________________ लघीयत्रयालङ्कारे न्यायेकुमुदचन्द्रे [4. श्रागमपरि० अथ अनेकार्थप्रत्यायने; तदा युगपत् ततोऽनेकार्थप्रतीतिप्रसङ्गात् प्रतिनियतेऽर्थे प्रवृत्तिर्न स्यात् / इत्यप्यचर्चिताभिधानम् ;, सर्वशब्दानां सर्वार्थेषु प्रत्यायनशक्तिसंभवात् / कथमन्यथा अनवगतसम्बन्धे शब्द प्रयुक्ते सन्देहः स्यात्-'कमर्थं प्रतिपादयितुमनेन शब्दः प्रयुक्तः' इति / नचैवं सकृत्सर्वार्थप्रतिपत्तिप्रसक्तेः प्रतिनियतेऽर्थे ततः प्रवृत्तिर्न स्यादित्य6 भिधातव्यम् ; प्रतिनियतसङ्केतवशात्तषौ प्रतिनियतार्थप्रतिपादकत्वोपपत्तेः / एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते, यथा मॉलवकादौ कर्कटिकाशब्दस्य फलविशेषे, गुर्जरादौ तु योन्यामिति / दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्यापि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते, दूरतिमिरवशाच्च सन्निहिते रूपे, विशिष्टाञ्ज नादिवशात् अन्धकारान्तरितेऽपि ज्ञानजनकत्वम् , काचकामलादिवशाच्च विवक्षित10 रूपाभावेऽपीति / तयो यथा अनेकरूपप्रकाशनयोग्यस्यापि चक्षुषो दूरतिमिरादिप्रति नियतसहकारिवशात् प्रतिनियतदूररूपादिज्ञानजनकत्वं तथा अनेकार्थप्रत्यायनयोग्यस्यापि शब्दस्य प्रतिनियतसङ्केतवशात् प्रतिनियतार्थप्रतिपादकत्वमविरुद्धम् / / अथ मतम्-चक्षुरादिवत् शब्दस्य अर्थे योग्यतालक्षणसम्बन्धसंभवे तद्वदेव अंतः सङ्केतानपेक्षा अर्थप्रतीतिः स्यात् ; तदप्यसङ्गतम् ; तस्य ज्ञापकतया तत्सापेक्षस्यैव अर्थ (1) तुलना-"सर्वाकारपरिच्छेद्यशक्तेऽर्थे वाचकेऽपि वा। सर्वाकारार्थविज्ञानसमर्थे नियमः कृतः ॥"-मी० श्लो० पृ० 202 / “सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात क्वचिद्देशे केनचिदर्थेन व्यवहारः / अत एव चानधिगतसम्बन्धे श्रुते सति सन्देहो भवति कमर्थं प्रत्याययितुमनेन शब्दः प्रयुक्तः स्यादिति ।"-न्यायमं० पृ० 242 / “समयापेक्षणं चेह तत्क्षयोपशमं विना। तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते // सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः / वाच्यस्य च तथाऽन्यत्र नागोऽस्य समयेऽपि हि ॥"-शास्त्रबा० श्लो०६६३-६४ / "तथा च सर्वे शब्दाः प्रायः सर्वार्थवाचकशक्तिमन्तः सर्वे चार्थाः सर्वशब्दवाच्यशक्तियुक्ताः इति विचित्रक्षयोपशमादिसहकारियोगतः तथा तथा प्रवर्तन्ते इति न काचिद्वाधा"-अनेकान्तजय० पृ०३६ A. / “सर्वस्य शब्दस्य सर्वार्थप्रतिपादनशक्तिवैचित्र्यसिद्धेः / पदार्थस्य च सर्वस्य सर्वशब्दवाच्यत्वशक्तिनानात्वात् ।"-अष्टसह. पृ० 143 / 'शब्दस्यानेकार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात् प्रतिनियतार्थप्रतिपादकत्वोपपत्तेः। "-स्या० 20 पू०७०३ / (2) शब्दात् / (3) शब्दानाम् / (4) तुलना-'तथाहि-यवशब्द आर्दीर्घशूके पदार्थे प्रयुज्यते, ते हि यवशब्दात् दीर्घशूकं पदार्थ प्रतिपद्यन्ते म्लेच्छास्तु प्रियङ्गप्रतिपद्यन्ते / एवं त्रिवृत्शब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते, आर्यास्तु लताविशेषे ।"-न्यायवा० ता० पृ० 420 / 'एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते, यथा गुर्जरादौ चोरशब्दस्य तस्करे द्राबिडादौ पुनरोदन इति / दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्यापि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते दूरतिमिरसामर्थ्याच्च सन्निहिते रूपे विशिष्टाञ्जनादिवशादन्धकारान्तरितेऽपि ज्ञानजनकत्वम्, काचकामलादिदूषणबलाच्च विवक्षितरूपाभावेऽपीति।"-स्या०र० पृ०७०३। (5) "एवं कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः।"-स्या०म० पृ० 178 / (6) पीतरूपाभावेऽपि शंखे पीतज्ञानजनकत्वम् / (7) चक्षुर्वदेव / (8) शब्दात्। (9) शब्दस्य / तुलना-"वाच्यवाचकलक्षणो हि शब्दार्थयोः प्रतिबन्धः, तथाहि वाच्यस्वभावा अर्थाः वाचकस्वभावाश्च शब्दा इति तज्ज्ञप्तिवादः / यदैवं 1 कथमर्थ श्र०। 2 मालवादी ब०, श्र०। 3-शमयोग्य-श्र०। 4 अर्थस्य प्रती-श्र० /