________________ प्रमाणप्र० का० 26 ] शब्दार्थयोः नित्यसम्बन्धनिरास: वपि सकृत्सम्बन्धकरणमयुक्तम् / तत्राखिलवाच्यवाकानां संकृत्संभवाभावात् / शब्दार्थव्यवहारैविकलस्य कालस्य चाऽसंभवात् / अतो नित्य एव शब्दार्थयोः सम्बन्धोऽभ्युपगन्तव्यः / . तत्प्रतीतिश्च प्रमाणत्रयसम्पाद्या; तथाहि-यदैकोऽन्यस्मै प्रतिपन्नसङ्केताय प्रतिपादयति 'देवदत्त गामभ्याज शुक्लां दण्डेन' इति, तदा पार्श्वस्थोऽन्योऽव्युत्पन्नसङ्केतः / शब्दार्थों प्रत्यक्षतः प्रतिपद्यते, श्रोतुश्च तद्विषयक्षेपणादिचेष्टोपलम्भादनुमानतो गवादिविषयां प्रतिपत्तिं प्रतिपद्यते, तत्प्रतिपत्त्यन्यथानुत्पत्त्या च शब्दस्यैव तंत्र वाचिकां शक्ति परिकल्पयतीति / उक्तश्च- . "शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति / श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेटया // 10. अन्यथानुपपत्या तु वेत्ति शक्ति द्वयाश्रिताम् / " [मी०श्लो॰सम्बन्धा० 140-41] इति / (1) "न हि सम्बन्धव्यतिरिक्तः कश्चित्कालोऽस्ति, यस्मिन्न कश्चिदपि शब्द: केनचिदर्थन सम्बद्ध आसीत् ।"-शाबरभा०.११११५। “सर्गादौ हि क्रिया नास्ति तादृक्कालो हि नेष्यते।"-मी० श्लो० सम्बन्धा० श्लो०४२ / शास्त्रदी० पृ०४१८। तत्त्वसं० पृ० 627 / न्यायमं० पृ० 242 / (2) "औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः"-जैमिनिसू० 11115 / "औत्पत्तिक इति नित्यं ब्रमः / उत्पत्तिहि भाव उच्यते लक्षणया। अवियुक्तः शब्दार्थयोर्भावः सम्बन्धः।"-शाबरभा०शश५ / “अपौरुषेयः शब्दस्यार्थेन सम्बन्धः"-शाबरभा० 11115 / पृ० 41 / “अपौरुषेये सम्बन्धे शब्द: प्रामाण्यमृच्छति ।"-प्रक० 50 पृ० 161 / “नित्याः शब्दार्थसम्बन्धाः"-वाक्यप०१२३ / (3) प्रत्यक्षानुमानार्थापत्तिरूपं प्रमाण• त्रयम् / (4) शब्दं श्रावणप्रत्यक्षेण अर्थञ्च चाक्षुषाध्यक्षेण प्रतिपद्यते / (5) गवादिविषय / (6) देवदत्तस्य श्रोतुः देवदत्त गामभ्याजेति वाक्यात् गोक्षेपणविषयिणी प्रतीतिर्जाता तद्वाक्यश्रवणानन्तरमेव गोक्षेपणचेष्टाऽन्यथानुपपत्तेः। (7) देवदत्त गामभ्याजेति वाक्ये गवादिविषयकक्षेपणार्थवाचिका शक्तिरस्ति ततस्तत्प्रतीत्यन्यथानुपपत्तेः। (8) गोविषयकक्षेपणार्थे। (9) 'शब्दवृद्धाभिधेयांश्च'-मी० श्लो०, प्रमाणवा० स्ववृ० टी० 11228 / न्यायमं पृ० 245 / 'प्रत्यक्षेणैव'-स्या० र० पृ० 677 / (10) "अन्यथानुपपत्त्या च बुद्धयेच्छक्ति द्वयाश्रिताम् / अर्थापत्त्याऽवबुद्धयन्ते सम्बन्धं त्रिप्रमाणकम् ॥"-मी० श्लो पृ० 680 / प्रमाणवा० स्ववृ० टी० 11228 / 'वेत्ति शक्ति द्वयात्मिकाम्'-न्यायमं० पृ० 245 / व्याख्या-"शब्दवृद्धाभिधेयानि 'सम्बन्धप्रतिपत्तेरयं न्यायः कुमारिलेन वर्णितः-यस्मात् प्रथमं तावत् प्रत्यक्षेण शब्दं वृद्धं च शब्दस्याख्यातारम् अभिधेयञ्च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति अवधारयतीत्यर्थः / करणं कारकं कृत्वा चेष्टाया अनुमानत्वमुक्तम् / ततश्च पश्चादर्थापत्त्या द्वयाश्रितां शब्दार्थाश्रितां शक्ति वेत्ति / अर्थापत्त्या तु साक्षादवबुद्धयन्त इत्यतोऽपित्त्यावबुद्धचन्त इत्युक्तम् ।"-तत्त्वसं० 50 10709 / “वृद्धानां स्वार्थे संव्यवहरमाणाना'मुपशृण्वन्तो बालाः प्रत्यक्षमर्थं प्रतिपद्यमाना दृश्यन्ते ।"-शाबरभा० 12115 / पृ० 56 / “किञ्चास्त्युपायो बालानाम्, नावश्यं सम्बन्धकथनवाक्येनैव वृद्धभ्यो बालाः सम्बन्ध प्रतिपद्यन्ते किन्तु यदा वृद्धाः प्रसिद्धसम्बन्धाः स्वकार्यार्थेन व्यवहरन्ति तदा तेषामुपशृण्वन्तो बालाः सम्बन्ध प्रतिपद्यन्ते / यदा हि केचित् 'गामानय' इत्युक्तः कश्चित् सास्नादिमन्तमानयति तदा समीपस्थो बालोऽवगच्छति-यस्मादय 1 सकृत्संभवाभावाभावात् आ०, सकृत्संभवात् ब० / 2-विकल्पस्य च का-आ०। 3 तद्विषयपक्षेणा-श्र०। प्रतिपत्त्युत्पद्यते ब०। 5 नु आग, ब०।