________________ 524 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० ___ इदमपरं व्याख्यानम्-वसंवेद्यं स्वसंवेदनग्राह्यं यद्रूपम् / केषाम् ? विकल्पानाम् अनुमानादिमानसज्ञानानाम्। तत्किम् ? विशदार्थावभासनम् निर्वि: कल्पकमभ्रान्तम् इत्यर्थः / कदा ? संहृताशेषचिन्तायाम् / केन रूपेण ? 'स्वसंवेद्येन' इति विभक्तिपरिणामेन सम्बन्धः / किं कृत्वा ? सविकल्पावभास5 नात् तदवभासनमाश्रित्य इत्यर्थः / ततस्ते विकल्पाः कथञ्चित् प्रत्यक्षामा इति भावः / ___ कारिकां विवृण्वन्नाह-'सर्वतः' इत्यादि / सर्वतः सजातीयाद् विजातीयाच्च ___ संहृत्य त्यक्त्वा / काम् ? चिन्ताम् परामर्शबुद्धिम् / स्थितोऽपि विवृतिव्याख्यानम् - प्रतिपत्ता। केन रूपेण ? इत्याह-'स्तिमितेन' इत्यादि / स्तिमितः स्थिरीभूतः अपरिस्पन्दः अन्तरात्मा मनः तेन / स किं करोतीत्याह-' चक्षुषा' 10 इत्यादि / चक्षुर्ग्रहणमुपलक्षणं श्रोत्रादेः, तेन रूपं पश्यति, रूपग्रहणमपि रसादीनामुपल क्षणम् / कथम्भूतम् ? संस्थानात्मकं वर्तुलत्वादिधर्मस्वभावम् / पुनरपि कथम्भूतम् ? स्थूलात्मकं स्थूलस्वभावमेकम् / पुनरपि किंविशिष्टम् ? सूक्ष्मानेकस्वभावम्, सूक्ष्मोऽनेकः स्वभावो यस्य तत्तथोक्तम् / ननु संस्थानादिकं गुणत्वाद् द्रव्यस्य न रूपस्य, अस्य गुणत्वेन निर्गुणत्वात् ; इत्यप्यसमीक्षिताभिधानम् ; अनेकान्ते द्रव्यगुणयोरभेदार्पणया 15 रूपस्यापि द्रव्यधर्माऽविरोधात् / ननु चक्षुषा रूपं दृश्यमानम् अन्योन्यविलक्षणानेका नंशपरमाणुस्वभावस्वलक्षणरूपमेव दृश्यते नतु स्थूलादिस्वरूपम् , इत्यत्राह-'न पुनः' इत्यादि / पुनरिति भावनायाम् , न स्खलक्षणं पश्यति, कथम्भूतम् ? असाधारणम् , असाधारणः सजातीयविजातीयव्यावृत्तः एकोऽसहायः अन्तो धर्मो यस्य तत्तथोक्तम् / कुत एतत् ? इत्याह-'प्रतिसंहार' इत्यादि / संहारः अशेषविकल्पाभावः, प्रतिसंहारः 20 पुनर्विकल्पप्रवृत्तिः, तमाश्रित्य व्युत्थितं प्रतिबुद्ध चित्तं यस्य स तथोक्तः तस्य, तथैव असाधारणैकान्तप्रकारेण असरणात् स्मरणाभावात् खलक्षणस्य, अतो न तस्य कदाचिद् दर्शनम् स्थूलादिस्वभावस्यैव तु स्मरणात् सदा दर्शनमिति / 'तस्मात्' इत्यादिना उपसंहारमाह-यस्मानिर्विकल्पकं ज्ञानं परस्य प्रत्यक्षत्वेनाऽभिप्रेतं न कदाचिद् विशदस्वरूपतया प्रतिभाति तस्माद् अविशदमेव अविकल्पकं प्रत्यक्षाभम् / ननु विशदेतरज्ञानानां विभिन्नप्रतिभासतया विभिन्नविषयत्वान्न स्थूलादिप्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः // यत्तत्प्रत्यक्षमिति प्रसिद्धं तत्कल्पनाया अपोढं द्रष्टव्यं कल्पनार्थरहितमित्यर्थः / तच्चतदीदृशं प्रत्यक्षेणैव स्वसंवेदनेनैव सिद्धचति / कल्पनारहितस्यार्थस्य रूपस्य संवेदनस्यापरोक्षत्वात् / यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत विकल्पस्यापरोक्षत्वात् / तथाहि -प्रत्यात्मवेद्यः सर्वेषां प्राणिनां विकल्पो नामसंश्रयः शब्दसंसर्गवान् / स यदि स्यादुपलभ्य एव भवेत् / " -प्रमाणवा० मनोरथ० 20123 / उद्धृतोऽयम्-अनेकान्तजय० पृ० 207 / न्यायवा० ता० पृ० 154 / सिद्धिवि० टी० 10 17 A., 31 A. / प्रमेयक० पृ० 32 / सन्मति० टी पु० 503 / न्यायवि०वि०प०४५ A., 83 B.,495 A. / स्या० 201082 / शास्त्रवा० यशो०५० 157 B. ___ 1 तेन किं श्र०। 2-स्वभावलक्षणरूपमेव श्र०। 3 'असाधारणम्' नास्ति आ०, ब० / 4-व्यावृत्त य एको-ब० / -वस्यवानुस्म-ब०। 6-मिति यस्मा-ब०। 7 अविकल्पं प्र-श्र० /