________________ प्रमाणपं० का प्रमाणाभासविचारः प्रत्यक्षाभम् इत्युपलक्षणम् , तेन परोक्षाभमपि यदेकान्तेन वादिनां लोकानां कारिकार्थः __ वा प्रसिद्धं तत्कथञ्चित् स्याद् भवेत् प्रमाणम् नैकान्तेन तदा ___भासम् इत्यभिप्रायः / किं तद् ? इत्यत्राह-तमिरादिकमिति / तिमिरादागतं तैमिरम् आदिर्यस्य आँशुभ्रमणादिज्ञानस्य तत्तथोक्तम् / कुत एतद् ? इत्याह'यद्यथा' इत्यादि / यतो यद्विज्ञानं येनैव प्रकारेण अविसंवादि तैद् विज्ञानं तेनैव 5 प्रकारेण प्रमाणमभिप्रेतम् / तथा च "कल्पनापोढमभ्रान्तम' न्यायबि० 1 // 4] इत्यत्र, "इन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारि" [न्यायसू० 114] इत्यत्र, " संत्सम्प्रयोगे " [ जैमिनिसू० 1 / 14] इत्यादौ च यदभ्रान्तादिग्रहणं भ्रान्तनिवृत्त्यर्थं तद्यदि सर्वथा अप्रत्यक्षत्वात् तेनापसार्यते तदा प्रमाणविरोधः। अथ कथञ्चित् ; तदा एकान्तहानिरित्युक्तं भवति। कारिकां व्याचष्टे 'तिमिर' इत्यादिना / तिमिरादीनां कार्यभूतं यद् उपप्ल- 10 .. वज्ञानं द्विचन्द्रादिविषयं तत् चन्द्रादौ आदिशब्देन धावल्यवर्तुलत्वाविवृतिव्याख्यानम् - दिपरिग्रहः तत्र प्रमाणम् / कुत एतत् ? अविसंवादकं यतः तत्रांशे / अत्र दृष्टान्तमाह-यथा इत्यादि / यथा तत् तिमिराद्युपप्लवज्ञानं संख्यादौ द्वित्वस्थिरत्वादौ विसंवादकत्वादप्रमाणम् / यदि नाम तत्तथाविधं किमेतावता प्रमाणेतररूपं भविष्यति इत्याशक्य आह-'प्रमाण' इत्यादि। प्रमाणञ्च इतरच अप्रमाणं तयोः 15 व्यवस्थायाः तल्लक्षणत्वात् संवादविसंवादलक्षणत्वात् / ननु कथं तदेव प्रमाणमितरच्च युक्तं विरोधादिति चेत् ? अत्राह-'नहि' इत्यादि / हिर्यस्मात् न ज्ञानं भवत्कल्पितं निर्विकल्पकवेदनं यदपि इत्यपिशब्दोऽभ्युपगमे, परमार्थतः अर्थाकारताया ज्ञानेऽसंभवात् , तदसंभवश्च प्रपञ्चतः प्रागेवं तत्प्रतिषेधात् सिद्धः। अभ्यु (1) “तिमिरमक्ष्णोविप्लवः, इन्द्रियगतमिदं विभ्रमकारणम् / आशुभ्रमणमलातादेः, मन्दं हि भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते, तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम्, एतच्च विषयगतं विभ्रमकारणम्। संक्षोभो वातपित्तश्लेष्मणाम्, वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते, एतच्चाध्यात्मगतं विभ्रमकारणम् / सर्वैरेव च विभ्रमकारणः इन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्तव्यम् / अविकृत इन्द्रिय इन्द्रियभ्रान्त्ययोगात् / आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते / आशुनयनानयनादयो विषयस्थाः / आशुनयनानयने हि कार्यमाणेऽलातादावग्निवर्णदण्डाभासा भ्रान्तिर्भवति / हस्तियानादयो बाह्याश्रयस्थाः गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते ।"-न्यायवि० टी० पृ 16-17 / (2) 'प्रत्यक्षम्' इति शेषः / (3) "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।"-न्यायसू० 1114 / (4) "सत्सम्प्रयोगे पुरुषस्यन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।"-जैमिनिसू० 1 / 04 / (5) आदिपदेन अव्यभिचारिसत्सम्प्रयोगजयोः परिग्रहः / (6) भ्रान्तम्-आ० टि० / (7) अभ्रान्तादिग्रहणेन / (6) अप्रत्यक्षत्वात्तेनापसार्यते इति सम्बन्धः / (9) संवादविसंवादलक्षणत्वात्-आ० टि०। (10) पु० 167 / 1 यदेकान्तवादिनां श्र०। 2 यदि ज्ञानं आ० / 3-तज्ञानं आ० / 4 एकांशतः हानिः श्र० / न तम्जाज्ञानं ब०। 6-कसंवेदनम् श्र०। 7 सिद्धः अतोऽभ्युप-ब०, श्र०।