________________ प्रमाणप्र० का 0 26] शब्दस्य अर्थवाचकत्वम् प्रतिपादयेत् विशेषाभावात् ; इत्यप्यपेशलम् ; सङ्केतसचिवयोग्यतावशात्तस्य तत्प्रतिपादकत्वाभ्युपगमात्, भूभवनवर्द्धितोत्थितं प्रति चास्य तथाविधत्वाभावान्न तत्प्रतिपादकत्वप्रसङ्गः / सङ्केतो हि 'इदमस्य वाच्यम् इदं वाचकम्' इत्येवंविधो वाच्यवाचकयोर्विनियोगः, स यस्यास्ति तस्यैव शब्दः स्वार्थं प्रतिपादयति नान्यस्य, अन्यथा धूमादिसाधनमप्यस्य॑ अग्न्यादिसाध्यं गमयेदविशेषात्, अविनाभावो हि साधनस्य साध्यगम- 5 कत्वे अङ्गम् , स च सर्वदा सर्व प्रत्यस्यास्ति / येनैव साध्यसाधनयोरविनाभावो गृहीतः तं प्रत्येव साधनं साध्यस्य गमकमित्यभ्युपगमे येनैव शब्दार्थयोः सङ्केतो गृहीतः तं प्रत्येव शब्दोऽर्थस्य वाचकः इत्यभ्युपगम्यतामविशेषात् / ___ ननु सङ्केतः पुरुषेच्छाकृतः, नच तदिच्छया वस्तुव्यवस्था युक्ता अतिप्रसङ्गात् , अँतोऽर्थोपि वाचकः शब्दस्तु वाच्यः किन्न स्यात् तदिच्छाया निरङ्कुशत्वात् ? इत्यप्य- 10 सुन्दरम् ; तत्सङ्केतस्य सहजयोग्यतानिबन्धनत्वाद् धूमाग्निवत् / यथैव हि धूमाग्न्यो:सर्गिक एवांविनाभावः सम्बन्धः, तंद्वयुत्पत्तये तु भूयोदर्शनादिनिमित्तमाश्रीयते, तथा शब्दार्थयोः स्वभाविक एव प्रतिपाद्यप्रतिपादकशक्त्यात्मा सम्बन्धः, तद्वयुत्पत्तये तु सङ्केतः समाश्रीयते / सांसिद्धिकार्थशक्तिव्यतिक्रमे च चक्षुरूपादीनामपि प्रकाश्यप्रकाशकशक्ते य॑तिक्रमः स्यात् / तथा च चक्षुःप्रदीपादीनां प्रकाश्यत्वं घटादीनां तु प्रकाशकत्वं 15 स्यात् / प्रतीतिविरोधोऽन्यत्रापि न काकैर्भक्षितः / ननु शब्दस्य स्वाभाविकी शक्तिः किमेकार्थप्रत्यायने, अनेकार्थप्रत्यायने वा ? यद्येकार्थप्रत्यायने, तदा सङ्केतशतैरपि ततोऽर्थान्तरे प्रतीतिर्न स्यात् धूमादनग्निप्रतीतिवत् / (1) शब्दस्य / (2) अर्थवाचकत्वस्वीकारात् / (3) तुलना-“कः पुनरयं समयः ? अस्य शब्दस्येदमर्थजातमभिधेयमित्यभिधानाभिधेयनियमनियोगः, तस्मिन्नुपयुक्ते शब्दार्थसंप्रत्ययो भवति / " -न्यायभा०२।१।५५। "अभिधानाभिधेयनियमनियोगः समय उच्यते ।"-न्यायमं० पृ० 241 / "अस्यार्थस्यायं वाचक इत्यर्थकथनं समयः"-प्रमाणवा० स्ववृ० टी० 2230 / “इदं पदममुमर्थं बोधयत इति अस्मात्पदादयमर्थो बोद्धव्य इति वेच्छा ।"-तत्त्वचि. शब्दपरि०। स्या० र०५० 702 / (4) पुरुषस्य / (5) भूभवनसंवद्धितोत्थितस्य / (6) पुरुषेण / (7) अतिप्रसङ्गमेव स्पष्टयति / (8) तुलना-“स हि पुरुषकृतः सङ्केतः न च पुरुषेच्छया वस्तुनियमोऽवकल्प्यते, तदिच्छाया अव्याहतप्रसरत्वात् / अर्थोऽपि किमिति वाचको न भवति। न चैवमस्ति, न हि दहनमनिच्छन्नपि पुरुषो धूमान्न तत्प्रत्येति जलं वा तत इच्छन्नपि प्रतिपद्यते / तत्र यथा धूमाग्न्योः नैसर्गिक एवाविनाभावो नाम सम्बन्धः ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोः सांसिद्धिक एव शक्त्यात्मा सम्बन्धः तद्व्युत्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् ।”-न्यायमं० पृ० 241 / “सङ्केतस्य सहजयोग्यतानिबन्धनत्वात् / यथैव हि धूमपावकयोः स्वाभाविक एवाविनाभावः...."-स्या० र० पृ०७०३ / (9) अविनाभावग्रहणाय। (10) आदिपदेन तर्को ग्राह्यः / (11) शब्दार्थयोरपि वाच्यवाचकचोदने / (12) तुलना-गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः। अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसंभवः // " -प्रमाणवा० 3228 / 1 प्रतिपादयतु ब०। 2-विधावाच्यवाच-आ० / 3 साध्यसाधनं साध्यस्य ब०। 4-स्पत्तये स-आ०, ब० // 5-क्रमे चष-श्र०। 6-प्रदीपानां आ०। 7 तथा ब०।