________________ 524 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० पगम्याप्युच्यते-यथोक्तं ज्ञानं यदपि वस्त्वनुकरोति यदाकारं भवति तत्र वस्तुनि प्रमाणमेव, 'नहि' इत्यभिसम्बन्धः, किन्तु अप्रमाणमपि इत्येवकारार्थः / कुत एतद् ? ईत्याह-'समारोप' इत्यादि / क्षणिकेऽक्षणिकज्ञानं समारोपः तस्य व्यवच्छेदो निरासः तस्य आकाङ्क्षणात् / तदनभ्युपगमे दूषणमाह-'कथम्' इत्यादि / कथमन्यथा तदाकाङ्क्षणाभावप्रकारेण दृष्टे दर्शनविषयीकृते क्षणभङ्गादौ प्रमाणान्तरस्य अनुमानस्य वृत्तिः ? न कथमपि इत्यर्थः / नहि समारोपव्यच्छेदात् अन्यत्तस्यै फलम् / अथ न समारोपनिषेधार्था तत्रास्य प्रवृत्तिः / किं तर्हि ? ग्रहणार्था, इत्यत्राह-'कृत' इत्यादि / कृतस्य अनुभवेन अनुभूतस्य क्षणभङ्गादेः अनुमानेन करणस्य ग्रहणस्य अयोगात् , . अन्यथा अनवस्था स्यात् , तद्गृहीतेप्यस्मिन् अनुमानान्तरेण ग्रहणप्रसङ्गात् / अथ अर्थदर्शनेन नीलादिकमेव गृहीतं न क्षणभङ्गादिकं तेनायमदोषः, अत्राह'तद्' इत्यादि / तदेकान्तः कृतैकान्तः “एकस्यार्थस्वभावस्ये" [प्रमाणवा० 3 / 42 ] इत्यादिवचनात् / यत्कृतं तत्कृतमेव तस्य हानेः हानिप्रसङ्गात् कथं प्रमाणान्तरवृत्तिः ? तद्धानिः कुतः ? इत्यत्राह-'कथञ्चिद्' इत्यादि / कथञ्चित् नीलादिरूपेण ने क्षण भङ्गादिरूपेण यत् करणं वस्तुनो ग्रहणं तस्याऽनिष्टेः, अन्यथा गृहीतेतररूपता एकस्य 15 स्यात् / उपसंहारव्याजेन दूषणान्तरमाह-'तद्' इत्यादि / यत्त एवं तत् तस्मात् अस्य अर्थाकारदर्शनस्य विसंवादोऽपि विप्रलम्भोपि न केवलं कथञ्चित् प्रामाण्यमेव / कुत एतत् ? इत्यत्राह-अवस्तुनिर्भासात् / अवस्तुनो भवन्मते बहिरन्तर्वाऽसत एव स्थूलाकारस्य निर्भासाद् अनुकरणाद् दर्शनं प्रमाणं न स्यादिति भावः / व्यवहारेण प्रामाण्येऽपि न सौगतस्य इष्टतत्त्वसिद्धिः। अथ निरन्वयविनश्वरादिवस्तुस्वरूपानन्20 करणेऽपि नीलादिसच्चेतनादिवस्तुस्वरूपानुकरणात् तत्प्रामाण्यम् , इत्याह-'चन्द्रादि' इत्यादि / चन्द्रादि च तद् वस्तु च तस्य निर्भासानाम् उपप्लवज्ञानसम्बन्धिप्रतिभासानां प्रामाण्यं स्यात् 'प्रमाणम्' इत्येतदनुवर्तमानं लब्धभावप्रत्ययमिह सम्बद्ध्यते / कुत एतद् ? इत्यत्राह-अविसंवादकत्वात् / न खलु चन्द्रादिविप्लवज्ञानं धावल्यवर्तु लत्वादौ विसंवदति इति / एवं तावत् यत् परेण प्रत्यक्षाभं तैमिरिकादीन्द्रियज्ञानमुक्तं ॐ तदपि कथञ्चित् प्रत्यक्षमिति व्यवस्थापितम् / (१)क्षणिकादेरग्रहणादप्रमाणं निर्विकल्पकम् , यदि हि क्षणभंगादि निर्विकल्पकप्रत्यक्षेणैव गृहीतं स्यात्तदा तत्साधनार्थमनुमानं किमर्थं प्रयुज्यत इति हृदयम्-आ० टि०। (2) अनुमानस्य / (3) निर्विकल्पकप्रत्यक्षेण। (4) यद्धि वस्तु तत्सर्वात्मना कृतं गृहीतं निर्विकल्पेन इत्येकान्तः कृतकान्तः / (5) "एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् / कोऽन्यो भागो न दृष्ट: स्यात् यः प्रमाणैः परीक्ष्यते॥" -प्रमाणवा० / उद्धृतश्चायम्-न्यायमं० पृ० 93 / अभि० आलोक० पृ० 152 / सिद्धिवि० टी०ए० 71 A. / तत्त्वार्थश्लो०१० 405 / प्रमेयक० पृ०२३६। सन्मति० टी०पृ० 507 / न्यायवि०वि०प० 496 B. / स्या० 2010 534 / शास्त्रवा० यशो० पृ० 158 B. (6) अग्रहणेऽपि-आ० टि / 1 तथोक्तं श्र०। 2 इत्यत्राह श्र०, ब० / 3 करणस्यायोगात् ब०। 4 क्षणकान्तः ब०। न च क्षण-श्र०। 6 'विप्रलम्भोऽपि' नास्ति ब०। 7 मिरादीन्द्रि-श्र०, ब०। .