________________ प्रमाणप्र० का० 21 ] अर्थापत्तिप्रमाणनिरास: 516 शक्तिरस्ति स्फोटान्यथानुपपत्तेः' इति तद्रहितार्थापत्तिः प्रमाणान्तरं स्यात्, तथा च प्रमाणसंख्याव्याघातः। नियमवतोऽर्थाद् अर्थान्तरप्रतिपत्तरविशेषात्तयोरभेदे स्वसाध्याविनाभाविनोऽर्थाद् अर्थान्तरप्रतिपत्तरेत्राप्यविशेषात् कथमनुमानादर्थापत्तेर्भेदः स्यात् ? असिद्धश्चात्र अविनाभावस्य गम्यविशेषणत्वम् ; गृहे चैत्राभावे एव बहिस्तत्सद्भावगमके तस्य विशेषणत्वसम्भवात् / नहि तस्य तद्विशेषणत्वे कश्चिद्दोषः सम्भवति येन गम्य- 5 विशेषणता कल्प्येत। न च सर्वस्यामर्थापत्तौ गम्यविशेषणता अविनाभावस्य सम्भवति; प्रत्यक्षादिप्रभवाऽर्थापत्तौ गमकस्यैव स्फोटादे: अविनाभावविशेषणत्वसंभवात्। न खलु तत्र गम्यायाः शक्तेः स्फोटं विनाऽनुपपत्तिः सम्भवति; तमंन्तरेणापि अस्याः सद्भावाभ्युपगमात् / ___ यच्चान्यदुक्तम्-‘पक्षधर्मतानिश्चयसमये साध्यस्य नियतदेशतया अाऽप्रतीते: अनुमानाद्वैलक्षण्यम्' इत्यादि; तदप्युक्तिमात्रम् ; गृहाभावाख्यधर्म्यवच्छेदेन बहिर्भावस्य 10 प्रतीतेः, धर्मी एव हि देशशब्देन उच्यते, तदवच्छेदश्च अत्रास्त्येवेति न ततस्तद्वैलक्षण्यम् / यदपि 'सम्बन्धग्रहणाभावाच्च' इत्याद्युक्तम् ; तदपि न; यतः 'सर्वत्र सम्बन्धग्रहणस्य ऊहाख्यप्रमाणप्रसादादेव प्रसिद्धेः' इत्युक्तम् / अतश्च 'देशान्तराणामानन्त्यान्न न तत्र नास्तित्वेन सम्बन्धग्रहः' इत्याद्ययुक्तम्, अनियतसाध्यसाधनव्यक्तिसम्बन्धग्रहणस्वभावत्वात्तस्यै / कथमन्यथा धूमस्य अनग्निव्यतिरेकनिश्चयः तत्रापि अस्य दोषस्याऽ- 15 विशेषात् ? न च भूयोदर्शनावगम्यमानाऽन्वयमात्रेण गमकोऽसौ युक्तः; अनिश्चितव्यतिरेकस्य साध्यनिश्चयाऽहेतुत्वात् / न च सत्तामात्रेणासौ तद्धेतुः; अन्वयवद् व्यतिरेकस्यापि निश्चितस्यैव अनुमानाङ्गतोपपत्तेः / किश्च, असर्वगतद्रव्यस्य चैत्रादेः नियतदेशवृत्तेः तदन्यदेशे प्रतिनियते प्रत्यक्षतः, (1) शक्तिर्वह्नौ स्फोटश्च करतलादौ इति न स्फोटस्य पक्षधर्मता-आ० टि। (2) पक्षधर्मत्वसहिततद्रहितयोरापत्त्योश्चेदभेदः; तदाऽनुमानार्थापत्त्योरपि तथास्तु-आ० टि०। षडेव प्रमाणानीति प्रमाणसंख्याव्याघातः सप्तमस्य प्रसिद्धेः। (3) पक्षधर्मत्वसहित-तद्रहितार्थापत्त्योः / (4) अर्थापत्तावपि / (5) गमकस्य विशेषणमविनाभाव:-आ० टि०। (6) अविनाभावस्य / (7) गमकविशेषणत्वे। (8) स्फोटादिकं विनापि / (9) शक्तेः / (10) पृ०५११५०६। (11) अर्थापत्तो। (12) 105105015 / (13) तर्कनिरूपणप्रसङ्गे, प०४२६ / (14) ऊहस्य / (15) तुलना"अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः / या तत्र वार्ता सैवेहापि नो भविष्यति / न च भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया 'यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति / मम त्वदृष्टिमात्रेण गमकाः सहचारिणः॥ (मी० श्लो० अर्था० श्लो०४०) इति कथयितुमुचितम् ; अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति "पक्षधर्मान्वयव्यतिरेकोऽपि नागृहीतोऽनुमानाङ्गम् ।"-न्यायमं पृ० 45 / ' (16) धूमो हेतुः / (17) तुलना-"असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वावधारणम् ।"-न्यायमं० पृ० 45 / न्यायवा० ता० पृ० 438 / सांख्यतत्त्वकौ० पृ० 43 / “दृष्टमेतत्अव्यापक द्रव्यमेकत्रास्ति तदन्यत्र नास्तीति यथा प्राचीप्रतीच्योरेकत्रोपलभ्यमानः सविताऽन्यत्र न भवतीतीदं दर्शनबलेनैवमवधार्यते ।"-प्रश० कन्द० पृ० 223 / (18) परिमितदेशवृत्तित्वादिति हेतोः / 1 पूर्वस्यामाप-ब० / 2 प्रतीतिः आ० / 3 धर्मे वहिर्देश-ब० / 4 तदप्ययुक्तम् यतः श्र०, ब० / 5 सम्बन्धग्रहणमित्या-ब०। 6-सौ अनि-श्र० / 7 तदन्यदेशे प्रतिनियते च अन-ब०।।