________________ प्रमाणप्र० का० 25-26] प्रमाणाभासविचारः 526. प्रत्यक्षबुद्धयः, बहुवचनम् अशेषाध्यक्षबुद्धिसङ्ग्रहार्थम् , सर्वथा स्वरूपवद् बहिरपि अविकल्पाः, पुनरिति वितर्के विकल्पेरन् बहिर्विकल्पात्मिका भवेयुः अनेकान्तप्रसङ्गादिति मन्यते / अथवा तबुद्धयः सर्वथाऽविकल्पाः सत्यः कथश्च न पुनः पश्चाद् विकल्पेरन् विकल्पान कुर्युः / न हि अविकल्पादनुभवाद् अर्थादिव विकल्पः संभवतीत्युक्तं सविकल्पसिद्धिप्रघट्टके / ततः स्थितमर्थमुपदर्शयन्नाह अक्षधीस्मृतिसंज्ञाभिः चिन्तयाभिनिबोधिकैः। व्यवहाराविसंवादः तदाभासस्ततोऽन्यथा // 25 // विवृतिः-प्रत्यक्षस्मृतिप्रत्यभिज्ञानोहानुमानादिभिः अविसंवादसिद्धेः अर्थेषु तत्प्रामाण्यम् , अन्यथा तदाभासव्यस्था / तथैव श्रुतज्ञान-तदाभासव्यवस्था / अक्षाणां चक्षुरादीनां कार्यभूता धीर्बुद्धिः अवग्रहाद्यात्मिका मतिः सा च 10 स्मृतिश्च संज्ञा च ताभिः, चिन्तया तर्केण, आभिनिबोकारिक धिकैः अनुमानैः व्यक्तयपेक्षं बहुवचनम् तैः समस्तैयस्तैश्च व्यवहाराविसंवादः, अतस्तेषां प्रामाण्यम्, अन्यथा एकान्तवादिपरिकल्पितप्रकारेण तदाभासः प्रमाणाभासः / नहि एकान्तवादिपरिकल्पितस्मृतिप्रत्यभिज्ञानतर्काऽप्रामाण्यप्रकारेण अविकल्पाक्षज्ञान-कार्यादिपरिगणितलिङ्गप्रभवानुमानप्रकारेण च प्रवृत्त्यादि- 15 व्यवहाराविसंवादो लोके प्रसिद्धः / _____ कारिकां विवृण्वन्नाह-'प्रत्यक्ष' इत्यादि / प्रत्यक्षस्मृतिप्रत्यभिज्ञानोहानुविवृतिव्याख्यानम् मानादिभिः अविसंवादसिद्धेः कारणाद् अर्थेषु घटादिषु तेषां प्रत्य के क्षादीनां प्रामाण्यम् , अन्यथा एकान्तवादिकल्पितप्रकारेण तदाभासव्यवस्था प्रामाण्याभासव्यवस्था / एतदेव शाब्दे श्रुतेऽतिदिशन्नाह-'तथैव' इत्यादि / 20 स्मरणादिना अन्यस्य श्रुतस्य उक्तत्वात् शाब्दं श्रुतं श्रुतज्ञानशब्देनेह गृह्यते, तथैव व्यवहारसंवाद-विसंवादप्रकारेणैव श्रुतज्ञानं तदाभासश्च तयोर्व्यवस्था। ननु श्रुतज्ञानं प्रमाणमेव न भवति तत्कथं तद्व्यवस्था इत्याशक्याह प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपान्तरादिषु / अनाश्वासं न कुर्वीरन् कचित्तव्यभिचारतः // 26 // .. 25 (1) यथाहि अभिलाप-अभिलप्यमानजातिगुणक्रियादिरहितात् क्षणिकार्थात् न शब्दसंसर्गी विकल्पो जायते तथैव निर्विकल्पानभवादपि शब्दशन्यात् न शब्दात्मको विकल्पः समुत्पद्येत / (२)पृ० 51 / (3) "प्रमाणमित्यनुवर्तते / तेनाभिसम्बन्धाद् अक्षध्यादीनां प्रथमान्तत्वम् अर्थवशाद्विभक्तिविपरिणामः' इति न्यायात् तत एवं व्याख्यायते-अक्षधीस्मृतिसंज्ञाभिः चिन्तयाऽऽभिनिबोधकैश्च व्यवहारे हानोपादानरूपे अविसंवादादव्यभिचारः सकलव्यवहारिणां प्रतीतिसिद्धः ततस्तानि प्रमाणानि भवन्तीत्यर्थः।" -लघी० ता०प०४५। (४)परोक्षस्य-आ० टि०। (५)परोक्षम्-आ० टि० / (6) "व्यवहाराविसंवाद 1 कथञ्च पुन: आ०। 2 विकल्पेनव विक-श्र०। 3-निबोधकः ब०। 4 अभिनिबोधिकः ब०, श्र०। 5 यथैव आ० / 6-संवादप्रकारे-श्र०।