________________ प्रमाणप्र० का० 26] शब्दार्थयोः नित्यसम्बन्धनिरासः रूपं हि वस्तु यदि व्यक्तं तदा सर्वदा व्यक्तमेव अभिन्नस्वभावत्वात्तस्य / किञ्च, सङ्केतः पुरुषाश्रयः, स च अतीन्द्रियार्थज्ञानविकलतया अन्यथापि वेदे सङ्केतं कुर्यात् अतो मिथ्यात्वलक्षणमस्याऽप्रामाण्यं स्यात् / . किश्च, नित्यसम्बन्धवशात् शब्दः एकार्थनियतः, अनेकार्थनियतो वा स्यात् ? एकार्थनियतश्चेत् ; किमेकदेशेन, सर्वात्मना वा ? सर्वात्मनैकार्थनियमे अर्थान्तरे वेदात् / प्रतिपत्तिर्न स्यात् , ततश्चास्याज्ञानलक्षणमप्रामाण्यम् / चौरशब्दो वा नित्यसम्बन्धात् तस्करे रूढः कथं दाक्षिण्यैः ओदने प्रयुक्तः तमभिदध्यात् / अथैकदेशेनासौ तन्नियतः स किमेकदेशः अभिमतैकार्थनियतः, अनभिमतैकार्थनियतो वा ? अनभिमतैकार्थनियमे मिथ्यात्वलक्षणं वेदस्याऽप्रामाण्यं स्यात् / अथाऽभिमतैकार्थनियतः ; किं पुरुषात् , स्वभावाद्वा ? प्रथमपक्षे अस्यापौरुषेयत्वसमर्थनप्रयासो व्यर्थः / पुरुषो हि रागाद्यन्ध- 10 (1) नित्यैकरूपस्य सम्बन्धस्य / (2) तुलना-''अर्थज्ञापनहेतुहि सङ्केतः पुरुषाश्रयः / गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसंभवः // किं ह्यस्यापौरुषेयतया ? यतो हि समयादर्थप्रतिपत्तिः, स पौरुषेयः वितथोऽपि स्यात्, शीलं साधनं स्वर्गवचनम्, अन्यथा समयेन विपर्यासयेत् तेनायथार्थमपि प्रकाशनसंभवात्।”-प्रमाणवा० स्ववृ० 10228 / “सङ्केतमन्तरेणापौरुषेयादपि वाक्यादर्थप्रतीतेरभावात् / अर्थज्ञापनहेतुरिह सङ्केतः स्वीकर्तव्यः, स च पुरुषकृतत्वात्पुरुषाश्रयः / अतः सङ्केतस्य पुरुषाश्रयत्वात् गिरामपौरुषेयत्वेऽपि मिथ्यात्वस्य सम्भवः। सङ्कतवशेन वाचोऽर्थ ब्रुवते / स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न विसंवादशानिरास: पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनम् ।"-प्रमाणवा० मनोरथ० 32226 / “अर्थद्योतनहेतोश्च सङ्केतस्य नराश्रयात् / शक्तावितरजन्यायामपि मिथ्यात्वसंभवः ॥"तत्वसं० पृ०७१०। प्रमेयक० पृ० 430 / (3) पुरुषः / (4) वेदस्य / (5) तुलना-"किञ्च वाचां किमेकेनार्थेन सह वाच्यवाचकसम्बधः, अथानेकै: ? गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः / अनेका भिसम्बन्धे विरुद्धव्यक्तिसंभवः // गिरामेकस्मिन्नर्थे वाचकतया नियमे सति संकेतवशादन्यत्रार्थन स्याद् गतिः, दृश्यते च विवक्षातोऽनेकार्थाभिधानम् / अनेकैरथैर्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्ते प्रतीतेः संभवः स्यात् / अग्निष्टोमः स्वर्गस्य साधनमिति विपर्ययोप्यवसीयेत / ततश्चाप्रवृत्तिरेव स्यात् स्वर्गार्थिनः ।"-प्रमाणवा० मनोरथ० 3228 / “सा शक्तिरेकार्थनियता वा भवेन्नानार्थनियता वा।"तत्त्वसंप पृ० 710 / प्रमेयक पृ० 430 / “यदि पुनः शब्दस्य वस्तुनि स्वत एव योग्यत्वं को दोषो येन सङ्केतस्तत्रापेक्ष्यते? इति चेदुच्यते-तत्सर्वविषयं नियतविषयं वा? पूर्वविकल्पे ततो युगपत्सर्वार्थप्रतीतिप्रसङ्गात् तथा च न ततो नियतविषयप्रवृत्त्यादिरिति व्यवहारविलोपः। तत आह-न सर्वयोग्यता साध्वी सङ्कतान्नियमो यदि। द्वितीयविकल्पे दोषमाह -सम्बन्धनियमेऽन्यत्र सङ्कतेऽपि न वर्तताम् ॥"न्यायवि० का० 431 / (6) वेदस्य / (7) 'चोरशब्दो (यथा) लोके भक्ष्यार्थं प्रतिपादयेत् / केषाञ्चिच्चोरमेवाहुः तन्त्रप्येवं पदास्तथा ॥"-ज्ञानसि० पृ० 75 / "यथा चौरशब्दस्तस्करवचन ओदने दाक्षिणात्यैः प्रयुज्यते ।"-न्यायमं० पृ० 242 / प्रश० कन्व० पृ० 215 / (8) एकदेशार्थनियतः / तुलना-“य एवार्थो वस्तुस्थित्या स्वर्गसाधनः किन्तत्रैव समयकारेणग्निहोत्रादिशब्दोऽभिव्यक्तः किम्वान्यस्मिन्नेव स्वर्गसाधनविरुद्ध बद्धिमान्द्यादिति सन्देह एव।"-प्रमाणवा० स्वव० टी० 230 (10) वेदस्य / तुलना-"स इति शब्दः सर्वस्मिन् वाचकत्वेनानियतः नियम क्वचिदर्थे पुरुषात् पुरुषसङ्केतात् प्रतिपद्यते / स च पुरुषो विरुद्धप्यर्थे सङ्केतं कुर्यात्। तथा च न केवलं विरुद्धव्यक्तिसंभवः / यापीयमपौरुषेयता वेदस्येष्टा तस्या व्यर्था स्यात् परिकल्पना।"-प्रमाणवा० स्ववृ० टी० 11230 / “अथानेका 1 ततश्चाज्ञानल-आ०। 2 उदने आ० /