________________ प्रमाणप्र० का० 26 ] अन्यापोहवादः 551 सम्बन्धस्यानित्यत्वसमर्थनात्, शब्दस्य तदर्थस्य चौग्रे अनित्यतया समर्थयिष्यमाणत्वाच्च, सर्वथा नित्यस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वाभावप्रतिपाद'नाच्च / कथश्चैववादिनः कार्येर्थे चोदनायाः प्रामाण्यं स्यात् कार्यस्याऽनित्यत्वात् ? ततः सिद्धं कथञ्चिदनित्ययोग्यतालक्षणसम्बन्धवशात् श्रुतस्यार्थप्रतिपादकत्वम् / अतः सूक्तम्-'संवादकं श्रुतं प्रमाणम्' इति ॥छ / ननु श्रुतस्याविसंवादित्वमसिद्धम्, अर्थाभावेऽपि शब्दानामुपलम्भात् / य एव 'शब्दस्यान्यापोहमा- हि शब्दाः सत्यर्थे दृष्टाः ते तेदभावेऽपि दृश्यन्ते, अतः शब्दानां त्राभिधायकत्वम् इति विधिद्वरेणाऽर्थाभिधायकत्वानुपपत्तेः अन्यापोहमात्राभिधायकत्वमेवोबौद्धस्य पूर्वपक्ष:- . पपन्नम् / उक्तञ्च-"अपोह: शब्दलिङ्गाभ्यां न वस्तु विधिनोध्यते" शब्दः नित्योऽर्थः नित्यः सम्बन्ध इत्येषा शास्त्रव्यवस्था। तत्राम्नाता महर्षिभिः सूत्रादीनां प्रणेतृभिः / व्याकरण एव-ये सूत्रादीनां प्रणेतारस्ते व्यपदिश्यन्ते / तत्र सूत्राणामारम्भादेव शब्दानां नित्यत्वमभिमतम् / न ह्यनित्यत्वे शब्दादीनां शास्त्रारम्भे किञ्चिदपि प्रयोजनमस्ति / व्यवहारमात्रं ह्येतदनर्थकं न महान्तः शिष्टाः समनुगन्तुमर्हन्तीति तस्माद् व्यवस्थितसाधुत्वेषु शब्देषु स्मृतिशास्त्रं प्रवृत्तमिति ।"वाक्यप० हरि० 1123 / उद्धृतोऽयम्-सिद्धिवि० टी० पृ० 505 / प्रमेयक० पृ० 429 / (1) पृ० 372 / (2) नित्यससम्बन्धवादिनः-आ०टि० / (3) आम्नायस्य क्रियार्थत्वात् . . .''जैमिनिस० 102 / 1 / “चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः ।"-शाबरभा० 1102 / (4) अग्निष्टोमादियज्ञरूपकर्मणः / (5) “अतीताजातयोऽपि न च स्यादनृतार्थता / वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता।"-प्रमाणवा०३।२०७। (6) "विकल्पप्रतिबिम्बेषु तनिष्ठेषु निबध्यते। ततोऽन्यापोहनिष्ठत्वादुक्ताऽन्यापोहकृच्छ्रुतिः // विकल्पानां प्रतिबिम्बेष्वाकारेषु तनिष्ठेषु तव्यावृत्तिवस्तुत्वेन व्यवस्थाविषयतया तद्व्यवहारव्यवस्थितिषु सङ्केतकाले निबद्धयते ततो विकल्पप्रतिबिम्बानां बाह्यव्यावृत्तात्मत्वेन व्यवहारविषयत्वात् अन्यापोहनिष्ठत्वात् कारणात् उक्ता श्रुतिरन्यापोहकृत् / अन्यव्यावत्ताकारविकल्पजननात् अन्यव्यावृत्तेषु प्रवर्तनाच्च शब्दोऽन्यापोहकृदुक्तः / ननु शाब्दे ज्ञाने ग्राह्यं बाह्यतयव प्रतीयते न ज्ञानाकारतया इत्याह-व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् / शब्दात्तदपि नार्थात्मा भान्तिः सा वासनोद्भवा ।।"यथा तैमिरिकदृष्टेषु केशेषु बाह्यभ्रमः एवं विकल्पाकारेऽपि बाह्यव्यवहारोऽविद्यावशादित्यर्थः ।"-प्रमाणवा० मनोरथ० 2 / 164-65 / “तत्र यत्तदारोपितं विकल्पधिया अर्थेष्वभिन्न रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयञ्च अन्यव्यावृत्ततया प्रख्यानाद् भान्तश्चान्यव्यावृत्तार्थेन सहक्येनाध्यवसितत्वात् अन्यापोढपदार्थाधिगतिफलस्वाच्चान्यापोढ इत्युच्यते / तेनापोहः शब्दार्थ इति प्रसिद्धम् ।"-तत्त्वसं० पं० पृ० 274 / “अपोहो बाह्यतया आरोपित आकारोपोह्यतेऽनेनेति कृत्वा यद्वा अपोह्यतेऽस्मिन्नत्यपोहः स्वलक्षणम् तस्मान्न विकल्पानां स्वरूपेण बाह्यो ग्राह्योपि तु स्वाकारेण सहकीकृत एव बाह्यो विषयः, स चासत्योपोह्यतेऽन्यदनेनेति अपोह उच्यते ।"-प्रमाणवा० स्व० टी०१४८। "ननु कोऽयमोपोहो नाम ? यथाव्यवसायं बाह्य एव घटादिरर्थोऽपोह इत्यभिधीयते अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा। यथाप्रतिभासं बुद्धयाकारोऽपोहः अपोह्यते पृथक्क्रियतेऽस्मिन् बुद्धघाकारे विजातीयमिति कृत्वा / यथातत्त्वं निवृत्तिमात्रं प्रसह्यरूपोऽपोहः अपोहनममोहः इति कृत्वा।"-तर्कभा० मो०प० 26 / (7) उद्धृतोऽयम्-अष्टसह० पृ० 140 / स्यामं० पृ० 180 / तुलना-"कथं स एव व्यवच्छेदः शब्दलिङ्गाभ्यां विधिना प्रतिपाद्यते न वस्तुरूपमिति गम्यते ?" 1वानेब