________________ प्रमाणप्र० का 0 26 ] शब्दस्य अर्थवाचकत्वम् त्वमयथार्थप्रकाशकत्वं वा, तस्य गुणदोषनिबन्धनत्वात् / सति हि नैर्मल्यादिगुणे चक्षुर्यथावद्वस्तु प्रकाशयति काचादिदोषे तु सति अयथावत्, एवं शब्दोऽपि वक्तगुणदोषापेक्षः सत्येतररूपं वस्तु प्रकाशयति / अत एव अङ्गुलिशिखराधिकरणकरेणुशतवैचसि वाध्यमानेऽपि पुनः पुनरुच्चार्यमाणे भवति भ्रान्तिः प्रकाशकत्वस्य तत्स्वरूपस्य बाधकशतोपनिपातेऽप्यनपायात् / यच्चान्यदुक्तम्-'नेन्द्रियवदुदास्ते' इति ; तदप्युक्तिमात्रम् ; बाधकप्रत्ययप्रवृत्तावपीन्द्रियस्य चन्द्रद्वयविषयमिथ्याज्ञानजनकत्वप्रतीतेः / न च तत्प्रवृत्तौ तत् तद्विषयं विज्ञानं नोत्पादयतीत्यभिधातव्यम् ; प्रतीतिविरोधात् / यदप्युक्तम्-'विकल्पयोनयः शब्दाः' इत्यादि; तत् सविकल्पकसिद्धौ कृतोत्तरत्वादुपेक्षते / ततः प्रमाणं शब्दः अर्थोपलब्धिनिमित्तत्वात् प्रत्यक्षादिवत्, स्वपरपक्ष- 10 साधनदूषणसमर्थत्वाच्च सम्यग्ज्ञानवत्, तथा सकलतत्त्वविप्रतिपत्तिनिवृत्तिनिमित्तत्वात् योगिज्ञानवत् / न खलु देशकालस्वभावविप्रकृष्टाऽखिलार्थानां शब्दादन्यतो विप्रतिपत्तिनिवृत्तिः संभवति तदुपायान्तराऽसंभवात् / लिङ्गं तदुपायान्तरं संभवतीति चेत्; न; तत्प्रेतिबद्धलिङ्गस्य कस्यचिदप्यप्रतिपत्तेः / ततो योग्यतालक्षणसम्बन्धात् शब्दस्यैव तत्रै प्रामाण्यमभ्युपगन्तव्यमिति // छ / ___नन्वस्तु शब्दस्यार्थे सम्बन्धः, स तु अनित्यः, नित्यो वा स्यात् ? तत्राद्यपक्षोऽ. 'शब्दार्थयोर्नित्यसम्ब- नुपपन्नः ; अनित्यस्य सम्बन्धस्य कर्तुमशक्यत्वात् / समयो हि क्रियन्धसभवान्नानि माणः प्रतिपुरुषम्, प्रतिशब्दम् , प्रत्यर्थं सर्गादौ सकृदेव क्रियते कृतः सङ्केतः' इति - मीमांसकस्य पूर्वपक्षः- प्रकारान्तरासंभवात् / उक्तश्च “समयः प्रतिमर्त्य वा प्रत्युच्चारणमेव वा / / क्रियते जगगदादौ वा सकृदेकेन केनचित् / / " [ मी० श्लो० सम्बन्धा० श्लो० 13 ] प्रथमपक्षे पुरुषेण प्रतिपुरुष सम्बन्धः क्रियमाणः किमेकः क्रियते, अनेको वा ? 16 20 (1) यथार्थायथार्थप्रकाशकत्वस्य / (2) अङ्गुल्यग्रे हस्तिशतमास्ते इतिवचने। (3) शब्दस्वरूपस् / (4) पृ० 537 पं० 14 / (5) बाधकप्रत्ययप्रवृत्तौ। (6) इन्द्रियम्-आ० टि०। (7) चन्द्रविषयम्-आ० टि०। (8) पृ० 537 पं० 16 / (9) पृ० 47 / (10) मेरुपर्वतरामरावणादिपरमाण्वादीनाम् / (11) विप्रकृष्टार्थप्रतिपत्तिसाधनम् / (12) देशकालस्वभावविप्रकृष्टार्थ-आ० टि०। (13) विप्रकृष्टार्थे / (14) एतावताऽत्र भंग्या क्रम उक्त:-आ० टि०। (15) व्याख्या"इयमस्य संज्ञेति समयः, स प्रत्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारणं प्रतिप्रयोगं वा / अथवा जगदादौ जगतः सृष्टिकाले केनचित् ईश्वरादिना धात्रा सकृत् एकयैव हेलया क्रियतेति त्रयो विकल्पाः ।"-तत्त्वस० पं० पृ० 622 / उद्धृतोयम्-प्रमाणवा० स्ववृ० टी० 11230 / तत्त्वसं० पृ० 622 / जैनतर्कवा० पृ० 31 /