________________ प्रमाणप्र० का० 26 ] श्रुतस्य प्रमाणत्वसमर्थनम् पक्षधर्मत्वं संभवति ; धर्मिण एवात्र कस्यचिदसंभवात् / अत्र हि धर्मी शब्दः, अर्थो वा स्यात् ? न तावत् शब्दः; तस्यैव धर्मित्वे तस्यैव च हेतुत्वे हेतोः प्रतिज्ञार्थंकदेशत्वप्रसङ्गात् / अथ शब्दत्वं हेतुरिति न प्रतिज्ञार्थंकदेशत्वम् ; न ; शब्दत्वस्य सामान्यस्वभावस्य भवन्मते परमार्थसतोऽसंभवात् / कल्पितस्य तु सत्त्वेऽपि न गमकत्वम् "अर्थो ह्यर्थ गमयति'' [ ] इति च भवद्भिरेव अभ्युपगमात् / ____एतेन 'शब्दोऽर्थवान्' इत्याद्यनुमानं प्रत्याख्यातम् / अस्तु वा शब्दत्वं हेतुः; तेथापि अतः शब्दस्य धर्मिणः किम् अर्थविशिष्टत्वं साध्यते, अर्थप्रत्यायनशक्तियुक्तत्वम् , अर्थप्रतीतिविशिष्टत्वं वा ? तत्र आद्यपक्षोऽनुपपन्नः; अचानलयोरिव शब्दार्थयोः धर्मिधर्मभावाऽसंभवात् , आश्रितो हि धर्मो भवति, न चार्थः शब्दाश्रितो विभिन्नदेशत्वात् / यद् यतो विभिन्नदेशं न तत्तत्राश्रितं यथा सह्ये विन्ध्यः, शब्दाद् विभिन्न- 10 देशश्चार्थ इति / यत्र च आश्रयाश्रयिभावो नास्ति न तत्र धर्मधर्मिभावः यथा चित्रकूटकश्मीरयोः, आश्रयाश्रयिभावाभावश्च शब्दार्थयोरिति / न चार्थविशिष्टं शब्दं कश्चिदबालिशो मन्यते, शब्दात् पृथगेवार्थस्य आबालं सुप्रसिद्धत्वात् / अथ अर्थप्रत्यायनशक्तियुक्तत्वमस्य साध्यते; तदप्यसत्; तदर्थतया शब्दप्रयोगाऽ. संभवात् / न हि तच्छक्तिसिद्धये शब्दः प्रयुज्यते श्रूयते वा, किन्तु अर्थसिद्धये। 15 ____ अथ अर्थप्रतीतिविशिष्टत्वं साध्यते ; तदप्ययुक्तम् ; सिद्धाऽसिद्धविकल्पानुपपत्तेः। असिद्धया हि अर्थप्रतीत्या तद्वत्त्वं शब्दस्यायुक्तम् , अतिप्रसङ्गात् / सिद्धायां त्वस्यों * किमन्यदनुमीयताम् ? स्वसंविदितस्वभावायामस्यां विसंवादाभावात् इत्यस्यानुमानस्य वैफल्यम् / न च धूमाद्यनुमानेऽप्ययं दोषस्तुल्य इत्यभिधातव्यम् ; तत्र कार्यकारणभावायथानुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्ट: शब्दः साध्यो भवतु; मैवम्; शब्दस्य हेतुत्वात् / न च हेतुरेव पक्षो भवितुमर्हति ।"-न्यायमं पृ० 153 / स्या० र० पृ० 620 / (1) सौगतमते / (2) अन्यापोहरूपस्य / (3) तुलना-'अर्थो ह्यथं गमयतीति भवद्भिरेव स्वीकरणात्।"-स्या० 20 पृ० 620 / (4) सौगतैरेव। (5) तुलना-"शब्दस्य धर्मिणः किमर्थविशिष्टत्वं वा साध्यते, प्रत्यायनशक्तिविशिष्टत्वं वा, अर्थप्रतीतिविशिष्टत्वं वा?"-न्यायमं० पृ० 153 / स्था०र०पू०६२०। (6) तुलना-“शैलज्वलनयोरिव शब्दार्थयोः धर्मधमिभावाभावात् ।"-न्यायमं० पृ०१५३ / “पर्वतपावकयोरिव शब्दार्थयोः धर्मधर्मभावासम्भवात् ।"-स्या० 20 10621 / (7) शब्दार्थयोः धर्मधर्मभावो नास्ति आश्रयाश्रयिभावाभावात् / (8) अर्थप्रत्यायनशक्तिप्रतीत्यर्थम् / तुलना-"न शक्तिसिद्धये शब्दः कथ्यते श्रूयतेऽपि वा। अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति च।" -न्यायमं० पृ० 154 / स्या० र० पृ०६२१ / (9) तुलना-"सिद्धयसिद्धिविकल्पानुपपत्तेः / असिद्धयाऽपि तद्वत्त्वं शब्दस्यार्थधिया कथम् / सिद्धायां तत्प्रतीतौ वा किमन्यदनुमीयते ।"-न्यायमं० पृ० 154 / "नन्वर्थप्रतीतिः शब्दोत्थाऽन्योत्था वा भवेत् ।"-स्या० र० पृ० 621 / (१०)अर्थप्रतीतौ ।(११)तुलना"न हि तत्र अग्निधुमेन जन्यते अपि तु गम्यते। इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः ।"-न्यायमं० पू० 154 / 1 इति भव-श्र०,०। 2 अचलानिल-आ० / 3 शब्दार्थयोधर्मभा-ब०। 4नवार्थः ब०। 6बोष इय-आ० /