________________ प्रमाणप्र का 0 23 ] प्रमाणाभासविचारः साम्प्रतं कल्पनापदेन यत् परेण विकल्पज्ञानं तदाभासमुक्तं तदपि प्रत्यक्षं साधयन्नाह स्वसंवेद्यं विकल्पानां विशदार्थावभासनम् / संहृताशेषचिन्तायां सविकल्पावभासनात् // 23 // विवृतिः-सर्वतः संहत्य चिन्तां स्तिमितान्तरात्मना स्थितोऽपि चक्षुषा रूपं संस्थानात्मकं स्थूलात्मकमेकं सूक्ष्मानेकखभावं पश्यति न पुनः असाधारणैकान्तं / खलक्षणम् , प्रतिसंहारव्युत्थितचित्तस्य तथैवास्मरणात् / तस्मादविशदमेव अविकल्पकं प्रत्यक्षाभम् / न च विशदेतरविकल्पयोः विषयभेदैकान्तः प्रत्यासन्नेतरार्थप्रत्यक्षाणाम् एकार्थविषयतोपपत्तेः। स्वसंवेद्यं स्वसंवेदनाध्यक्षग्राह्यम्। केषाम् ? इत्याह-विकल्पानाम्। किं तद् ? कारिकार्थः- इत्याह-विशदार्थावभासनम् / कुत् एतत् ? इत्याह-'संहृत' 10 इत्यादि / संहृता अशेषाश्चिन्ता यस्यामवस्थायां तस्यामपि सविकल्पकस्यैव ज्ञानस्य अवभासनात् / ततो यदुक्तं परेण-“ नै विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासती।" [प्रमाणवा० 2 / 283] इत्यादि, “प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिद्धयति / " [प्रमाणवा० 2 / 123] इत्यादि च; तन्निरस्तम् ; प्रत्यक्षबाधितत्वात् / - (१)द्रष्टव्यम्-पृ० ५२१४ि०४।(२)"भवति। किम् ? स्वसंवेद्यम् स्वेन तत्त्वज्ञानात्मना संवेद्यं 'ग्राह्यम् स्वसंवेद्यं ज्ञानस्वरूपमित्यर्थः। वेद्यवेदकाकारद्वयाविरोधात् ज्ञानस्य अन्यथा अवस्तुत्वापत्तेः। कि विशिष्टम् ?विशदार्थावभासनम् अर्थस्य परमार्थसतोऽवभासनमवबोधनमर्थावभासनम् विशदं स्पष्टं तच्च तदर्थावभासनं च तत्तथोक्तम् / केषाम् ? विकल्पानाम्, घटोऽयं गौरयं शुक्लोऽयं गायकोऽयमित्यादिनिश्चयज्ञानानाम् / कुतः ? सविकल्पावभासनात्, विकल्पो जात्याद्याकारावबोधः सह विकल्पेनेति सविकल्पकं तस्यावभासनादनु भवात् / कदा? संहृताशेषचिन्तायाम् , संहृता नष्टा अशेषाः स्मृत्यादयश्चिन्ता विकल्पा यस्यामवस्थायां सा तथोक्ता तस्याम्। चक्षुरादिबुद्धौ जात्याद्याकारविशेषस्य अवबोधनस्य अप्रतिहतत्वात्, ततो विकल्पज्ञानस्य प्रत्यक्षाभासत्वमयुक्तमित्यर्थः ।"-लघी० ता०पू० 43 / (3) धर्मकीर्तिनोक्तं यत्-शान्तचेतस्कतया चक्षुषा यद्रूपदर्शनं भवति तनिर्विकल्पकम् / तस्मिश्च रूपस्वलक्षणं क्षणिक-परमाण्वात्मकं प्रतिभासते / तथाहि-"संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना / स्थितोऽपि चक्षुषा रूपमीक्षते साऽक्षजा मतिः ॥"-(प्रमाणवा० 2 / 124) ग्रन्थकृता तत्प्रतिविहितम्यत्तदवस्थायामपि सविकल्पकमेव ज्ञानं स्थिरस्थूलाद्यर्थग्राह्यनुभूयते / तुलना-“संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना। स्थितोऽपि चक्षुषा रूपं स्वञ्च स्पष्ट व्यवस्यति ।"-तत्त्वार्थश्लो० पृ० 186 / (4) तुलना-"न हि जातुचिदसहायमाकारं पश्यामो यथा व्यावर्ण्यते तथैवानिर्णयात्, नानावयवरूपाद्यात्मनो घटादेः बहिः सम्प्रतिपत्तेः न परमाणुसंचयरूपस्य ।"-सिद्धिवि०, टी० पृ० 36 B. I (5) "न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता। न विकल्पेनानुबद्धस्य संस्तुतस्य ज्ञानस्य स्फटाविभासिताऽस्ति ।"-प्रमाणवा० मनोरथ० 2 / 283 / उद्धृतोऽयम्-तत्त्वोप० पृ० 34 / सिद्धिवि० टी० पृ० 28 B., 95 A. / तत्त्वार्थश्लो० पृ० 120 / सन्मति० टी० पृ० 502 / न्यायवि० वि० 1077 A. / 'न विकल्पानुबन्धस्य'-शास्त्रवा० यशो० पृ०१५७ B. I'निर्विकल्पानुबद्धस्य स्पष्टार्थः प्रतिभासते'-न्यायबि० टी० टि० पृ० 35 / (6) "प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्धयति / 1 प्रतिसंहारं व्यु-ई०वि०। 2 अविकल्पान-श्र०। 3 'च'नास्ति ब०।