________________ प्रमाणप्रे० का 26 ] शब्दस्य अर्थवाचकत्वम् 541 प्रतीत्यङ्गतोपपत्तेः। यज्ज्ञापकं तत् ज्ञाप्ये प्रतिपन्नप्रतिबन्धमेव प्रतीतिमुत्पादयति यथा धूमादि, ज्ञापकश्च शब्द इति / चक्षुरादीनां तु कारकत्वात् युक्तं स्वार्थसम्बन्धग्रहणानपेक्षाणां तदुत्पादकत्वम् / स्वयं हि प्रतीयमानम् अप्रतीतार्थप्रतीतिहेतुापकमुच्यते / तद्रूपता च शब्दादेरेवास्ति न चक्षुरादेः, अतः स एव प्रतिपन्नप्रतिबन्धं स्वार्थं गमयति / शक्तिस्तु स्वाभाविकी यथा रूपप्रकाशने चक्षुरादेः तथा अर्थप्रकाशने शब्दस्य / / यदप्युक्तम्-'अतोऽर्थासंस्पर्शिनः शब्दाः' इत्यादि; तदप्यसमीक्षिताभिधानम् ; यतः किमाप्तप्रणीतस्य शब्दस्य अर्थासंस्पर्शित्वं प्रसाध्यते, अनाप्तप्रणीतस्य, शब्दमात्रस्य वा ? तत्राद्यपक्षे प्रत्यक्षबाधा, आप्तप्रणीतात् 'नधास्तीरे फलानि सन्ति' इति वाक्यादतिरस्कृतबाह्यार्थप्रत्ययप्रतीते: ततः प्रवृत्तस्य तदर्थप्राप्तेः / अथाऽनाप्तप्रणीतस्य; तर्हि तस्यैव अर्थाऽसंस्पर्शित्वं युक्तं नान्यस्य, अन्यथा काचादिदोषदुष्टचक्षुःप्रभवप्रत्यक्षस्य अर्थासंस्प- 10 र्शित्वोपलम्भात् गुणवञ्चक्षुःप्रभवप्रत्यक्षस्यापि तेत्स्यात् / एतेन तृतीयविकल्पोऽपि प्रत्याख्यातः; आप्तानाप्तप्रणीतशब्दव्यतिरिक्तस्य शब्दमात्रस्याऽसंभवात् / नन्वाप्तप्रणीताद् अङ्गुल्यादिवाक्याद् विपर्ययज्ञानोत्पत्तिप्रतीतेः शब्दस्यैष महिमा न वक्तृदोषाणाम् ; इत्यप्यचर्चिताभिधानम् ; ओप्तैरेवंविधवाक्याऽप्रयोगात्। ___ यत्तु-'आप्तोऽपि कस्मैचिदुपदिशति' इत्याद्युक्तम् ; तंत्र निषेधपरत्वेनास्य यथार्थ- 15 कथन्न सङ्केतमन्तरेणैव ततस्तदवगतिः ? उच्यते-तथाविधक्षयोपशमाभावात् / न हि रूपप्रकाशनस्वभावोऽपि दीपोऽसति चक्षुषि तत्प्रकाशयति, चक्षुःकल्पश्च क्षयोपशमः, स च.सङ्कततपश्चरणभावनादिजन्यस्तथोपलब्धः ।"-अनेकान्तजय० पृ०३६ A. | "शब्दस्य ज्ञापकत्वात् / ज्ञापकस्य धूमादेरेतद्रूपं यत्सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम् / तद्योग्यतादयस्तु प्रत्यक्षसामग्र्यन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति / शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने ।"-न्यायम०प्र० 241 / (10) सङ्केतग्रहणसहितस्य / (1) ज्ञापकरूपता। (2) शब्दादिः / (3) पृ० 536 पं० 12 / (4) तुलना-"यतः किमाप्तनिगदितशब्दस्यार्थासंस्पर्शित्व"."-स्या० र० पृ०७०३ / (5) तुलना-"भवेदेतदेवं यदि न कदाचिदपि यथार्थ शब्दः प्रत्ययमुपजनयेत् / अर्थसंस्पर्शित्वमेवास्य स्वभाव इत्यवगम्यते / भवति तु गुणवत्पुरुषभाषितान्नधास्तीरे फलानि सन्तीति वाक्यादतिरस्कृतबाह्याओं यथार्थप्रत्ययः तत: प्रवृत्तस्य तदर्थप्राप्तेः ।"-न्यायमं० 10 158 / (6) आप्तोक्तशब्दात् / (7) शक्ले शंखे पीताकारावभासिनः / (8) शुक्ले शंखे शुक्लत्वावभासकस्यापि / (9) अर्थासंस्पर्शित्वमतश्च मिथ्यात्वं स्यादिति भावः / (10) अङ्गल्यग्रे हस्तियूथशतमास्ते इत्यादिवाक्यात् / (11). यत् तिरस्कृतबाह्यार्थप्रत्ययोत्पादकत्वम् / (12) तुलना-"गुणवतामेवंविधवाक्योच्चारणचापलाभावात् ।"-न्यायमं० 10 158 / "आप्तैरेवंविधवाक्यस्याप्रयुक्तेः "-स्या० र० पृ० 704 / (13) पृ० 537 पं० 11 / (14) तुलना-“यत्तु आप्तोऽपि कंचिदनुशास्ति मा भवानभूतार्थं वाक्यं वादीः अङ्गलिकोटौ करिघटाशतमास्ते' इति; तत्र इतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात् प्रतिषेधकवाक्यतया यथार्थत्वमेव / अर्थपरत्वे तु निषेधैकवाक्यतैव न स्यादिति / तस्मादाप्तवाक्यानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शिनः शब्दाः पुरुषदोषानुषङ्गकृत एवायं विप्लवः ।-न्यायमं० पृ० 158 / स्या०र० पृ० 704 / (15) अङ्गल्यादिवाक्यप्रयोगनिषेधकस्य आप्तोपदेशस्य। 1 अतस्तदेव श्र०, ब० / 2-र्थप्रतीतेः प्रवृत्तस्य आ० / 8-प्रयुक्ताद् ब०, श्र० /