________________ 548 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० स्वात् प्रतिक्षिप्यते तस्माच्चेद् वेदैकदेशोऽर्थनियमं प्रतिपद्येत किमपौरुषेयत्वेन ? . स्वभावादभिमतैकार्थनियमे तु भावनाद्यर्थभेदानुपपत्तिः। अनेकार्थनियतत्वे तु वेदस्य सकलार्थसाधारणत्वात् कथमिष्टव्यक्तावेव समयकार: समयं कुर्यात् ? "तेनाऽग्निहोत्रं जुहुयात् स्वर्गकामे इति श्रुतौ / खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमौ // " [ प्रमाणवा० 3 / 318 ] तन्न स्वरूपतः सम्बन्धो नित्यः / / नापि सम्बन्धिनित्यत्वात् ; यतः कोऽत्र नित्यः सम्बन्धी-शब्दः, अर्थः, द्वयं वा ? न तावच्छब्दः ; तस्याग्रेऽनित्यत्वप्रसाधनात् / नाप्यर्थः ; घटादेस्तदर्थस्य अनित्यतया प्रत्यक्षादितः प्रतीतेः। अथ सामान्यं तदर्थः, तच्च नित्यम् , अतस्तदाश्रितः सम्बन्धोऽपि नित्य इत्युच्यते; तदसत्; सामान्यस्य तदर्थत्वानुपपत्तेः, तद्वानेव शब्दार्थः इत्यग्रे समर्थयिष्यमाणत्वात् , परैपरिकल्पितसामान्यस्य निषिद्धैत्वाच्च / उभयपक्षोऽपि उभयपक्षनिक्षिप्तदोषानुषङ्गादयुक्तः / र्थाभिधाय्यपि शब्द: पुरुषेण सङ्केतादभिमतार्थाभिधायित्वेन नियम्यते तदा-अपौरुषेयतायाञ्च व्यर्था स्यात्परिकल्पना / वाच्यश्च हेतुभिन्नानां सम्बन्धस्य व्यवस्थितेः ।।"-प्रमाणवा० मनोरथ० 31229 / / (1) तुलना-"असंस्कार्यतया पंभिः सर्वथा स्यान्निरर्थता। संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥"-प्रमाणवा० 3 / 230 / प्रमेयक० 10 430 / (2) तुलना-"प्रकृत्यैव स्वभावेनैव वैदिकाः शब्दा नियता अभिमतेऽर्थे ततो न पुरुषसंस्कारकृतो दोष इति चेत् ; एवं सत्यर्थप्रकाशने नोपदेशमपेक्षेरन्, अपेक्षन्ते च, स्वतस्तेभ्योऽर्थप्रतीतेरभावात् / यदि च ते स्वभावत एव प्रतिनियताः स्युः तदा यत्र क्वचिदर्थे एकदाः समिताः पुनः कथञ्चित् ततोऽन्यथा सङ्केतेनार्थान्तरं न प्रकाशयेयुः, प्रकाशयन्ति च ततो न प्रकृत्यैकार्थनियताः इति / स्वभावतश्चैकार्थनियमे योऽयं वैदिकेषु वाक्येषु व्याख्यातृणां व्याख्याविकल्पश्च अपरापरव्याख्याभेदश्च न स्यात् एकार्थप्रतिनियमात, भवति च, तस्मात् पौरुषेयवाक्यवन्नैकार्थनियता वैदिकाः शब्दा इति ।"-प्रमाणवा० स्ववृ० टी० 11230 / (3) भावनाविधिनियोगरूपेण भाट्टवेदान्तिप्राभाकाराणां वेदार्थविषये व्याख्याभेदो न स्यादिति भावः / (4) तुलना-"सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः।"-प्रमाणवा० 31326 / “नानार्थद्योतने शक्तिर्भवत्येकस्य हिं ध्वनेः / नाग्निहोत्रादयस्त्वर्थाः सर्वे सर्वोपयोगिनः / तदिष्टविपरीतार्थद्योतनस्यापि संभवात् / नित्यशब्दार्थसम्बन्धकल्पना वो निरथिका ॥"-तत्त्वसं० पृ०७११ / (5) “अग्निहोत्रं जुहुयात्"-मैत्र्यु०६।३६ / (6) व्याख्या "तेनेति अपरिज्ञातार्थत्वेन अग्निहोत्रं जहयात् स्वर्गकाम इति श्रुतौ वेदवाक्ये खादेच्छवमासमित्येष नार्थः किन्त्वन्योऽभिमतोऽर्थ इत्यत्र का प्रमा? नैव किञ्चित्प्रमाणम् ।"-प्रमाणवा० स्ववृ० टी० 1320 / "अग्निं हन्तीति अग्निहः श्वा तस्योत्रं मासं जुहुयात् खादेत् / अथवा अगति गच्छतीत्यग्निः श्वा हूयतेऽद्यते यत्तत् होत्रं मांसम् अग्नेर्होत्रमित्यग्निहोत्रं श्वमांसं तज्जुहुयात् खादेत् स्वर्गकामः पुमान् द्विजः / " -प्रमेयरत्नमा० टि० पृ० 134 / उद्धृतोऽयम्-शास्त्रवा० श्लो०६०५ / न्यायमं० पृ० 405 / नन्दिमलय० पृ० 19 / (7) तुलना-'सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता।"-प्रमाणवा० 31231 / (8) शब्दस्य (9) सम्बन्धविषयभूतस्य अर्थस्य। (10) शब्दार्थ:-आ० टि०। (11) सामान्याश्रितः। (12) सामान्यवानेव / (13) मीमांसकनैयायिकादि / (14) पृ० 285 / 1 नित्यसम्बन्धी आ० / 2-स्वात् उभ-ब०।