाति अतस्तदेव तस्य विषय इति / न च तत्प्रभवप्रत्यये बहिराऽसंस्पर्शिस्वरूपमात्रावभासित्वमसिद्धम् ; शब्दलिङ्गयोर्बहिरर्थ। विषयत्वायोगतस्तत्सिद्धेः / तथाहि-शब्दस्य बहिरर्थो विषयो भवन् स्वलक्षणस्वभावो भवेत् , सामान्यस्वरूपो वा ? तत्राद्यपक्षोऽनुपपन्नः; तत्रै सङ्केताभावतः शब्दानां प्रवृत्त्यनुपपत्तेः / सङ्केतो हि सङ्केतव्यवहारकालानुयायिस्वरूपेऽर्थे विधीयते, न च स्वलक्षणस्य तथाविधं स्वरूपं संभवति देशकालाकारसङ्कुचितत्वेन अननुयायिस्वरूपत्वात् / ये: सङ्केतव्यवहारकालाननुयायी न तत्र व्यवहारिभिः शब्दः सङ्केत्यते यथा उत्पन्नमात्र10 प्रध्वंसिनि कचिदर्थे, नान्वेति च विवक्षितदेशादिभ्यः शाबलेयादिर्देशान्तरादाविति / किञ्च, 'अस्येदमभिधानम्' इति यस्मिन् ज्ञाने सम्बन्धः प्रतिभाति न तत्र ज्ञाने प्रतिनियतेन्द्रियविषययोः शब्दार्थस्वलक्षणयोः प्रतिभासः / न च तत्राप्रतिभासनयोः. . प्रमाणवा० स्ववृ० 1144 / “अन्यापोहविषया आचार्येण प्रोक्ताः 'अपोहः शब्दलिङ्गाभ्यां प्रतिपाद्यते' इति ब्रुवता।"-प्रमाणवा० मनोरथ० 33133 / (1) शब्दलिङ्गप्रभवप्रत्यययोः बहिरर्थरहितं स्वरूपमात्रमेव विषयः तत्र स्वरूपमात्रस्यैव प्रतिभातत्वात / "उच्यते विषयोऽमीषां धीध्वनीनां न कश्चन / अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम / तथाहि-अस्माभिरिष्यत एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तम्, न तु विषयभूतं भान्तत्वेन पूर्वस्य शब्दप्रत्ययस्य निविषयत्वात् / अन्तर्मात्रानिविष्टमिति विज्ञानसन्निविष्टं वासनेति यावत् / एतदेवागमेन संस्पदयन्नाह यस्य यस्येत्यादि-यस्य यस्य हि शब्दस्य यो यो विषय उच्यते / स स संविद्यते नैव वस्तनां सा हि धर्मता ।।"-तत्त्वसं०, पं० पृ. 275 / (2) “यतः स्वलक्षणं जातिस्तद्योगते जातिमांस्तथा / बद्धयाकारो न शब्दार्थे घटामञ्चति तत्त्वतः ।"-तत्त्वम० ए० 276 / (3) "शब्दाः सङ्केतितं प्राहुर्व्यवहाराय स स्मृतः / तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र न ॥"-प्रमाणवा० 391 / "तदा व्यवहारकाले तत्स्वलक्षणं नास्ति यत्र सङ्केतः कृतः। एकस्यापि स्वलक्षणस्य क्षणिकत्वात् कालान्तरे तेनैव रूपेणानुगमो नास्ति, अक्षणिकत्वे वा सङ्केतज्ञानाभावादेव तद्विषयत्वस्य कालान्तरेऽनुगमो नास्ति किमत देशकालभिन्नेषु स्वलक्षणेषु, तेन कारणेन तत्र स्वलक्षणेषु संकतो न क्रियते ।"-प्रमाणवा० स्वव० टी०। "तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते। सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः // एतदुक्तं भवतिसमयो हि व्यवहारार्थं क्रियते न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति तत्रैव समयो व्यहर्तणां युक्तो नान्यत्र / न च स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति / तस्मान्न तत्र समयः इति / व्यक्त्यात्मानोनयन्त्येते न परस्पररूपतः। देशकालक्रियाशक्तिप्रतिभासादिभेदतः // तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते / नचागृहीतसङ्केतो बोद्धयेतान्य इव ध्वनेः ॥"-तत्त्वसं०, पं० पृ० 207 / (4) एकपरमाण्वाकारतया एकक्षणस्यायितया निरंशतया च न देशकालाकारान्तरव्याप्तिः स्वलक्षणस्येति भावः / “तस्य देशकालभेदेष्वनास्कन्दनात्, तस्येति सङ्केतकालदृष्टस्य व्यवहारावस्थानादिष देशकालभेदेषु अनास्कन्दनात् अननुगमात् / न हि एकत्र दृष्टो भेदोऽन्यत्र संभवति।"-प्रमाणवा० स्ववृ० टी० 1294 / (5) स्वलक्षणे नास्ति सङ्केतः सङ्केतव्यवहारकालाननुयायित्वात् / (6) यो हि विवक्षितदेशे सोऽन्यः यश्च देशान्तरं याति सोऽन्यः क्षणिकत्वात्-आ० टि०। (7) श्रोत्रचक्षषी। 1-रहितस्वरूप-आ० / तत्राद्यः पक्षो-ब० // 3-विधस्वरूपं ब०।