________________ . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० षङ्गात् / ततो नित्यसम्बन्धस्य कुतश्चिदप्रसिद्धेः अनित्य एवाऽसौ अभ्युपगन्तव्यः / यदपि तदनित्यत्वे 'प्रतिपुरुषम्' इत्यादि दूषणमुक्तम् ; तदप्यसमीक्षिताभिधानम् ; अनादित्वात् शाब्दव्यवहारस्य / नहि सर्वथा सतो जगतो निर्मूलनाशलक्षणो महाप्रलयः असतश्चात्मलाभलक्षणा सृष्टिः अस्माकं भवतां वा प्रसिद्धा येन अपूर्व5 सृष्टिप्रादुर्भावाश्रयणेन 'समयः प्रतिमर्त्य वा' इत्याद्युक्तं शोभेत / नित्यत्वेऽपि च तत्सम्ब न्धस्य अभिव्यक्तिरनित्याऽभ्युपगन्तव्या, अतस्तत्रापीदं दूषणं तुल्यम् / कथञ्चैववादिनोऽग्निधूमयोरपि सम्बन्धः सिद्ध्येत् तत्राप्युक्तविकल्पानां समानत्वात् / अथाग्निधूमत्वसामान्ययोर्नित्यस्वरूपयोः सम्बन्धित्वेन तत्सम्बन्धनित्यत्वसंभवात् नोक्तविकल्पानां तत्रावकाशः; तदप्यपेशलम् ; केवलँसामान्ययोः सम्बन्धित्वस्य व्याप्तिविचारप्रघट्टके 10 प्रतिषिद्धत्वात् / नित्यत्वञ्च सामान्यस्य प्रागेवे प्रतिषिद्धम् / अतो यथा सादृश्यप्रधान तया सादृश्योपलक्षितानां साध्यसाधनव्यक्तिविशेषाणामनन्तानामपि व्याप्तिज्ञानेन क्रोडीकरणं तथा वाच्यवाचकव्यक्तिविशेषाणामपि / अतः “सम्बन्धस्त्रिप्रमाणकः" [ मी० श्लो० पृ० 680 ] यत्त्वयोच्यते, तत्र 'शब्दवृद्धाभिधेयानि प्रत्यक्षणात्र पश्यति' इति युक्तम् / 'श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया' इत्यप्युपपन्नम, 'अन्यथानुपपत्त्या तु वेत्ति 15 शक्तिं द्वयाश्रिताम्' इत्येतत्त्वनुपपन्नम् ; नित्यशैक्तौ सम्बन्धाख्यायामन्यथानुपपत्तेरभावात्। वह्निधूमादिशक्तिवत् शब्दार्थाश्रितायाः शक्तेरनित्यत्वेऽपि श्रोतुरर्थप्रतिपत्त्युपपत्तेः / / एतेनेदमपि निरस्तम्"नित्याः शब्दार्थसम्बन्धाः तत्राम्नाता महर्षिभिः / सुत्राणां सौनुतन्त्राणां भाष्याणाश्च प्रणेतृभिः // " [वाक्यप० 1 / 23 ] इति; (१)पृ० 543 पं० 13 / (२)जैनानाम् / (3) मीमांसकानाम्-आ० टि० / "तस्मादद्यवदेवात्र सर्गप्रलयकल्पना। समस्तक्षयजन्मभ्यां न सिद्धयत्यप्रमाणिका।"-मी० श्लो० सम्बन्धा० श्लो०११३ / (4) अभिव्यक्तावपि। (5) शब्दार्थयोः नित्यसम्बन्धवादिनः। (6) अग्निधूमसम्बन्ध / (7) नाग्नित्वधूमत्वयोरविनाभावो गृह्यते किन्तु अग्नित्वविशिष्टाग्निना सह धूमत्वविशिष्टधूमस्याविनाभावः गृह्यते इति भावः / (8) पु० 423 / (9) पृ० 285 / (10) साध्यसाधनव्यक्तीनामानन्त्येऽपि सादृश्याद् व्याप्तिज्ञानेन क्रोडीकृतिः एवं वाच्यवाचकव्यक्तीनामपि सादृश्यवशात्तेन क्रोडीकरणम्. अस्ति ह्यत्रापि सादृश्यम्, घटशब्दवाच्योऽयं पृथुबुध्नोदराद्याकारत्वात् पूर्वोपलब्धघटान्तरवत् / -आ० टि० / (11) तुलना-"अतएव च सम्बन्धस्त्रिप्रमाणक इति यत्त्वयोच्यते तदस्माभिर्न मृष्यते / शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यतीति सत्यं श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टयेत्येतदपि सत्यम् / अन्यथानुपपत्त्या तु वेत्ति शक्ति द्वयाश्रितामित्येतत्तु न सत्यम् ; अन्यथाप्युपपत्तेरित्युक्तत्वात्।"-ज्यायमं० पृ० 245 / (12) मीमांसकेन कुमारिलभट्टेन / (13) ज्ञाप्यज्ञापकशक्ति-आ० टि०। (14) यथाहि वह्निधूमयोः ज्ञाप्यज्ञापकशक्तिरनित्याऽपि अनुमेयार्थप्रतिपत्तिप्रयोजिका तथैव शब्दार्थयोः वाच्यवाचकशक्तिरपि / (15) सवृत्तिकाणा (ना) म्-आ० टि० / 'अनुतन्त्रं वात्तिकम्"-वाक्यप० पु० टी० / (16) "सिद्धे शब्दार्थसम्बन्धे / सिद्धे शब्देऽर्थे सम्बन्धे चेति ।"-पा० महाभा० 50 55 / "नित्यः 1 भवतो वा श्र० 12-बादिनो धूमाग्न्योरपि श्र०। 3-विदं यथा श्र०।