________________ प्रमाणप्र० का० 26 ] श्रुतस्य प्रमाणत्वसमर्थनम् शब्दः तत्रार्थः “मुखे हि शब्द उपलभ्यते भूमावर्थः" [ शाबरभा० 1 / 1 / 5 ] इति भवद्भिरेवाभ्युपगमात् / नापि व्यवहारिणां तदन्वयाध्यवसायोऽस्ति ; न खलु यत्र यत्र पिण्डखर्जूरादिशब्दं शृण्वन्ति तत्र पिण्डखजूराद्यस्तित्वं व्यवहारिणः प्रतिपद्यन्ते। यत्र हि धूमः तत्रावश्यं वह्निरस्तित्वेन प्रसिद्धोऽन्वेता भवति धूमस्य, नत्वेवं देशकृतः शब्दस्य अर्थेनाऽन्धयोऽस्ति / नापि कालकृतः; न हि यत्र काले शब्दः तत्र तदर्थोऽवश्यं संभवति, 5 रावणशङ्खचक्रवर्त्यादिशब्दा हि वर्तमानाः तदर्थस्तु भूतो भविष्यंश्चेति कुतोऽर्थानां शब्दान्वेतृत्वम् 1 अन्वयाभावे च व्यतिरेकस्याप्यभावः तत्पूर्वकत्वात्तस्यै / / ___यदप्युक्तम्-'यो हि शब्दो यत्रार्थे दृष्टः' इत्यादि; तदप्ययुक्तम् ; एवंविधाऽन्वयव्यतिरेकाभ्यां तद्वाचकत्वस्य अस्माभिरभीष्टत्वात् / न चैवंविधान्वयव्यतिरेकत्वमात्रेण अस्यानुमानत्वं वाच्यम् ; प्रत्यक्षस्यापि तत्प्रसङ्गात् तन्मात्रस्य तत्राप्यविशेषात्। यत्र हि 10 घटसद्भावोऽस्ति तत्र तत् प्रत्यक्षं भवति, यत्र तु स नास्ति तत्र तन्न भवतीति / ___ यदपि-'सम्बन्धस्मृत्यपेक्षत्वात्' इत्युक्तम् ; तदप्यनुपपन्नम् ; अननुमानेऽपि संशयोपमानादौ अस्य सद्भावेनाऽनैकान्तिकत्वात् , अननुमानत्वश्च उपमानादेः प्रागे प्रसाधितम् / यच्चान्यदुक्तम्-'शब्दो विवक्षायामेव प्रमाणम्' इत्यादि; तदप्यनल्पतमोविल- 15 सितम् ; तत्र तत्प्रामाण्यस्य 'वर्णाः पदानि वाक्यानि प्राहुरर्थानवाञ्छितान्' [ लघी० का० 64 ] इत्यत्र प्रपञ्चतः प्रतिषेत्स्यमानत्वात् / ___ ततः शैब्दो नानुमानं तद्विभिन्नविषयत्वात् तद्विभिन्नसामग्रीसम्बन्धित्वाञ्च प्रत्यक्षवत् / इतोऽप्यननुमानमसौ पुरुषैर्यथेष्टं नियुज्यमानस्य अर्थप्रतीतिहेतुत्वात् , यत्पुनरनुमानं न तत्तथा यथा कृतकत्वादि, तथा च शब्दः, तस्मान्नानुमानमिति / न च 20 साधनाऽव्यतिरेकोऽयं दृष्टान्तः इत्यभिधातव्यम् ; तथा तैर्नियुज्यमानस्यास्य साध्यप्रतीत्यजनकत्वात् / न हि कृतकत्वं नित्यत्वसाध्येच्छया धूमत्वादिकं वा जलादिसाध्येच्छया नियुज्यमानं तत्प्रतीतिहेतुः, अन्यथा न कश्चिद् विरुद्धो हेतुः स्यात् / तथा, (1) बौद्धादिभिः / (2) व्यतिरेकस्य / (3) पृ० 531 5.0 5 / (४)जैनैः / (5) शब्दस्य / (6) प्रत्यक्षेऽपि / तुलना-'अन्वयव्यतिरेकोपपत्तिः प्रत्यक्षेऽपि, यथा यत्र घटस्तत्र घटज्ञानम्, यत्र नास्ति तत्र तदभाव इति ।"-न्यायवा० पृ० 261 / (7) पृ० 531 50 4 / (8) तुलना-"यत्तावत्स्मूत्यपेक्षत्वादनुमानं शब्द इति ; तन्न ; अनेकान्तात् / अनु (अननु) मानेऽपि स्मृत्यपेक्षित्वमस्ति, यथा संशये यथा तर्के यथोपमान इति ।"-न्यायवा०प० 260 / (9) सम्बन्धस्मृत्यपेक्षत्वस्य / (10) पृ० 495 / (11) पृ० 532 50 10 / (12) विवक्षायाम् / (13) तुलना-“एवंविधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवदनुमानादन्यः शब्दः इति सिद्धम् ।"-न्यायमं० पृ० 155 / (14) तुलना-'सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य / जातिविशेषे चानियमात् / ऋष्यार्यम्लेच्छानां यथाकामं शब्दप्रयोगोऽर्थप्रत्यायनाय प्रवर्तते..."-न्यायभा० 2 / 1155-56 / “यथेष्टविनियोगैन प्रतीतिर्यापि शब्दतः / न धूमादेरिति..."-मी० श्लो० शब्दपरि० श्लो० 19 / (15) कृतकत्वादेर्हेतोः / ___1 यत्र पिण्ड-ब०। 2-ति नापिवे-ब०। 3-भावे व्यति-ब०। 4 शब्दो दृष्टार्थे शब्द इत्यादि श्र०।