________________ 542 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. अागमपरि० तैव, वाक्यैकदेशस्यापि उदाहरणविवक्षायाम् इतिकरणावच्छिन्नस्य शब्दपरत्वेनोपादानात् प्रतिषेधैकवाक्यतया यथार्थतैव / अर्थपरत्वे तु निषेधेनैकवाक्यतैव न स्यात् / तस्माद् आप्तप्रणीतशब्दानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शिनःशब्दाः, किन्तु पुरुषदोषवशात्। नन्वाप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकः किं शब्दाभावादयथार्थ5 ज्ञानानुत्पत्तिः, वक्तृदोषाभावाद्वा'; इत्यप्यविचरितरमणीयम् ; अनुच्चारितशब्दस्यापि दोषवतः पुरुषस्य हस्तसंज्ञादिना प्रतारकत्वप्रतीतेः / न च हस्तसंज्ञादिना शब्दानुमान ततो वितथप्रत्यय इत्यभिधातव्यम् / तथाप्रतीत्यभावात् / नद्यादिवाक्यादुत्पन्ने च क्वचिद्विज्ञाने तरङ्गिणीतीरमनुसरन् अनासादितफलः पुरुषः पुरुषमेवाधिक्षिपति 'दुरात्मनाऽनेन विप्रलब्धोऽस्मि' इति, न शब्दम् / ननु पुरुषस्य गुणवतो दोषवतो वा शब्दोच्चारणमात्र एव व्यापारः, अर्थप्रतिपत्तिस्तु शब्दनिबन्धनैवेति तद्विपर्यये शब्दस्यैव व्यापारो न वक्तृदोषाणाम् ; इत्यप्ययुक्तम् यतो गुणवद्वक्तृप्रणीतात् 'तरङ्गिणीतीरे फलानि सन्ति' इति वाक्यात् सत्यप्रत्ययोदयेऽप्येवं शब्दस्यैव व्यापारः स्यात् तद्वक्तुः तदुच्चारणमात्रे चरितार्थत्वात् / अतः कथमेकान्ततः शब्दस्याऽर्थासंस्पर्शित्वमेव स्वरूपं स्यात् ? किञ्च, विपर्ययज्ञानोत्पत्तेयार्वद्भिः सह तद्भावभावित्वमवगम्यते तावतां तत्र 15 व्यापारः, साँ चात्र शब्दोच्चारणे सत्यपि अनाप्तयोगितां विना न दृष्टेति शब्दवत्तदाशयस्यापि तत्रं व्यापारः। 'किञ्च, चक्षुरादिवदर्थप्रकाशकत्वमानं शब्दस्य स्वरूपं न पुनः यथार्थप्रकाशक (1) अङ्गल्यग्रे हस्तियूथशतमास्ते इति वाक्यस्य एकदेशः 'अङ्गल्यग्रे' इत्यादिरूपः। (2) तुलना"अनुच्चरितशब्दोऽपि पुरुषो विप्रलम्भकः / हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् // " -न्यायमं० 10 158 / स्था० र० पृ०७०४। (3) तुलना-"इत्थमप्रतीतेः / उत्पन्ने च क्वचिन्नद्यादिवाक्याद्विज्ञाने तरङ्गिणीतीरमनुसरन्ननासादितफल: प्रवृत्तबाधकप्रत्ययः पुरुषमेवाधिक्षिपति 'धिग् हा तेन दुरात्मना लब्धोऽस्मि' इति न शब्दम्, प्राप्तफलश्च पुंसामेव श्लाघते साधु साधना तेनोपदिष्टमित्यतः पुरुषदोषान्वयानुविधानात्तदभावकृत एव आप्तेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः / पुरुषदोषकृत एव शब्दाद्विप्लवो न स्वरूपनिबन्धनः।"-न्यायमं० पृ० 158 / स्या० र० पृ० 704 / (4) अर्थप्रतीतिविपर्यये / (5) तुलना-'हन्त तर्हि वक्तरि गुणवति सति सरितस्तीरे फलानि सन्तीति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्य उच्चारणमात्रे चरितार्थत्वान्नैकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः ।"-न्यायमं० पृ० 159 / (6) कार्यकारणभावः / (7) विपर्ययज्ञानोत्पत्तिः / (8) अनाप्ताभिप्रायस्य / (9) विपर्ययज्ञानोत्पत्तौ व्यापारः / तुलना-स्या० 2010 407 / (10) तुलना-"युक्तञ्चदेव यत् दीपवत् प्रकाशत्वमात्रमेव शब्दस्य स्वरूपं न यथार्थत्वमयथार्थत्वं वा, विपरीतेऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तेः / अयं तु विशेष:-प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशकत्वं शन्दे तु व्युत्पत्त्यपेक्षमिति / प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे / अत एव अङ्गलिशिखराधिकरणकरेणुशतवचसि बाधितेऽपि पुनः पुनरुच्चर्यमाणे भवति विभ्रमः प्रकाशकत्वतद्रूपानपायात्, न त्वेष शब्दस्य दोषः / पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः / वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ।"-न्यायमं० पृ० 159 / स्या० र० पृ० 704 / 1-मेव रूपं श्र०। 2 किञ्चक्षुरा-ब०। 3 शब्दस्वरूपं श्र०। 4 यथार्थाप्रकाश-आ० /