________________ 546 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. भागमपरि० अत्र प्रतिविधीयते / यत्तावदुक्तम्-'अनित्यो नित्यो वा' इत्यादि ; तदसमीक्षिता भिधानम् ; तत्सम्बन्धस्य नित्यरूपतया विचार्यमाणस्यानुपपत्तितो तन्निरसरनपुरस्सरम् परुषकतानि नित्यत्वानुपपत्तेः / यद् यद्रूपतया विचार्यमाणं नोपपद्यते न तत् तवशादेव शब्दानाम् तद्रूपतयाऽभ्युपगन्तव्यम् यथा जगदद्वैतरूपतया, नित्यरूपतया विचाअर्थप्रतिपादकत्वस- र्यमाणो नोपपद्यते च शब्दार्थयोः सम्बन्ध इति / न चास्य तद्रूप॑तया मर्थनम् - विचार्यमाणस्यानुपपद्यमानत्वमसिद्धम् ; तथाहि-तत्सम्बन्धस्य नित्यत्वं स्वभावतः, सम्बन्धिनित्यत्वाद्वा स्यात् ? यदि स्वभावतः ; तर्हि सर्वदा सर्वस्य अर्थमसौ प्रकाशयतु स्वरूपतस्तस्य प्रकाशकत्वात् / नहि प्रदीपः स्वरूपतो रूपप्रकाशकः सन् कश्चित्प्रति तत् प्रकाशयति कश्चिन्नेति नियमो दृष्टः / अथ सङ्केतव्यक्तोऽसौ तत्प्रकाशकः 10 तेनायमदोषः ; कथमेवमस्य नित्यैकरूपता, व्यक्ताव्यक्तरूपतया भेदप्रसङ्गात् ? नित्यैक मेतस्माद्वाक्यादयमर्थः प्रत्यायित इत्येवं सम्मुग्धरूपेणावगतं प्रत्यायकत्वं पश्चाद्वहुषु प्रयोगेषु अन्वयव्यतिरेकाभ्यां वाक्यभागानां पदानां पदभागानाञ्च प्रकृतिप्रत्ययानां वाक्यार्थभागेषु पदार्थेषु विविच्यते तस्मान्न / पौरुषेयः सम्बन्धः.."-शास्त्रदी० पृ० 463 / 'तु बुद्धेः शक्ति'-स्या० र० पृ० 677 / (1) पृ० 542 पं० 16 / (2) शब्दार्थसम्बन्धस्य / तुलना-"शब्दवदर्थवच्च तृतीयस्य तस्यप्रत्यक्षादिना प्रमाणेनाप्रतीयमानत्वात् ।"-न्यायमं० पृ० 243 / (3) न शब्दार्थसम्बन्धो नित्यः नित्यरूपतया विचार्यमाणस्यानुपपद्यमानत्वात् / (4) नित्यरूपतया। (5) सम्बन्धिनोः शब्दार्थयोः नित्यत्वाद्वा / तुलना-“असौ नित्यः सन् स्वभावतोऽर्थ प्रकाशयेत्, सङ्केताभिव्यक्तेर्वा"-स्या० र० पृ० 701 / (6) तुलना-" सम्बन्धापौरुषेयत्वे स्यात्प्रतीतिरसंविदः / सम्बन्धापौरुषेयत्वेपीष्यमाणे स्यादर्थानां प्रतीतिरसंविदोऽविद्यमानसङ्केतप्रतीतेः पुंस: / न चेच्छब्दार्थयोः साङ्केतिको वाच्यवाचकता सम्बन्धः किन्तु स्वाभाविकः, तदाऽगृहीतसङ्कतोऽपि श्रुताच्छब्दादर्थं प्रतिपद्यतेति ।"-प्रमाणवा० मनोरथ० 3 / 227 / “यद्यर्थप्रतिपादने शब्दस्य स्वभावेन शक्तिः स्यात; एवन्तहि सन्देहलक्षणमस्याप्रामाण्यं स्यात् इष्टेऽनिष्टे चार्थे प्रकाशनशक्तिसंभवात् / यदि चास्य स्वभावतः एव सा शक्तिः किं सङ्केतेन ?" -प्रमाणवा० स्व० टी०१२२२९ / 'अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थितेः / तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भवेत् ॥"-तत्त्वसं० 10 710 / “सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तादन्यतो वा यतः कुतश्चिदभिनवादपि दीपादिव शब्दादर्थप्रतिपत्तिः स्यात् ।"-न्यायमं० पू० 243 / (7) शब्दार्थसम्बन्धस्य। (8) रूपम् / (9) सम्बन्धः। (10) शब्दार्थप्रकाशकः / तुलना-"सङ्कतात्तदभिव्यक्तावसदान्यकल्पना। न वै सम्बन्धो विद्यमानोऽप्यनभिव्यक्तोऽर्थप्रतीतिहेतुः / सङ्केतः खल्वेनमभिव्यक्तिमे (ति) तर्हि सिद्धोपस्थायी किमकारणं पोष्यते ?"-प्रमाणवा० स्ववृ० 1229 / “यथा दीपस्यार्थप्रकाशने शक्तस्येन्द्रियापेक्षा तथा शब्दस्यन्द्रियापेक्षा तथा शब्दस्यापि सङ्केतापेक्षेति चेत् ; न; प्रदीपेन्द्रिययोः प्रत्येकमभावेऽप्यर्थप्रकाशकत्वाभावात् तत्रान्योन्यापेक्षत्वं युक्तं नैवं शब्दशक्तिसङ्केतयोः, सङ्केतमात्रेणैवार्थप्रतीतेरुत्पत्तेः तस्मान्न स्वभावतः शब्दोऽर्थप्रतिपादनसमर्थ इत्युत्पत्तिलक्षणमप्रामाण्यम् ।"-प्रमाणवा० स्ववृ० टी० 2229 / प्रमाणवा० मनोरथ० 3 / 227 / "तस्मिन् सङ्केतसापेक्षा शक्तिश्चेत्परिकल्प्यते। ननुपकार्यपेक्ष्येत नोपकार्या च साऽचला॥"-तत्त्वसं० 10710 / “अथ सङ्केताभिव्यक्तेः; कथमस्य नित्यकरूपत्वमुपपन्नं व्यक्ताव्यक्तरूपतया भेदप्रसक्तेः।"-स्या० र० पृ० 709 / (11) शब्दार्थसम्बन्धस्य / 1 स्वभावात ब०। संभवस्वभावतः श्र०। 2 प्रकाशयेत श्र०।-पस्तत्स्वरूपतोतत्प्रकाशक: ब०। 4 प्रकाशकं क-ब० /