________________ 544 . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० यद्येकः; कथं कृतकः ? पूर्वमप्यस्य सद्भावतोऽकृतकत्वप्रसिद्धेः / नहि सतो वस्तुनः पुरुषाज्जन्म युक्तम् , अभिव्यक्तेरेातस्तस्योपपत्तेः / अथानेकः; कथमेकार्थसङ्गतिः ? यथा गोशब्दस्य सास्नादिमानर्थः केसरादिमानश्वशब्दस्येति / किञ्च, प्रेतिपुरुष सम्बन्धकरणे किमेकस्तत्कर्ता, बहवो वा? यद्येकः; तदासौ देशान्तरव्यवस्थितानां कथं समयं विदध्यात् ? तत्र तत्र गत्वाऽसौ करोति चेत् ; तर्हि पुरुषायुषेणापि तत्करणानुपपत्तिः तेषामनन्तत्वात्। अथैकः सन्निहितेषु बहुषु समयं करोति, ते च कृतसमयाअन्येषां तें करिष्यन्ति, तेऽप्यन्येषाम् , इत्येवं सर्वत्र व्यवहारः उपपत्स्यते; तन्न; तेषां प्रयोजनाभावतः सर्वत्र गमनानुपपत्तेः, अतो यत्रैव ते न गच्छन्ति तत्र व्यवहारो न प्राप्नोति। अथ बहवः समयस्य कर्तारः; तर्हि सकलदेशकालेषु एकरूपता समयस्य न प्राप्नोति, 10 तस्यां निमित्ताभावात् / न च ते सर्वे संभूय पर्यालोच्य वा एकमेव समयं कुर्वन्ती त्यभिधातव्यम् ; परस्परानपेक्षाणां स्वातन्त्र्येण समयं कुर्वतां तथा तत्करणानुपपत्तेः / प्रतिशब्दमपि उच्चार्य समयः क्रियेत, अनुच्चार्य वा ? न तावदनुच्चार्य; . अस्य निराश्रयत्वप्रसङ्गात् / न च निराश्रयः सम्बन्धो युक्तः अतिप्रसङ्गात् / नापि उच्चार्य; पुरुषायुषेणापि तथा सम्बन्धस्य कर्तुमशक्यत्वात् / 15 किश्च, 'तिशब्दमुच्चार्य अभिनवः सम्बन्धी विधीयते, प्राक्तन एव वा ? अभिनवस्य विधाने कथमस्य अर्थप्रत्यायनसामर्थ्यावगतिः ? तैदनवगतौ च सम्बन्धकरणानुपपत्तिः / प्राक्तनस्य तु पूर्वमपि सत्त्वात् करणानुपपत्तिः / एकस्य हि वस्तुनो : ज्ञप्तिरेव असकृदावर्त्तते न तूत्पत्तिः / नापि प्रत्यर्थं सम्बन्धः कर्तुं शक्यः; अर्थानामानन्त्याद् विदूरत्वाच्च / सर्गादा (1) "प्रत्येकं वाऽपि सम्बन्धो भिद्येतकोऽथवा भवेत् / एकत्वे कृतको न स्यात् भिन्नश्चेद्देदधीर्भवेत् // एकत्वे तावत्कृततैव न स्यात्, न हि एकस्य बहुभिः क्रिया संभवतीत्याह एकत्व इति।" -मी० श्लो० न्याय० र० सम्बन्धा० श्लो० 14 / “एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात्कृतको न स्यात्, नित्य एव स्यादिति यावत् ।"-तत्त्वसं० पं० पृ० 622 / (2) गगनकपरंमाण्वादीनामेकत्वस्य नित्यत्वाविनाभूतत्वात्, एकत्वं ह्येकरूपत्वम्, तच्च क्रियमाणत्वे विनश्यति-आ०टि०। (3) सम्बन्धस्य / (4) पुरुषव्यापारात् / (5) “यथाऽस्मिन्देशे सास्नादिमति गोशब्द: एवं सर्वेषु दुर्गमेष्वपि / बहवः सम्बन्धारः कथं संगंस्यन्ते ? एको न शक्नुयात् / अतो नास्ति सम्बन्धस्य कर्ता ।"-शाबरभा०१।१५। (6) सङ्केतकरणानुपपत्तिः / (7) देशान्तराणाम् / (8) समयम् / (9) अन्यपुरुषाणाम् / (10) सङ्कतस्य एकरूपतायाम् / “बहुभिः कृतसम्बन्धे न चैको गमको भवेत् ।"-मी०लो० पृ. 644 / 11) "समुच्चयोऽपि नैतेषां व्यवहारेऽवगम्यते ।"-मी० श्लो० सम्बन्धा० श्लो०१७। (12) पुरुषाणाम् / (13) मिलित्वा सङ्केतकरणे प्रयोजनाभावात् / (14) सङ्केतस्य। (१५)प्रतिशब्दमुच्चार्य उच्चार्य / (16) तुलना-"प्रत्युच्चारणं प्राक्तन एव क्रियते, नूतनो वा ? नवस्य तावत्क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्यमवगम्यते तदवगतौ वा किं तत्करणेन? पूर्वकृतस्य तदकृतत्वादेव पुनः करणमनुपपन्नम् / एकस्य वस्तुनो ज्ञप्तिरसकृदावर्तते नोत्पत्तिः ।"-न्यायमं० पृ० 242 / “प्रत्युच्चारणनिर्वृत्तिन युक्ता व्यवहारतः।"-तत्त्वसं० का० 2274 / (17) नूतनसङ्केतस्य। (18) अभिनवस डूतस्य अर्थप्रत्यायनशक्तिपरिज्ञानाभावे। (19) सङ्केतस्य / (20) पुनः पुनः। (21) विप्रकृष्टदेशवर्तित्वात / 1 कृतःश्र०12 केशरा-आ013 करोतीति ते च आ014-च्चार्य निरा-श्र० 5 कारणानुप-आ०।