________________ 10 प्रमाणप्रे० का 0 26] शब्दार्थयोः नित्यसम्बन्धनिरासः 546 अस्तु वा कुतश्चिन्नित्यः सम्बन्धः; तथाप्यसौ किमैन्द्रियः, अतीन्द्रियः, अनुमानगम्यो वा स्यात् ? नांवदैन्द्रियः; नित्यस्वभावस्य कचिदपीन्द्रियेऽप्रतिभासमानत्वात् / अर्थांतीन्द्रियः; कथमर्थप्रतिपत्त्यङ्गम् अज्ञातस्य ज्ञापकत्वविरोधात् ? 'नाज्ञातं ज्ञापकं नामे" [ ] इत्यभिधानात् / सन्निधिमात्रेण ज्ञापकत्वेऽतिप्रसङ्गात् / नाप्यनुमानगम्यः; सन्बन्धस्याप्रत्यक्षत्वे तत्पूर्वकत्वेनात्राँऽनुमानस्याऽप्रवृत्तेः। / न ह्यगृहीतप्रतिबन्धं किश्चिल्लिङ्गमनुमानमाविर्भावयत्यतिप्रसङ्गात् / अथास्यांप्रत्यक्षत्वेऽपि अनुमानात् प्रतिबन्वग्रहो भविष्यति; ननु किमत एवाऽनुमानात्, तदन्तराद्वा तद्हः स्यात् ? यद्यत एव; अन्योन्याश्रयः-सिद्धे हि अनुमाने तगृहसिद्धिः, तत्सिद्धेश्चानुमानसिद्धिरिति / अनुमानान्तरात्तैत्सिद्धौ अनवस्था, तत्रापि तद्गृहस्य अनुमानान्तरात् प्रसिद्धेः / न चात्र किश्चिल्लिङ्गमस्ति / - नित्यसम्बन्धस्य हि लिङ्गम्-अर्थज्ञानम् , अर्थः, शब्दो वा ? न तावदर्थज्ञानम् ; सम्बन्धासिद्धौ तत्कार्यत्वेनास्याऽनिश्चयात् / नाप्यर्थः; तस्य तेने सम्बन्धासिद्धेः, नहि सम्बन्धार्थयोस्तादात्म्यं संभवति घटाद्यर्थवत् सम्बन्धस्यानित्यत्वप्रसङ्गात् / नापि तदुत्पत्तिः संयोगादिर्वा; अनभ्युपगमात् / नापि शब्दो लिङ्गम् ; अर्थपक्षोपक्षिप्तदोषानु (1) तुलना-"किञ्चासौ सम्बन्धः ऐन्द्रियः अतीन्द्रियः अनुमानगम्यो वा स्यात् ।"-प्रमेयक० पृ० 430 / (2) तुलना-'न च नित्यः सम्बन्धः शब्दार्थयोः प्रमाणेनावसीयते; प्रत्यक्षेण तस्याननुभवात्, तदभावे नानुमानेनापि, तस्य तत्पूर्वकत्वाभ्युपगमात् ।”-सन्मति० टी० पृ० 436 / (3) शब्दार्थसम्बन्धस्य। (४)तुलना-"नातीन्द्रियः सम्बन्धः; ततोऽतीन्द्रियात सम्बन्धात् अर्थस्याप्रतिपत्तिप्रसङ्गात् / किं कारणम् ? अप्रसिद्धस्य स्वेन रूपेण अनिश्चितस्य अज्ञापकत्वात् / न हि येन सह यस्य सम्बन्धो न गृह्यते तद्द्वारेण तस्य प्रतीतिर्यक्ता / अथाज्ञात एव सम्बन्धोऽर्थं ज्ञापयतीन्द्रियवदित्याह-सन्निधिमात्रेणेत्यादि / सम्बन्धस्य सन्निधिमात्रेण सत्तामात्रेणार्थज्ञापनेऽभ्युपगम्यमाने शब्दार्थसम्बन्धं प्रत्यव्युत्पन्नानामपि अर्थस्यायं वाचक इति प्रतिपत्तिः स्यात् ।"-प्रमाणवा० स्वव०१२२३८ / तत्त्वसं० पृ० 712 / प्रमेयक० पृ० 430 / (5) उद्धृतमिदम्-प्रमेयक० पृ० 124, 206 / (6) प्रत्यक्षपूर्वकत्वेन / (7) शब्दार्थसम्बन्धे / (8) प्रतिबन्धोऽविनाभावसम्बन्धः। (9) शब्दार्थसम्बन्धस्य। (10) अनुमानान्तरात् / (11) अविनाभावग्रहः / (12) अविनाभावग्रहणे। (13) अनुमानान्तरेऽपि / (14) शब्दार्थसम्बन्धाधिगमे / तुलना-"नानुमानात् प्रतिपत्तिः सम्बन्धस्य / कुतः ? लिङ्गाभावात् / नहि सम्बन्धसाधनं किञ्चिल्लिगमस्ति / अर्थप्रतीतिरपि न लिङ्गं दृष्टान्तासिद्धः। न हि क्वचिद् दृष्टान्ते सम्बन्धकार्या अर्थप्रतीतिः प्रतिपन्ना। किङ्कारणम् ? तत्रापि दृष्टान्तत्वेनोपनीते सम्बन्धस्यातीन्द्रियत्वेन कारणेन साधनापेक्षणात् / न चास्ति साधनं तत्रापि दृष्टान्तासिद्धेः।"-प्रमाणवा० स्ववृ० टी० 10238 (१५)“तस्य हि लिङ्गं ज्ञानमर्थः शब्दो वा?"-प्रमेयक० पृ० 430 / (16) प्रतिपन्ने हि सम्बन्धे तस्य कार्यमर्थज्ञानं निश्चीयते, स चाद्यापि न सिद्ध:-आ० टि०। (17) तुलना-"शब्दार्थो लिङ्गमिति चेदाहनहीत्यादि। न हि तत्र सम्बन्धविशेषे शब्दरूपमर्थो वा लिङ्गम् / किङ्कारणम् ? तयोः शब्दार्थयोः सर्वत्र योग्यत्वात् / सर्वस्य शब्दस्य सर्वस्मिन्नर्थे वाचकत्वेन योग्यत्वात् सर्वस्य चार्थस्य सर्वस्मिन् शब्दे वाच्यत्वेन योग्यत्वात् / अर्थविशेषप्रतीतेश्च कारणं सम्बन्धविशेषः, तस्य च अर्थविशेषप्रतीतिसमाश्रयस्य सम्बन्धस्य अनियताभ्यां शब्दार्थाभ्यामप्रत्यायनात् ।"-प्रमाणवा० स्ववृ० टी०११२३८। (18) सम्बन्धस्य / (19) अर्थेन /