________________ 15 प्रमाणप्र० का० 26] श्रुतस्य प्रमाणत्वसमर्थनम् / 537 पुरुषदोषाणामेष महिमा न शब्दानाम् ; इत्यप्ययुक्तम् ; दोषवतोऽपि मूकादेः पुरुषस्य अनुच्चारितशब्दस्य ईदृशाऽसत्यप्रत्ययोत्पादनसामर्थ्याऽसंभवात् , असत्यपि च पुरुषहृदयकालुष्ये आप्तप्रयुक्तानि अगुल्यादिवाक्यानि तानुत्पादयन्त्येव / अतः शब्दानामेवैष स्वभावो न वक्तृदोषाणाम् / नन्वाप्ता नेटॅशि वाक्यानि प्रयुञ्जन्ते, प्रयुञ्जाना वा नाप्ताः स्युः; इत्यप्यसत् ; एवमपि हि वक्तृदोषाणाम् अयथार्थज्ञानोदयकारणत्वासिद्धिः, / व्यतिरेकासिद्धेः। यदि हि वक्तृदोषाभावे अमून्यपि वाक्यानि प्रयुज्येरन न चायथार्थान् प्रत्ययान कुर्युः, तदा अन्वयव्यतिरेकाभ्यां वक्तृदोषजत्वं शाब्दज्ञानस्य स्यात् / आप्तैस्तु तेषामप्रयोगे 'किं शब्दाभावाद् अयथार्थज्ञानानुत्पत्तिः, आहोस्विदोषाभावात्' इति सन्दिग्धो व्यतिरेकः, शब्दे तु निश्चितः-सत्स्वपि दोषेषु शब्दानुच्चारणे मिथ्याज्ञानानुत्पत्तेः / न चाप्तत्वम् ईदृग्वाक्यप्रयोक्तृत्वेन विरुध्यते; तथाविधशब्दोच्चारणे सत्यपि 10 आशयदोषाभावतोऽनाप्तत्वायोगात् / तथाहि-आप्तोऽपि कस्मैचिदुपदिशति न त्वयाऽननुभूतार्थवाक्यं प्रयोक्तव्यं यथा 'अमुल्यो हस्तियूथशतमास्ते' इति / अतः शब्दस्यैवैष महिमा न वक्तृदोषाणाम् / / किञ्च, बाधकप्रत्ययोत्पत्तावपि शब्दो मिथ्याज्ञानं जनयत्येव नेन्द्रियवदुदास्ते, अतोऽर्थाऽसंस्पर्शिनः शब्दा विकल्पमात्राधीनजन्मानः सिद्धाः। तदुक्तम् "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। . तेषामन्योन्यसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यमी // " [ ] इति / ' (1) तुलना-"इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेत्, मैवम् ; दोषवतोऽपि पुरुषस्य मूकादेरनुच्चारितशब्दस्यदृशविप्लवोत्पादनपाटवाभावात् / असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानानि अङगुल्यग्रादिवाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावो न वक्तृदोषाणाम् / " -न्यायमं० पृ०.१५७ / स्था० र० पृ० 700 / (2) बाह्यार्थशून्यान् मिथ्याप्रत्ययान् / (३)तुलना"न चाप्ता नेदृशानि वाक्यानि प्रयुञ्जते प्रयुञ्जाना वा नाप्ताः स्युरिति चेत् एतदप्यसुन्दरम् ; एवमपि हि वक्तृदोषाणामयथार्थज्ञानोदयकारणत्वासिद्धिः, व्यतिरेकासिद्धेः.."-स्या० र० पू०७०१। (4) अङ्गल्यग्रे हस्तियूथशतमास्ते इत्यादीनि / (5) तुलना-"उक्तञ्चैतदुम्बेकेन यदाप्तोऽपि कस्मैश्चिदुपदिशति न त्वयाऽननुभूतार्थविषयं वाक्यं प्रयोक्तव्यं यथाऽङ्गल्यग्रे हस्तियूथशतमास्त इति तत्रार्थव्यभिचारः स्फुट इति ।"-चित्सु० पृ० 265 / (6) तुलना-"अपि च न चक्षुरादि बाधकज्ञानोदये सति न विरमति, विपरीतवेदनजन्मनः शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात् / शब्दस्तु शतकृत्वोऽपि बाध्यमानो यथैवोच्चरितः करशाखादिशिखरे करेणुशतमास्त इति तदैव तथाभूतं भूयोऽपि विकल्पमयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यदर्थासंस्पर्शित्वं नामेति ।"-न्यायम० पृ० 158 / (7) 'तेषामन्योन्यसम्बन्धे'-न्यायमं० पृ० 158 / 'तेषामत्यन्तसम्बन्धो'-नयचक्रव० लि. पृ० 167 A. / 'तेषामन्योन्यसम्बन्धात्'-सिद्धिवि० टी० पृ० 365 B, 484 B. / 'कार्यकारणता तेषां .नार्थं शब्दाः स्पृशन्त्यपि'-न्यायावता० टी० पृ० 44 / रत्नाकराव. पृ० 9 / स्या० मं० पृ० 175 / प्रकृतपाठः-स्या०र०प०७०११ पूर्वार्द्धम-अनेकान्तजय०५०३७॥अनेकान्तवाद० 1047 / सिद्धिवि० टी० पृ० 260 B. / शास्त्रवा० यशो० पृ० 402 A. / 1 इत्ययु-आ। 2 प्रतारकादेः आ०, श्र०13 नेदृशवा-श्र०। 4 चक्षुदोष-ब०। 6 चासत्त्वम् श्र०। 18