________________ 518 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० प्रवर्त्तते इति कथं तदनुप्रवेशः ? तदसमीक्षिताभिधानम् ; सदसत्त्वज्ञानयोः असमानविषयतया विरोधाऽसिद्धेः। आगमेन हि देशविशेषानवच्छिन्नस्य चैत्रस्य सत्ता प्रतिपाद्यते न गृहे बहिर्वा, प्रत्यक्षेण तु गृहावच्छिन्नस्य चैत्रस्याभाव इति। समानविषयत्वे तु तैयोरनन्यथासिद्धाऽध्यक्षबाध्यत्वेन आँगमजज्ञानस्य मिथ्याज्ञानस्येव नाऽर्थान्तरकल्पनाकारणत्वम्। अथ मत-अनुमाने गमकविशेषणम् अन्यथानुपपन्नत्वं 'वहिं विना धूमो नोपपद्यते' इति, अर्थापत्तौ तु विपर्ययः गमकं विना गम्यो नोपपद्यते / गम्यो हि बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते, गृहान्निर्गतो जीवन बहिरस्तीत्येवं गम्यगमकयोरनुपपद्यमानत्वे विपर्ययात् प्रमाणान्तरमनुमानादर्थापत्तिरिति; तदप्यसङ्गतम् ; 'साध्या विनाभाविनो लिङ्गात् लिङ्गिनि ज्ञानमनुमानम्' इत्यनुमानलक्षणम् / तैच्चार्थापत्तौ 10 अस्त्येव / न हि तदुत्थापकार्थस्य साध्येन अविनाभावोऽसिद्धः; ततः तत्सिद्ध्यभावप्रसङ्गात् / स चाविनाभावः अन्यथानुपपन्नत्वापरपर्यायः उभयनिष्ठत्वात् गमकविशेषणं वास्तु गम्यविशेषणं वा नैतावता अर्थापत्त्यनुमानयोः भेदः, अन्यथा 'सूर्यस्य गमनशक्तिरस्ति गतिमत्त्वाऽन्यथानुपपत्तेः' इति पक्षधर्मत्वसहिताया अर्थापत्तेः 'वढेर्दाह (1) तुलना-"तथाहि-सत्त्वमात्रं वा विरुध्यते चैत्रस्य गेहाभावेन गेहसत्त्वं वैकत्रास्य / न तावद्यत्र क्वचन सत्त्वस्यास्ति विरोध: गेहेऽसत्तया समानविषयत्वाभावात् - 'गृहाभावावच्छिन्नाभावेन गृहसत्त्वं विरुद्धत्वात्प्रतिषिध्यते न तु सत्त्वमात्रम् तत्र तस्यौदासीन्यात्, तस्माद् गृहाभावेन सिद्धेन सतो बहिर्भावोऽनुमीयत इति युक्तम् / एतेन विरुद्धयोः प्रमाणयोरविरोधापादनं विषयव्यवस्थया अर्थापत्तिविषयः परास्तः; अवच्छिन्नाऽनवच्छिन्नयोरविरोधात् ।"-न्यायवा० ता०प०४३९। सांख्यतत्वकौ० 10 44 / “अनियम्यस्य नायुक्तिः नानियन्तोपपादकः / न मानयोविरोधोऽस्ति प्रसिद्ध वाप्यसौ समः ॥"म्यायकुसु० 3 / 19 / (2) नियतदेशविषयत्वेनैव सिद्धमध्यक्षम्-आ० टि० / (3) अबलमागमजं ज्ञानमनियतदेशविषयत्वात्-आ० टि०। (4) प्रभाकरस्य / “यदि यद्येन विना नोपपद्यते तदेवाव. गमकं स्यात्, इह तु यनोपपद्यते तदेवावगम्यते। किं चात्र नोपपद्यते ? जीवतो गृहाभावदर्शनात अन्यत्राभावो नोपपद्यते / तत: किम् ? नात्राभावस्य गम्यता। कस्य तर्हि ? भावस्य / न चासौ गृहाभावदर्शनेनोपपद्यते / बाढं नोपपद्यते / न हि गृहाभावदर्शनेन विना बहिः भाव उपपद्यते।"-शाबरभा० बह० 11115 / "विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् / नयता दृष्टमर्थ या सार्थापत्तिस्तु कल्पना / अभावेन गृहे भावो बहिष्कल्पनया विना। नयताऽनुपपन्नत्वं कल्प्यमाना बहिर्यथा। गम्यस्यानुपपन्नत्वमिह कल्पनया विना। मानान्तरविरोधेन सन्देहापत्तिलक्षणम् // देशेन हि विना भावो न कदाचन दृश्यते / विना भावेन सिद्धोऽपि ते सन्देहमाछेति // तत्सन्देहव्युदासाय कल्पना या प्रवर्तते / सन्देहापादाकादर्थादर्थापत्तिरसौ स्मृता / गमकस्यानुमाने तु विपक्षासत्त्वलक्षणम् / गम्यतेऽनुपपन्नत्वं विना गम्येन वस्तुना // तत्सामग्रीविभेदेन भिन्ने एते परस्परम् / अर्थापत्त्यनुमानाख्ये प्रमाणे इति निश्चितम् ॥"-प्रक० 50 10 128 / तुलना-न्यायमं० पु० 44 / (5) तुलना-"एतदपि ग्रन्थवैषम्योपपादनमात्रम् न तु नूतनविशेषतोत्प्रेक्षणम् ; गम्ये तावदगृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत, गृहीते तु गम्ये किं तद्गतानुपपद्यमानत्वग्रहणेन साध्यस्य सिद्धत्वात्..."-न्यायमं० पृ० 44 / (6) अर्थापत्त्युत्थापकार्थात् / (7) साध्य / 1 तयोरन्यथा-ब० / 2-मानविपर्ययात् श्र० / 3 तत्त्वार्थापत्तौ ब० / 4 पक्षधर्मसंहि-आ० /