SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्र० का० 22 ] प्रमाणाभासविचारः सङ्कलनस्वभावश्च, अतः कथं प्रत्यभिज्ञानात् व्यतिरिच्येत ? यद् दर्शनस्मरणकारणकं सादृश्यादिसङ्कलनस्वभावञ्च तत् प्रत्यभिज्ञानमेव यथा प्रसिद्धप्रत्यभिज्ञानम् , तत्कारणकं सादृश्यादिसङ्कलनस्वभावश्चोपमानमिति / . 'तद्' इत्यादिना प्रकृतोपसंहारमाह-यस्माद् उपमानादेः परोक्षेऽन्तर्भावः तत तस्मात् समञ्जसम् उपपन्नम् 'प्रत्यक्ष परोक्षश्च इति एवं द्वे एव प्रमाणे' इति / कुत / एतत् ? इत्यत्राह-'अन्यथा' इत्यादि / अन्यथा अन्येन प्रकारेण तेषां प्रमाणानां सङ्ख्याया अनवस्थानादिति ॥छ॥ मिथ्यायुक्तिपलालकूटनिचयं प्रज्वाल्य निःशेषतः, सम्यग्युक्तिमहांशुभिः पुनरियं व्याख्या परोक्षे कृता। येनासौ निखिलप्रमाणकमलप्राज्यप्रबोधप्रदः, भास्वानेष जयत्यचिन्त्यमहिमा शास्ताऽकलङ्को जिनः ॥छ। इति श्रीप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयत्रयालङ्कारे तृतीयः परिच्छेदः ॥छ। प्रमाणप्रवेशे चतुर्थ आगमपरिच्छेदः / प्रत्यक्षतररूपमानमखिलं व्याख्याय साभासताम् , तस्यै ख्यापयितुं कथञ्चिदधुना प्रारभ्यते प्रक्रमः / मिथ्र्यकान्तमहान्धकूपपतनव्यामुग्धबुद्धेः स्फुटम् , कः सन्मार्गनिरूपणेऽत्र कुशलः स्याद्वादभानोः परः // 1 // अथ प्रमाणाभासत्वेन प्रसिद्धं विज्ञानं कथञ्चिदेव तदाभासं न सर्वथेति प्रदर्शयन्नाहप्रत्यक्षाभं कथश्चित् स्यात् प्रमाणं तैमिरादिकम् / येद्यथैवाऽविसंवादि प्रमाणं तत्तथा मतम् // 22 // 20 (1) उपमानं प्रत्यभिज्ञानात्मकमेव दर्शनस्मरणकारणकत्वे सति सादृश्यादिसङ्कलनस्वभावत्वात् / (2) स एवायं जिनदत्त इत्येकत्वप्रत्यभिज्ञानम् / (3) मानस्य (4) “स्याद् भवेत् / किम् ? प्रत्यक्षाभं प्रत्यक्षप्रमाणाभासमित्यर्थः / अक्षमिन्द्रियानिन्द्रियं प्रति नियतं प्रत्यक्ष ज्ञानमात्रम् तदिवाभातीति व्युत्पत्तेः / किं विशिष्टम् ? तमिरादिकं तिमिरादागतं तैमिरं तदादिर्यस्य आशुभ्रमणादेः तथोक्तम् / तत् किं स्यात् ? प्रमाणं भवति। कथम् ? कथञ्चित् भावप्रमेयापेक्षया द्रव्यापेक्षया वा, न सर्वथा प्रमाणाभासमेव, बहिराकारविषय एव ज्ञानस्य विसंवादात् स्वरूपापेक्षया तस्याविसंवादात् / अत्राविनाभावं दर्शयति यदित्यादि / यज्ज्ञानं यथैव यावद्विषयावबोधनप्रकारेण अविसंवादि, विसंवादो गहीतार्थव्यभिचारः तद्रहितमविसंवादि. तज्ज्ञानं तथा तावद्विषयावबोधन 1-कारण संकलन-आ०, श्र०। 2 तत्कारणं सादृ-ब० / -महामुनिः पु-ब०। 4-नेष जयत्परोक्षमहि-ब० / / श्रीमत्प्रभा-ब० / 6 परिच्छेदः समाप्तः / / ब० / 7-त्वेन सिद्धविज्ञा-ब० /
SR No.004327
Book TitleNyayakumudchandra Part 2
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1941
Total Pages634
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy