________________ 532 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. अागमपरि० अत्र प्रतिविधीयते / यत्तावदुक्तम्-'शब्दोऽनुमानान्न व्यतिरिच्यते' इत्यादि; . तत्प्रतिविधानपरस्सरं तदसमीचीनम् ; अभिन्नविषयत्वस्य अनयोरसिद्धेः / अर्थमा श्रुतज्ञानस्य अनमाना- शब्दस्य विषयः, अनुमानस्य तु साध्यधर्मविशिष्टो धर्मी इति / किञ्च, दिभ्योऽतिरेकेण प्रामा- अनयोर्विषयाभेदः सामान्यमात्रगोचरचारितया, तद्वन्मात्रविषयतया, ण्यसमर्थनम्- सम्बद्धार्थप्रतिपत्तिहेतुतया वा स्यात् ? प्रथमपक्षे किमिदं सामान्य नाम-सकलव्यक्त्यनुस्यूतं नित्यैकत्वादिधर्मोपेतम्, अन्यव्यावृत्तिरूपं वा ? पक्षद्वयमप्येतदनुपपन्नम्; उभयरूपस्यापि सामान्यस्य सामान्यपरीक्षावसरे प्रतिक्षिप्तत्वात् , अन्यापोहमात्रविषयत्वस्य अनयोः प्रतिषेत्स्यमानत्वाच्च। नित्यादिस्वभावसामान्यविषयत्वे चानयोः मीमांसकमतानुप्रवेशः सौगतस्य स्यात् , स चानुपपन्नः, तद्विषयत्वस्याप्यो 10 निराकरिष्यमाणत्वात्। अथ तद्वन्मात्रविषयतया तयोर्विषयाभेदोऽभिप्रेतः; नन्वेवं प्रत्यक्ष स्यापि अनुमानत्वप्रसङ्गः तथा तदभेदस्यात्राप्यविशेषात्, सकलप्रमाणानां सामान्यविशेषात्मकार्थविषयत्वप्रतिपादनात् / एतेन सम्बद्धार्थप्रतिपत्तिहेतुतयाप्यनुमानत्वं शब्दस्य प्रत्याख्यातम् ; प्रत्यक्षस्यापि सम्बद्धार्थप्रतिपत्तिहेतुतया अनुमानत्वानुषङ्गात् / तदपि हि स्वविषये सम्बद्धं सत् 15 तत्प्रतिपत्तिहेतुः नान्यथाऽतिप्रसङ्गात् / अथ तत्र सम्बद्धस्यास्य प्रतिपत्तिहेतुत्वाविशेषेऽपि सामग्रीभेदाद् अनुमानाद्भेदः; कथमेवं शब्दस्यापि अतो भेदो न स्यात् तदैविशेषात् ? तन्न अभिन्नविषयत्वात् शब्दस्यानुमानत्वं युक्तम् / नापि अभिन्नसामग्रीसमन्वितत्वात् ; शब्दे तदसंभवात् / पक्षधर्मत्वादिरूपत्रयरूपा हि अनुमाने सामग्री, सा च शब्दे न संभवति / तथाहि-न तावत् शब्दस्य (1) पृ०५३० पं०१३ / तुलना-"विषयोऽन्यादशस्तावद् दृश्यते लिङ्गशब्दयोः / सामान्य विषयत्वञ्च पदस्य स्थापयिष्यति / धर्मी धर्मविशिष्टश्च लिङ्गीत्येतच्च साधितम् / न तावदनमानं हि यावत्तद्विषयं न तत् ॥"-मी० श्लो० शब्दपरि० श्लो० 55-56 / “अर्थमात्रं हि शब्दस्य गोचरोऽनुमानस्य तु साध्यधर्मविशिष्टो धर्मीति / -स्या०र०प० 620 / “विषयस्तावद्विसदृश एव पदलिङ्गयोः / तद्वन्मानं पदस्यार्थ इति स्थापयिष्यते / अनुमानं तु वाक्यार्थविषयम् अत्राग्निरग्निमान् पर्वत इति प्रतिपत्तेः ।"-न्यायमं० 50 153 / (3) अनुमानशब्दयोः। तुलना-"अपि चानयोर्गोचराभेद: सामान्यमात्रविषयतया तद्वन्मात्रगोचरतया वा भवेत् ?"-स्या० र० पृ० 620 / (4) पृ० 285, पृ० 289 / (5) शब्दानुमानयोः / (6) मीमांसकमतानुप्रवेशः (7) नित्यादिस्वभावसामान्यविषयत्वस्यापि / (8) सामान्यवदर्थविषयतया / (9) सामान्यवदर्थविषयत्वेन विषयाभेदस्य। (10) स्वविषये / (11) प्रत्यक्षस्य / (१२)अनुमानात् / (13) सामग्रीभेदस्य समानत्वात् / (14) तुलना-"तस्मादननुमानत्वं शब्दे प्रत्यक्षवद् भवेत् / त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥"-मी० श्लो० शब्दपरि० श्लो० 98 / स्या० र० पू०६२० / (15) तुलना-“अथ शब्दोऽर्थवत्त्वेन पक्ष: कस्मान्न कल्प्यते / प्रतिज्ञार्थेकदेशो हि हेतुस्तत्र प्रसज्यते। पक्षे धूमविशेषे च सामान्यं हेतुरिष्यते। शब्दत्वं गमकन्नात्र गोशब्दत्वं निषेत्स्यते / व्यक्तिरेव विशेष्याऽतो हेतुश्चका प्रसज्यते ॥"-मी० श्लो० शब्दपरि० श्लो०६२-६४ / 'ननक्तं - 1 शब्दानुमा-ब०। 2-रूपस्यापि सामान्यपरी-ब।