________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० विवृतिः-तिमिरांडुपलवज्ञानं चन्द्रादावविसंवादकं प्रमाणं यथा तत्सङ्ख्यादौ विसंवादकत्वादप्रमाणम् , प्रमाणेतरव्यवस्थायाः तल्लक्षणत्वात् / नहि ज्ञानं यदप्य. नुकरोति तत्र प्रमाणमेव समारोपव्यवच्छेदाकारणात् / कथमन्यथा दृष्टे प्रमाणान्तरवृत्तिः ? कृतस्य करणायोगात् , तदेकान्तहानेः कथञ्चित्करणानिष्टेः / तदस्य विसंवादोऽपि अवस्तुनिर्भासात्, चन्द्रादिवस्तुनिर्भासानामविसंवादकत्वात् / प्रकारेण प्रमाणं मतमिष्टं परीक्षकैरिति / तथाहि-सर्व संशयादिकं प्रमाणाभासं स्वरूपापेक्षया द्रव्यापेक्षया वा प्रमाणं भवति तत्राविसंवादित्वात्, यद्यत्राविसंवादि तत्तत्र प्रमाणं यथा रसे रसज्ञानम्, अविसंवादि च संशयादिकं स्वरूपे द्रव्यरूपादौ वा, ततस्तत्र कथञ्चित्प्रमाणमिति / विसंवाद एव खल्वप्रामाण्यनिबन्धनम् अविसंवादश्च प्रामाण्यनिबन्धनमिति न्यायस्य सकलवादिसम्मतत्वात् सर्वथा .प्रमाणाभासस्य न्यायशून्यत्वात् / 'बहिः प्रमेयापेक्षायां प्रमाणं तन्निभञ्च ते' (आप्तमी० श्लो. 83) इति वचनात् / न हि ज्ञानं स्वरूपे विसंवादि तस्याहम्प्रत्ययसिद्धत्वात् / प्रसिद्ध च विषये प्रवर्तमानं कथमप्रमाणं स्यादिति ।"-लघी० ता० 10 42 / अस्यां कारिकायां यदिग्नानादिना तमिरादिकं प्रत्यक्षाभासमुक्तम्, तस्य कथञ्चिदेव प्रत्यक्षाभासतां दर्शयति / दिग्नागादेः प्रत्यक्षाभस्वरूपप्रदर्शका ग्रन्थास्त्वित्थम्-"भ्रान्तिस्संवृतिसज्ज्ञानमनुमानानुमानिकम् / स्मरणञ्चाभिलापश्चेत्यक्षाभासं सतैमिरम् / / अथ मरीचिकादिषु जलादिकल्पनात् भ्रमज्ञानं प्रत्यक्षाभासम् / संवृतिसत्यं हि स्वस्मिन् अर्थान्तरमारोप्य तत्स्वरूपकल्पनात् प्रत्यक्षाभासम् / अनुमानं तत्फलञ्च पूर्वानुभवकल्पनान्न प्रत्यक्षम्।"-प्रमाणममु०, वृ० 1 / “त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् / अविकल्पकमेकञ्च प्रत्यक्षाभं चतुर्विधम् // त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम्-मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानम् / संवृतौ विसंवादिव्यवसायसांवृतज्ञानम्, पूर्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमेयादिज्ञानम् / अविकल्पकञ्चै प्रत्यक्षाभासम. कीदशम? आश्रयस्य इन्द्रियस्य उपप्लवस्तिमिराद्यपघातः तस्माद्भवो यस्य तत्तथा। एवञ्च चतुर्विधं प्रत्यक्षाभासम् / नन्वविकल्पकं प्रत्यक्षम् , ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः / तत्किम् ? भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि / संवृतिभतो द्रव्यादेर्शानम् / अनुमानं लिङ्गज्ञानम्, आनुमानिकं लिङ्गिज्ञानम् / स्मार्तम् स्मृतिः / आभिलापिकञ्चेति विकल्पप्रभेद आचार्यदिग्नागेनोक्तः ।"-प्रमाणवा० मनोरथ० 2 / 288 / तुलना-"पीतशंखादिषु विज्ञानं तु न प्रमाणमेव तथार्थक्रियाव्याप्तेरभावात्, संस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञानं प्रमाणममुमानम्, ततोऽनुमानं संस्थाने संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणञ्च ।"-प्रमाणवातिकालं. प्रथमपरि०। (5) तुलना-"यथा यत्र विशदं तथा तत्र प्रत्यक्षम् / यथा यत्राविसंवादः तथा तत्रं प्रमाणता / (पृ० 65 B.) तथा च सर्व स्वभावे परभावे वा कथञ्चिदेव प्रमाणं न सर्वथा।"सिद्धिवि०, टी० ए० 86 A. | "यथा यत्राविसंवादस्तथा तत्र प्रमाणता।"-तरवार्थश्लो०प०१७०। सिद्धिवि० टी०१० 69 B. / "यथा यत्राविसंवादस्तथा तत्र प्रमाणतेत्यकलङ्कदेवैरप्युक्तत्वात् / " -अष्टसह०प० 163 / "यद्यथैवासंवादि प्रमाणं तत्तथा मतम् / विसंवाद्यप्रमाणञ्च तदध्यक्षपरोक्षयोः॥"-सन्मति० टी०पू० 595 / (1) तुलना-"येनाकारेण तत्त्वपरिच्छेदः तदपेक्षया प्रामाण्यमिति / तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्यतरस्थितिरुन्नेतव्या / प्रसिद्धानुपहतदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्याद्यभूताकारावभासनात् / तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् / तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् ।"-अष्टश०, अष्टसह० पृ० 277 / “अनुपप्लुतदष्टीनां चन्द्रादिपरिवेदनम् / तत्संख्यादिष संवादि न प्रत्यासन्नतादिषु ॥"-तत्त्वार्थश्लो० 10 170 / उद्धृतेयं समग्रा विवृति:-सन्मति० टी० पू० 595 /