________________ '528 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० विवृतिः सदृशापरापरोत्पत्तिविप्रलम्भात् तद्विशेषादर्शिनोऽनवधारणम् असमीक्षिताभिधानम् ; सर्वथा तत्सादृश्याऽनिष्टेः / प्रतिसंहारैकान्तः संभवति न वेति चिन्त्यमेतत् / कथञ्च प्रत्यक्षबुद्धयः सर्वाथाऽविकल्पाः पुनर्विकल्पेरन् ? प्रति प्राणि संविदिती उत्पत्तिव्ययौ यासां ताः तथोक्ताः ताः तथाविधाः . सत्योऽपि विद्यमाना अपि न केवलमसत्यः, प्रत्यक्षेषु, बहुवचनं कारिकार्थः .. चतुर्विधस्यापि प्रत्यक्षस्य सङ्ग्रहार्थम् / कल्पना न लक्ष्येरन् / न च सतः प्रतिसंविदिताविर्भावविनाशवतोऽनुपलक्षणं विरुद्धम् , इत्यस्यार्थस्य समर्थनार्थं तत्प्रसिद्धमेव निदर्शनं प्रदर्शयन्नाह-'तत्वलक्षणभेदवत्' इति / तासां कल्प नानां स्वलक्षणं स्वस्वरूपं तस्य भेदः संजातीयाद्विजातीयाञ्च व्यावृत्तिः स इव तद्वदिति / 10 ऐतदुक्तं भवति-यथा प्रतिसंविदितोत्पत्तिव्ययः सन्नपि कल्पनासु तद्भदो न लक्ष्यते, अन्यथा क्षणक्षयानुमानमनर्थकं स्यात्, तथा प्रत्यक्षेषु कल्पनाः सत्योऽपि न लक्ष्यन्त इति। तद्भेदानुपलक्षणे परकीयां युक्ति सदूषणां 'सदृश' इत्यादिना प्रदर्य कारिकार्थ 'प्रतिसंहारकान्त' इत्यादिना दर्शयति-सदृशस्य समानस्य अपरविवृतिव्याख्यानम्- - स्यापरस्य उत्पत्तिः तैया विप्रलम्भः अलातचक्रवत् चक्षुषो भ्रमः 15 तस्मात्तद्विशेषादर्शिनः तं प्रकृतं सजातीयव्यावृत्तिलक्षणविशेषम् अलातचक्रवन्न पश्यतीत्येवंशीलस्य सौगतस्य अनवधारणं यद् भेदानुपलक्षणम् ; तदसमीक्षिताभिधानम् ; कुत एतत् ? इत्यत्राह-'सर्वथा' इत्यादि / सर्वथा भेदाभेदोभयानुभयप्रकारेण तासां कल्पनानां सादृश्यस्य अनिष्टेः ततः तद्भेदोपलक्षणमेव स्यात् इत्यभिप्रायः। नचैतदस्ति, अतो यथा तद्भेदः सन्नपि नोपलक्ष्यते तथा प्रत्यक्षेषु सत्योऽपि कल्पना 20 इति / ततः प्रतिसंहारैकान्तः प्रत्यक्षेषु सकलकल्पनाविरहैकान्तः 'संभवति न वा' इति चिन्त्यमेतत् पर्यालोच्यमेतत् 'न संभवति' इत्यर्थः / तत्स्खलक्षणभेदवत् तासां तत्रानुपलक्षितानां संभवात् / ननु यद्यपि तासां तद्भेदो न लक्ष्यते तथापि अभिलापसंसर्गयोग्यप्रतिभासो विद्यमानो लक्ष्येत, न च उपलक्ष्यते / अतः अस्याऽनुपलक्षणात् अभावसिद्धेः सिद्धः प्रतिसंहारैकान्तः; इत्यत्राह-'कथञ्च' इत्यादि / कथञ्च न कथश्चिदपि (1) “स्वहेतोरेव तथोत्पत्तेः क्षणस्थितिधर्मतां तत्स्वभावं पश्यन्नपि मन्दबुद्धिः सत्तोपलम्भेन सर्वदा तथाभावस्य शङ्कया सदृशापरापरोत्पत्तिविप्रलब्धो वा न व्यवस्यति।"-प्रमाणवा० स्वव० 1134 / "तां पुनरनित्यतां पश्यन्नपि मन्दबुद्धिः नाध्यवस्यति सत्तोपलम्भेन सर्वदा तद्भावशङ्काविप्रलब्धः सदृशापरापरोत्पत्तिविप्रलब्धो वा।"-प्रमाणवातिकालं. लि. 10 237 / (2) इन्द्रियमन: स्वसंवेदनयोगिलक्षणस्य / (3) क्षणभङ्गित्वम्, स्वरूपभेदश्च / (4) उबाड(?)-आ० टि० / (5) भेदम् / (6) कल्पनानाम् / (7) कल्पनाया: लक्षणमिदम् ; तथाहि-"अभिलापसंसर्गयोग्यप्रतिभासप्रतीति: कल्पना"-न्यायबि० पृ० 14 / (8) अभिलापसंसर्गयोग्यप्रतिभासस्य / ___1 सजातीयाच्च व्या-आ० / 2 तदुक्तं ब० / तथा आ० / 4 तद् श्र०। / 'सर्वथेत्यादि' नास्ति श्र० / 6 सादृश्यानिष्टः ब०। 7 ततस्तदभेदोप-आ०। 8 'पर्यालोच्यमेतत्' नास्ति आ० / 9 ततः ब० / 10-सिद्धःप्रति-श्र० / 11 कथञ्चेदित्यादि ब० /