________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. अागमपरि० भावात्। न खलु धूमेन अग्निर्जन्यते किन्तु गम्यते, शब्देन तु अर्थप्रतीतिर्जन्यते अतः अस्यामेव सिद्धासिद्धविकल्पावतारः / तन्न शब्दस्य धर्मित्वं घटते / नाप्यर्थस्य; तेन सह शब्दस्य भवद्भिः सम्बन्धानभ्युपगमात् / न हि शब्दार्थयोस्तादात्म्यलक्षणस्तदुत्पत्तिरूपो वा सम्बन्धः सौगतैरभ्युपगम्यते / “न ह्यर्थे शब्दाः 5 सन्ति तदात्मानो वा" [ ] इत्यादिवचनविरोधानुषङ्गात् / न च अर्थेनाऽसम्बद्धोपि शब्दः तस्य धर्मः अतिप्रसङ्गात् / अथ अर्थप्रतीतिहेतुत्वात् तद्धर्मोऽसौ; न; इतरेतराश्रयानुषङ्गात्-पक्षधर्मत्वसिद्धौ हि शब्दस्य अर्थप्रतीतिहेतुत्वसिद्धिः, तसिद्धौ च पक्षधर्मत्वसिद्धिरिति / तत्प्रतीतिहेतुत्वेन चास्यं तद्धर्मत्वे चक्षुरादेरपि पक्षधमतासिद्धेः तत्प्रभवापि प्रतीतिः आनुमानिक्येव स्यात् / तन्न पक्षधर्मत्वं शब्दे संभवति / 10 नाप्यन्वयव्यतिरेको ; देशे काले च शब्दार्थयोरनुगमाभावात् / नहि यत्र देशे (1) अर्थेन स्वलक्षणात्मकेन / (2) बौद्धैः / (3) “उक्तञ्च-न ह्यर्थे शब्दाः तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्नित्यादि ।"-ज्यायप्र० 00 35 / “यथाहि वह्नौ / धूमो जन्यजनकसम्बन्धसम्बद्ध उत्तरभावेन भवति एवं नार्थे जन्यजनकसम्बन्धसम्बद्धाः शब्दा उत्तरभावेन सन्ति। एतेन तदुत्पत्तिसम्बन्धः समर्थ ( शब्दार्थ ) यो स्ति इत्याचष्टे / स एवार्थ आत्मा येषां शब्दानां ते तदात्मानः, अनेन तादात्म्यसम्बन्धोऽपि नास्तीत्याह तस्मिन्निति / अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्येरन् शब्दा इति / अयमभिप्राय:-द्विविधो हि सम्बन्धः सौगतानां तादात्म्यलक्षणस्दुत्पत्तिलक्षणश्च / तत्र तादात्म्यलक्षणो वृक्षत्वशिशपात्वयोरिव तदुत्पत्तिलक्षणस्त्वग्निधमयोरिव / शब्दार्थयोढिविधोऽपि सम्बन्धोऽपि न घटते। तथाहि-न तावत्तादात्म्य- . लक्षणः / तादात्म्ये हि शब्दार्थयोः शब्दो वा स्यादर्थो वा न द्वयम् / तथा शब्दार्थयोस्तादात्म्ये क्षुरिकामोदकादिशब्दोच्चारणे मुखपाटनपूरणादिप्रसङ्गः, न च दृश्यते / तदुत्पत्तिलक्षणोऽपि न घटते / यतः केयं तदुत्पत्तिर्नाम? किं शब्दादर्थोत्पत्तिरर्थाद्वा शब्दोत्पत्तिः ? यदि शब्दादर्थोत्पत्तिः स्यात्तदा विश्वमदरिद्रं स्यात हिरण्यादिशब्दोच्चारणादेव तदुत्पत्तेः / नाप्यर्थाच्छब्दोत्पत्तिः; ताल्वादिकारणकलापात्तदुत्पत्तिदर्शनात् ।"-न्यायप्र० 30 पं०१० 76 / "उक्तञ्च धर्मकीर्तिना-न ह्यर्थे शब्दा सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासेरन्।"-अनेकान्तजय० पृ० 119 / उद्धृतमिदम्-अष्टसह० पु०११८ / सिद्धिवि० टी० पृ० 75 B. / स्या० र० पृ० 621 / षड्द० बृहपृ०१६ / "न ह्यर्थे शब्दाः सन्ति तदात्मानो वा तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् ।"-न्यायवा० ता. पृ० 133 / (4) अर्थधर्मोऽसौ शब्दः / (5) तुलना-“गमकत्वाच्च धर्मत्वं धर्मत्वाद् गमको यदि। स्यादन्योन्याश्रयत्वं हि तस्मान्नैषापि कल्पना॥"-मी० श्लो० शब्दपरि० श्लो०७७। "प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रत्वम् / पक्षधर्मादिबलेन प्रतीतिः, प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभ इति ।"-न्यायमं० 10 154 / स्था० र० पृ०६२१ / (6) शब्दस्य / (7) चक्षुरादिजन्या। (8) तुलना-"अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते // व्यापारेण हि सर्वेषामन्बेतृत्वं प्रतीयते। यत्र धूमोऽस्ति तत्राग्निरस्तित्वेनान्वयः स्फुटः। न त्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः / न तावत्तत्र देशेऽसौ तत्काले वाऽवगम्यते ।"-मी० श्लो० शब्दपरि० श्लो० 85-86 / “अन्वयव्यतिरेकावपि तस्य दुरुपपादौ, देशे काले च शब्दार्थयोरनुगमाभावात् / नहि यत्र देशे शब्दः तत्रार्थः / यथोक्तं श्रोत्रियः-मुखे हि शब्दमुपलभामहे भूमावर्थमिति ।"-न्यायमं० 10 155 / स्या० 20 10 612 / 1 सिद्धविक-आ०। 2-त्वाद्धर्मोऽसौ आ० /