________________ 538 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० अत्र प्रतिविधीयते / यत्तावदुक्तम्-'वस्तुनि सम्बन्धासंभवात्' इत्यादि; तदसमी क्षिताभिधानम् ; तत्रं शब्दस्य तदभावाऽसंभवात् / तथाहि-शब्दः तत्प्रतिविधानपुरस्सरं - अर्थेन सम्बद्ध एव तं प्रकाशयति प्रतिनियततत्प्रत्ययहेतुत्वात् चक्षुर्वत् / शब्दस्य परमार्थसदर्थवाचकत्वस्य शाब्दप्रत्ययो वा सम्बद्धाभ्यां शब्दार्थाभ्यां जन्यते प्रतिनियतप्रत्ययत्वात् 6 प्रथक् प्रामाण्यस्य दण्डीत्यादिप्रत्ययवत् / ननु शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बच समर्थनम् न्धस्याऽपास्तत्वात् कथं सम्बद्वत्वम् ? इत्यप्यनुपपन्नम् / तेदभावेऽप्यनयोः योग्यतालक्षणसम्बन्धसंभवात् / तदभावे सोऽपि कथम् ? इत्यप्यवाच्यम् ; चक्षुरूपयोस्तदभावेऽपि तद्दर्शनात् / न खलु चक्षुषो घटादिरूपेण सह तादात्म्यं तदुत्प त्तिः संयोगो वा सौगतैरभ्युपगम्यते प्रतीतिविरोधानुषङ्गात् , अप्राप्यकारित्वक्षतिप्रसङ्गाञ्च / 10 नाप्यस्य तदभावे रूपप्रकाशनयोग्यतास्वभावसम्बन्धस्याप्यसंभवः; श्रोत्रादिवत् तस्यापि तदैप्रकाशकत्वप्रसङ्गात् / ननु योग्यतातः शब्दस्य अर्थवाचकत्वे अर्थस्यापि शब्दवाचकत्वं किन्न स्यात् ? इत्यप्यसाम्प्रतम् / प्रतिनियतशक्तित्वाद् भावानाम् / योग्यता हि शब्दार्थयोः प्रतिपाद्य प्रतिपादकशक्तिः, ज्ञानज्ञेययोञप्यज्ञापकशक्तिवत् / नच ज्ञानज्ञेययोः कार्यकारणभा15 वात् तत्प्रतिनियमो न योग्यतात इत्यभिधातव्यम् ; तत्कार्यकारणभावस्य 'अन्वयव्य तिरेकाभ्यामर्थश्चेत् कारणं विदः' [लघी० का० 54] इत्यत्र विस्तरतो निराकरिष्यमाणत्वात् / कथञ्चैवं चक्षुरूपयोः घटप्रदीपयोश्च प्रकाश्यप्रकाशकभावप्रतिनियमः स्यात् ? योग्यतातोऽन्यस्य कार्यकारणभावादिप्रतिबन्धस्य तत्र तत्प्रतिनियमहेतोरसंभवात्। ननु योग्यतावशात् शब्दो यद्यर्थं प्रतिपादयति तदा भूभवनवर्द्धितोत्थितस्यापि (1) पृ० 536 पं० 6 / (2) वस्तुनि / (3) सम्बन्धाभाव / (4) अर्थ / (5) तादात्म्यतदुत्पत्तिसम्बन्धाभावे-आ० टि०। तुलना-“सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य।"-न्यायसू० 2 / 1155 / "स च वाच्यवाचकावलम्बनं सङ्केतज्ञानमेव ।"-प्रश० व्यो० 50 585 / "तादृशो .वाचकः शब्दः संकेतो यत्र वर्तते।"-न्यायवि० का० 432 / “अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः / अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितस्ततः ॥"-शास्त्रवा० श्लो० 652 / “सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः ।"-परीक्षामु० 3.100 / “स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इति ।"-प्रमाणनय०४।११ / (6) शब्दार्थयोः / (7) योग्यतालक्षणोऽपि / (8) तादात्म्यतदुत्पत्त्यभावेऽपि / तुलना-“नयनरूपयोः क्वचित्तदभावेऽपि तदुपलभ्भात् ।"-स्या० र० पृ० 702 / (9) चक्षुरूपयोः संयोगाभ्युपगमे। (१०)चक्षुषः-आ० मि०। (11) तादात्म्यतदुत्पत्त्यभावे-आ० टि०। (12) चक्षुष:-आ० टि०। (13) रूपस्य-आ० टि०। (१४)तुलना-"सहजा स्वाभाविकी योग्यता शब्दार्थयोः प्रतिपाद्यप्रतिपादकशक्तिः ज्ञानज्ञेययोर्जाप्यज्ञापकशक्तिवत् ।"-प्रमेयक० पृ० 428 / स्या०र० पृ०७०२ / (15) ज्ञाप्यज्ञापकप्रतिनियमः / (16) ज्ञानार्थयोः कार्यकारणभावस्य / (17) चक्षुरूपयोः घटप्रदीपयोश्च / तुलना-"इतरथा ज्ञानमेव प्रकाशकं ज्ञेयमेव च प्रकाश्यं नपुनर्ज्ञानमिति नियमस्याघटनात् ।"-स्या० र० प० 702 / (18) प्रकाश्यप्रकाशकप्रतिनियम / 1 इत्यनु-आ। चक्षुषा ब०, ०13-ङ्गात् ना-ब०। 4-स्य तत्प्रति-ब०। / यथार्थ ब० /