________________ مې प्रमाणप्र० का० 26 ] श्रुतस्य प्रमाणत्वसमर्थनम् विषयत्वमसिद्धम् शब्दानुमानयोरविशेषतः सामान्यगोचरचारित्वात् / सम्बद्धार्थप्रतिपत्तिहेतुत्वाञ्च; न हि शब्दः असम्बद्धमर्थं प्रतिपादयति अतिप्रसङ्गात्, सम्बद्धश्च तं प्रतिपादयन्नसौ तैल्लिङ्गतां नातिवर्तेत / नापि तदभिन्नसामग्रीसमन्वितत्वमसिद्धम् ; धूमादिवत् शब्दस्य अर्थप्रतीतौ सम्बन्धस्मृत्यपेक्षत्वात् / अन्वयव्यतिरेकवत्त्वाच्च; यो हि शब्दो यत्रार्थे लोके दृश्यते स तस्य वाचकः यंत्र तु न दृश्यते न तस्य वाचकः। / पक्षधर्मत्वोपेतत्वाच्च; तथाहि-विवक्षितः शब्दः अर्थवान् शब्दत्वात् पूर्वोपलब्धशब्दवत्, यथा अयं धूमोऽग्निमान् धूमत्वात् पूर्वोपलब्धधूमवत् / यथा च प्रत्यक्षतो धूमं दृष्ट्वा वह्निः प्रतीयते तथा शब्दं श्रुत्वा तदर्थोऽपि | दृष्टान्तनिरपेक्षत्वञ्च अभ्यस्तविषये द्वयोरप्यनयोरविशिष्टम् / किञ्च शब्दो विवक्षायामेव प्रमाणं न बाह्ये व्यभिचारात् / न हि 'अङ्गुल्यमे 10 हस्तियूथशतमास्ते' इत्यादि शब्दानां बाह्येऽर्थे प्रामाण्यमुपपद्यते प्रतीतिविरोधात् / तस्याश्च एतस्य लिङ्गतैवेति ॥छ॥ भावो यस्य पुरुषस्य तस्य लिङ्गदर्शनप्रसिद्धयनुस्मरणाभ्यां लिङ्गदर्शनं यत्र धूमस्तत्राग्निरित्येवम्भूताया प्रसिद्धरनुस्मरणञ्च ताभ्यां यथाऽतीन्द्रियेऽर्थे भवत्यनुमानं तथा शब्दादिभ्योऽपीति / तावद्धि शब्दो नार्थं प्रतिपादयति यावदयमस्याव्यभिचारीत्येवं नावगम्यते, ज्ञाते त्वव्यभिचारे प्रतिपादयन् धूम इव लिङ्गं स्यात्..."-प्रश० कन्द० पृ० 214 / “अत्र हेतुमाह-समानविधित्वात् / समानप्रवृत्तिकारणत्वात् विजातीयलक्षणानाक्रान्तत्वादिति यावत् / अप्रतिबन्धकत्वे अप्रामाण्यमेव, साक्षात्प्रतिबन्धकत्वे प्रत्यक्षान्तर्भावः, परम्पराप्रतिबन्धकत्वे चानुमान एवान्तर्भावः ..."-प्रश० किर० पृ० 309 / / (1) तुलना-"परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि / सामान्यविषयत्वं च सम्बन्धापेक्षणाद् द्वयोः॥"-न्यायमं० पृ० 152 / (2) "यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम्, पदार्थत्वादिति चानकान्तिकम्, पदैः स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः, तथापि आकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात्।"-प्रश० किर० पृ० 309 / बैशे० उप० पृ० 331 / “पदानि स्मारितार्थविज्ञप्तिपूर्वकाणि योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् गामभ्याजेति परत्वात् गामभ्याजेति पदकदम्बवदित्यनुमानादेव साध्यसिद्धेः।"-न्यायली. पृ०५५ / (3) तुलना-"अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत् / यो यत्र दृश्यते सब्दः स तस्यार्थस्य वाचकः ॥"-न्यायमं० पृ० 152 / (4) लिङ्गशब्दयोः। (5) “वचोभ्यो निखिलेभ्योऽपि विवक्षषाऽनुमीयते / प्रत्यक्षानुपलम्भाभ्यां तहेतुः सा हि निश्चिता // 1515 // विवक्षायाञ्च गम्यायां विस्पष्टैव त्रिरूपता / पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः // 1521 // पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते / वृक्षशब्दप्रयोक्तृत्वात् पूर्वावस्थास्वहं यथा ॥१५२२॥"-तत्त्वसं० पृ० 441-43 / "प्रथमं गोशब्दादुच्चरिताद्वक्तुः ककुदादिमदर्थविवक्षा गम्यते स्वसन्ताने गोशब्दोच्चारणस्य तदर्थविवक्षा. पूर्वकत्वोपलम्भात्, तदर्थविवक्षया चार्थानुमानम् / अयञ्चात्र प्रयोग:-पुरुषो धर्मी ककुदादिमदर्थविवक्षावान् गोशब्दोच्चारणकर्तृत्वात् अहमिवेति ।"-प्रश० कन्द० पृ० 215 / (6) विवक्षायाम् / "विवक्षाकाशाधिगमे लिङ्गत्वात् / यथाहि आकाशाधिगमे सर्वः शब्दोऽनुमानम्, विवक्षाकार्यस्तु विवक्षाधिगमेऽपि इति ।"-प्रश० व्यो० पृ० 578 / 1-हेतत्वान्नहि ब० / 2 तत्र लिङ्गतां आ०, श्र.1 8-व्यतिरेकत्वाच्च आ०, ब० / 4 यत्र तन्न श्र०।