________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० शब्दो नानुमानम् आप्तोक्तत्वेनैवाऽव्यभिचारिज्ञानजनकत्वात् , यत् पुनरनुमानं न तत्तथा तजनकम् यथा कृतकत्वादि, तथा तजनकश्च शब्द इति / कृतकत्वादिसाधनस्य हि साध्येऽव्यभिचारिज्ञानजनने अविनाभाव एव निमित्तं नाप्तोक्तत्वमनाप्तोक्तत्वं वा शब्दस्य तु आप्तोक्तत्वमेवेति / . सत्यम् , अननुमानस्वभाव एवायं शब्दः अप्रमाणत्वात्, प्रमाणत्वे हि तस्य अनु मानेऽन्तर्भावप्रयासः फलवान् / न चास्यैतदस्ति; वस्तुनि सम्बन्धाऽ. 'शब्दः विकल्पवासनामावजन्यत्वादाः- संभवात् / सम्बन्धो हि शब्दार्थयोर्भवन् तादात्म्यलक्षणः, तदुत्पत्तिसंस्पर्शी, अत एव च स्वभावो वा भवेत् ? न तावत् तादात्म्यलक्षणः; विभिन्नदेशतया न तत्प्रामाण्यम्' इति तयोः प्रतीयमानत्वात्, मुखे हि शब्दः प्रतीयते भूमावर्थ इति / बौद्धस्य पूर्वपक्षः- तत्तादात्म्ये च क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणप्रसङ्गः / नापि तदुत्पत्तिस्वभावः; 'अमुल्यग्रे हस्तियूथशतमास्ते' इत्यादि शब्दानाम् अर्थाभावेऽप्युत्पत्तिप्रतीतेः, स्थानकरणप्रयत्नप्रभवत्वाच्च / अतोऽर्थाऽसंस्पर्शिनः शब्दा न बाह्यार्थे. . प्रतीति जनयितुमलं तत्कथं प्रामाण्यभाजो भवेयुः ? ते हि विकल्पमात्राधीनजन्मानः स्वमहिम्ना तिरस्कृतबाह्यार्थान् प्रत्ययानुत्पादयन्ति यथा 'अमुल्यग्रे हस्तियूथशतमास्ते' इति। (1) तुलना-"आप्तोपदेशसामर्थ्याच्छब्दादर्थ सम्प्रत्ययः / 2 / 1152 / स्वर्ग अप्सरस उत्तरा: कुरवः सप्त द्वीपाः समुद्रो लोकसन्निवेश इत्येवमादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात् प्रत्ययः। किंतहि ? आप्तरयमुक्त शब्द इत्यतः सम्प्रत्ययः, विपर्ययेण सम्प्रत्ययाभावात् नत्वेवमनुमानमिति ।"-न्यायभा०, न्यायवा०.२।१।५२। (2) “नान्तरीयकताभावाच्छब्दानां वस्तुभिस्सह / नार्थसिद्धिस्ततस्ते हि वववभिप्रायसूचकाः // अधुना नैव बाह्येऽर्थेऽस्य प्रामाण्यमित्याह-अपि चेत्यादि / वस्तुभिः स्वलक्षणः सह शब्दनान्तरीयकताया अविनाभावस्याभावात् तेभ्यः शब्देभ्यो नार्थसिद्धिर्न बाह्यवस्तुनिश्चयः, यस्मात्ते वक्त्रभिप्रायसूचकाः ।"-प्रमाणवा० स्ववृ० टी० 31212 / “वचसां प्रतिबन्धो वा को बाह्येष्वपि वस्तूष / प्रतिपादयतां तानि येनैषां स्यात्प्रमाणता // भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदभवः / व्यभिचारान्न चान्यस्य युज्यते व्यभिचारिता // न हि वाच्यः वस्तुभिः सह कश्चित्तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् / तत्र तावन्न तादात्म्यलक्षणप्रतिबन्धोऽस्ति भिन्नाक्षग्रहणादिभ्यो हेतुभ्यः। तत्र भिन्नाक्षग्रहणं भिन्नेन्द्रियेण ग्रहणम् / तथाहि-श्रोत्रेन्द्रियेण शब्दो गृह्यते अर्थस्तु चक्षुरादिना। आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते..."-तत्त्वसं० पृ० 440 / न्यायप्र०वृ०५० पृ०७६ / तुलना-" मुखे हि शब्दमुपलभामहे भूमावर्थमिति ।"-शाबरभा० 1 / 115 / (3) तुलना-"पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः।" -न्यायसू० 2 / 1253 / “स्याच्चेदर्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम् / " -शाबरभा० 11115 / शास्त्रवा० श्लो० 645 / अनेकान्तजय० पृ० 42 A. / न्यायकु० पृ० 144 टि०३ / (4) "विकल्पवासनोद्भूताः समारोपितगोचराः। जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः। अनादिः समानजातीयो यो विकल्पस्तेन आहिता या वासनाशक्तिस्तत उद्भूता उत्पन्ना यथागम समारोपिता य आकाशाद्याकाराः तद्गोचराःत त्प्रतिभासिन्य एव केवलं गताः तत्र बाह्यत्वेन कल्पितेषु आकाशादिषु जायन्ते / नतु ता बुद्धयोऽर्थगोचरा नाकाशादिस्वलक्षणविषयाः।"-प्रमाणवा० स्ववृ० टी०१२२८८ / 1 तथा तज्जनकश्च श्र०। नाप्तोक्तत्वं वा श्र०। 3-युथमास्ते ब०। .