________________ प्रमाणप्र० का० 24 ] प्रमाणाभासविचारः 527. स्वभाव रूपं पश्यति' इत्यादि युक्तम् , ययोविभिन्नप्रतिभासत्वं तयोविभिन्नविषयत्वं यथा रूपरसज्ञानयोः, विभिन्नप्रतिभासत्वञ्च प्रत्यक्षतरज्ञानयोरिति / तथा च, विशदस्वभावस्य अध्यक्षस्य स्खलक्षणविषयत्वं सिद्धम् , अविशदस्वभावस्य तु विकल्पस्य स्थूलादिविषयत्वम् इत्याशक्याह-'नच' इत्यादि / नच नैवे विशदेतरविकल्पयोः अवग्रहादिस्मरणाद्योः विषयभेदैकान्तः, 'परमार्थवस्तुनि विशदविकल्पः प्रवर्त्तते, कल्पिते अवि- 5 शदविकल्प:' इति, किन्तु विशदविकल्पविषय एव अविशद विकल्पस्य विषयः / यच्च 'विभिन्नप्रतिभासत्वात्' इत्युक्तम् ; तदप्यनैकान्तिकमित्युपदर्शयन्नाह-'प्रत्यासन्न' इत्यादि। प्रत्यासन्नश्च इतरश्च अप्रत्यासन्नः अर्थो येषां तानि च तानि प्रत्यक्षाणि तेषां विशदेतररूपप्रतिभासभेदसंभवेऽपि एकार्थविषयतोपपत्तेः / नहि दूरासन्नपुरुषाणां पादपादिप्रत्यक्षेषु प्रतिभासभेदोऽसिद्धः। नापि विषयाभेदैः; पादपादेरेकस्यैव तद्विषयत्वात् / 10 यदप्युच्यते-'प्रत्यक्षे न सन्ति कल्पना उपलब्धिलक्षणप्राप्तानामनुपलब्धः, यद्यत्र उपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र नास्ति यथा क्वचित् प्रदेशविशेषे घटः, नोपलभ्यन्ते च प्रत्यक्ष तथाविधाः सत्यः कल्पना इति / न च उपलब्धिलक्षणप्राप्तत्वं तासामसिद्धम् ; 'नैहि इमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते च यतः सत्योऽप्यनुपलक्षिताः स्युः' इति; तद्रूषयन्नाह 15 प्रतिसंविदितोत्पत्तिव्ययाः सत्योऽपि कल्पनाः। ' प्रत्यक्षेषु न लक्ष्येरन् तत्वलक्षणभेदवत् // 24 // (1) प्रत्यक्षतरज्ञाने विभिन्न विषये विभिन्नप्रतिभासत्वात् / (2) [अ] सिद्धः इत्यत्रापि योज्यम्आ० टि०। (3) "यदाह-न चेमाः कल्पना अप्रतिसंविदिता एवोदयन्ते व्ययन्ते चेति / नापि तत्प्रतिपत्तो लिङ्गानुसरणेन तदाकारसमारोपसंशयः शक्यते कल्पयितुम्..."-प्रमाणवा० स्वव० टी० 150 / (4) "न लक्ष्यरन् विविच्येरन् / काः? कल्पना विकल्पाः / केषु ? प्रत्यक्षेषु स्वसंवेदनादिषु / कि विशिष्टा अपि ? सत्योऽपि विद्यमाना अपि / पुनः कथम्भूताः ? प्रतिसंविदितोत्पत्तिव्ययाः, उत्पत्तिः स्वरूपलाभ: व्ययोऽभावप्रत्ययः, प्रतिसंविदितौ प्रतिप्राणि समुपलब्धौ उत्पत्तिव्ययौ यासां तास्तथोक्ताः / न खल सत्त्वं विना उत्पादव्ययवत्वमनुभूयते, अन्यथाऽतिप्रसङ्गात् / ननु सतां विकल्पानां प्रत्यक्षबद्धाव. नपलक्षणे किं कारणमिति चेत् ; प्रतिपत्तुरशक्तिरप्रणिधानञ्चेति ब्रूमः / अत्र निदर्शनमाह-तदित्यादि। तेषां विकल्पानां स्वलक्षणं स्वरूपं तस्य भेदः सजातीयविजातीयव्यावृत्तिः स इव तद्वत् / अयमर्थ:-यथा प्रतीतोत्पादव्यया सत्यपि स्वलक्षणव्यावृत्तिः कल्पनासु न लक्ष्यते अनुमानत एव तत्सिद्धेः तथा प्रत्यक्षेषु कल्पना अपि न लक्ष्यन्त इति / तहि कथमलक्षितानां तासां तत्रास्तित्वसिद्धिरिति चेत् ? न; पुनस्तद्विषयस्मरणान्यथानुपपत्त्या तत्सिद्धेः / संहृतसकलविकल्पावस्था हि अश्वं विकल्पयतो गोदर्शनावस्था, तत्रापि गोदर्शनं निश्चयात्मकमेव पुनस्तद्विषयस्मरणान्यथानुपपत्तेः ।"-लघी० ता० पृ० 44 / तुलना"न हि संवित्तेः बहबहुविधप्रभृत्याकृतयः स्वयमसंविदिता एवोदयन्ते अत्ययन्ते वा यत: सत्योऽप्यनुपलक्षिताः स्युः कल्पनावत् ।"-सिद्धिवि०, टी० पृ० 98 A. / 1 नवं ब० / 2-विकल्पकस्य आ० / 3 'प्रत्यासन्नेत्यादि' नास्ति आ०, श्र०। 4 प्रत्यक्षेण सन्ति श्र०, ब० / / सतोऽप्यनु-आ० /