________________ 520 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अप्रतिनियते चानुमानतोऽभावसिद्धेः कथमुक्तदोषानुषङ्गः ? तच्चानुमानम्-देशान्तराणि चैत्रशून्यानि चैत्राधिष्ठितदेशव्यतिरिक्तत्वात् तत्समीपदेशवत् / न च 'देशान्तराणि चैत्रयुक्तानि तत्समीपदेशव्यतिरिक्तत्वात् चैत्राधिष्ठितदेशवत्' इति प्रत्यनुमानोपहतमेतदित्यभिधातव्यम् ; तत्पक्षस्य प्रत्यक्षादिबाधितत्वात् / तदेवमर्थापत्तेः अनुमानादर्थान्तर5 त्वाऽसिद्धः सिद्धः परेषां प्रमाणसंख्याव्याघातः। - ननु भवतामप्येवं प्रमाणसंख्यानियमविरोधस्तुल्यः 'उपमानादेः प्रदिपादितप्रमाणप्रपञ्चस्य प्रत्यक्षपरोक्षाभ्यामर्थान्तरत्वाऽविशेषात्' इत्यारेकापनोदार्थमाह-'सर्वस्य' इत्यादि / सर्वस्य अनन्तरोक्तस्य उपमानादिप्रमाणप्रपञ्चस्य परोक्षेऽन्तर्भावात् नाऽस्माकं कश्चिहोषः। कस्मात् तस्य तत्रान्तर्भाव इति चेत् ? तल्लक्षणलक्षितत्वात् / यस्य यल्लक्षण10 लक्षितत्वं तस्य तत्रान्तर्भावः यथा रूपसुखादिसंवेदनस्य प्रत्यक्षे, परोक्षलक्षणलक्षितत्वश्च उपमानादेरिति / यथैव हि रूपादिसंवेदनस्य सुखादिसंवेदनस्य च विषयभेदात् सामग्रीभेदाच्च अन्योन्यं वैलक्षण्येऽपि वैशद्यस्वरूपप्रत्यक्षलक्षणलक्षितत्वात् प्रत्यक्षत्वम् , तथा उपमानादेरपि अवैशद्यस्वभावपरोक्षलक्षणलक्षितत्वात् परोक्षत्वमिति / नन्वेवमपि परोक्षस्य स्मृतिप्रत्यभिज्ञानतर्काऽनुमानागमभेदैः परिगणितत्वात् 15 कथमुपमानादेस्तत्रान्तर्भावः, तदन्तर्भावे वा परिगणनविरोधः ? इत्यसमीचीनम् ; उप मानादेः प्रत्यभिज्ञानादिरूपतया तत्परिगणनाऽविरोधकत्वात् / दर्शनस्मरणकारणकं हि सङ्कलनं प्रत्यभिज्ञानमुच्यते, इदमप्युपमानादिज्ञानं दर्शनस्मरणकारणकं सादृश्यादि - (1) तुलना-"देशान्तराणि चत्रशून्यानि चैत्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति।"न्यायमं० पृ० 38 / (2) “ननु देशान्तरं शून्यं चैत्रेणैवं प्रतीयते / तद्देशव्यतिरिक्तत्वात् समीपस्थितदेशवत् / विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते / समीपदेशभिन्नत्वाच्चत्राधिष्ठितदेशवत् / एतदुक्तं भवति-न तावद्देशान्तराणि चैत्रशन्यानि तत्संयुक्तदेशव्यतिरिक्तदेशत्वादिति हेतुः संभवति, सन्दिग्धत्वात्, देशान्तराण्यपि तत्संयुक्तानि न वेत्येतावदेव विचार्यते। कथं तेषां तत्संयुक्तदेशाद् व्यतिरेकसिद्धिः / यदि परमेवमुच्यते-यमेवाधुना चैत्रोऽधिष्ठितोऽपवरकदेशं तद्व्यतिरिक्तत्वादिति; एवं विधश्चाप्रयोजको हेतुः, इतरथा हि शक्यते-चैत्रयुक्तं देशान्तरं तत्समीपव्यतिरिक्तदेशत्वात् तदधिष्ठितदेशवदिति ।"-मी० श्लो० अर्था०, न्यायर० 10 461-62 / (3) "प्रतिपक्षप्रयोगस्तु प्रत्यक्षादिविरुद्धत्वाद्धेत्वाभास एव ।"-न्यायमं० 10 45 / (4) मीमांसकानाम् / (5) जैनानामपि / (6) उपमानादयः परोक्षेऽन्तर्भवन्ति परोक्षलक्षणलक्षितत्वात् / तुलना-“यदेकलक्षणलक्षितं तद्वयक्तिभेदेऽप्येकमेव यथा वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम्, अवैशबैकलक्षणलक्षितञ्च शब्दादीति ।"-प्रमेयक० पृ० 192 / सन्मति० टी०प०५९५ / स्या० 2050 283 / (7) रूपादिसुखादिलक्षण / (8) चक्षुरादि-मानसादिरूप। (9) लघीयस्त्रयस्य 'ज्ञानमाद्यं स्मृति' (का० 10) इति कारिकायाम् , परीक्षामु० 3 / 2 / प्रमाणनय० 3 / 2 / प्रमाणमी० 1 / 2 / 2 / इत्यादिषु च / (10) तुलना-प्रमेयक० पृ० 193 / स्या० र० पृ० 283 / ___1 अतिनियते आ० / 2-तरतासिद्धः श्र० / 3 प्रमाणपञ्चकस्य ब० / 4 अन्योन्यवैल-आ०, ब० / संकल्पनं श्र० /