________________ प्रमाणप्र० का० 21] अर्थापत्तिप्रमाणनिरासः 517 जीवनविशिष्टस्त्वसौ' गृह्यमाणो लिङ्गतामेव प्रतिपद्यते व्यभिचाराभावात् / न च विशेषणग्रहणमेव प्रमेयग्रहणम् ; यतो जीवनमन्यद् अन्यच्च बहिर्भावाख्यं प्रमेयमिति / अथ मतम्-जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिरिति; तदप्यविचारितरमणीयम्; यतो जीवनविशिष्टगृहाभावप्रतीतेर्बहिर्भावप्रतीतिर्भवति, न तु तत्प्रतीतिरेव बहिर्भावप्रतीतिः। न हि देहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिर्दृष्टा / अथ 5 धूमादन्यो दहनः तेनात्र तत्प्रतीतिभेदो युक्तः; तदेतदन्यत्रापि समानम्-गृहाभाव-जीवनाभ्यां तद्वहिर्भावस्यापि अन्यत्वात्, तत्कथमत्रापि तत्प्रतीत्योरभेदः स्यात् ? यथा च पर्वत-वह्नयोः सिद्धत्वात् मत्त्वर्थमात्र तत्र अपूर्वमनुमेयमेवमिष्टम्, एवमिहापि बहिर्देशमात्रम् अपूर्वमनुमेयमस्तु / यदि तु तदधिकं प्रमेयमिह नेष्यते, तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणाद् आनर्थक्यमेव अर्थापत्तेः / तस्मात् प्रमेयाँन्तरसद्भावात् 10 तस्य चाऽननुप्रवेशान्न कश्चिदोषः। अर्थापत्तावपि च तुल्य एवायं दोषः, तत्रापि अर्थादर्थान्तरकल्पनाभ्युपगमात् / तस्य तस्मात् प्रतीतिरिति यत्र व्यवहारः तत्रावश्यं तत्प्रतीतौ तदनुप्रवेशदोषोऽनुषज्यते, स्वभावहेताविव तबुद्धिसिद्ध्या तैत्सिद्धेः प्रमाणान्तरवैफल्यात् / ___ ननु चाभावो निश्चितो लिङ्गं भविष्यति, सदसत्त्वग्राहिणोश्च प्रमाणयोः विरोधे 15 कथं तन्निश्चयः ? अतो यावदागमस्य बहिर्भावविषयता न प्रतीयते तावन्न गृह एवाऽभावनिश्चय इति, तस्य निश्चये प्रमेयानुप्रवेशदोषानुषङ्गः, अर्थापत्तिस्तु प्रमाणद्वयविरोधे सत्येव (1) गृहाभावः-आ० टि० / (२)तुलना-"जीवनविशिष्टगृहाभावप्रतीतेः बहिर्भावः प्रतीतः न तत्प्रतीतिरेव बहिर्भावप्रतीतिः / न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः, किन्तु धूमादन्य एव दहनः, इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः, पर्वतहुतवहयोस्सिद्धत्वान्मत्त्वर्थमात्रं तत्रापूर्वमनुमेयम्, एवमिहापि बहिर्देशयोगमात्रमपूर्वमनुमेयम् ।"-न्यायमं० पृ० 43 / स्या० र०पृ० 309 / (३)जीवतो गृहाभावबहिर्भावयोः-आ० टि० / (4) 'पर्वतो वह्निमान्' इति रूपम् / (5) भावस्य जीवनेनैव सिद्धत्वात्-आ० टि०। (6) गृहाभावग्राहकं हि अभावप्रमाणम्, जीवनग्राहकञ्च आगमप्रमाणमिति / (7) बहिःसद्भाव / (8) तुलना-"अर्थापत्तावपि च तुल्य एवायं दोषः,तत्राप्यर्थादर्थान्तरकल्पनाभ्यपगमात / दष्टः श्रतो वार्थोऽन्यथा नोपपद्यते इत्यर्थकल्पनेत्येव ग्रन्थोपनिबन्धात / तस्य तस्मात्प्रतीरिति तत्र व्यवहारस्तत्रावाच्य (?) तत्प्रतीतौ तदनुप्रवेशो दोष एव / स्वभावहेताविव तद्धिसिद्धया तत्सिद्धेः प्रमाणान्तरवैफल्यादिति।"-न्यायमं० पृ०४४ / स्या० र०पू०३०९। (9) तस्य साध्यस्य तस्मात् साधनात् प्रतीरिति व्यवहारश्च अनुमान इवार्थापत्तावप्यस्ति-आ० टि। (10) यथा स्वभावहेतौ शिंशपाबुद्धयैव वृक्षबुद्धौ जातायां प्रमाणान्तरेण न कार्यम्, तथात्रापि गृहाभावेनैव लिङ्गेन बहिर्भावस्यावगतत्वान्नार्थापत्त्या कार्यम्-आ०टि०। (11) अपि तु सर्वत्रवाभाव:आ० टि०। (12) य एव जीवनतो गृहाभावनिश्चयः स एव बहिर्भावनिश्चयः इति, अतो गृहाभाबाख्यो हेतुः प्रमेयं बहिर्भावाख्यमनप्रविष्ट इति भाव:-आ० टि०। 1-शिष्टश्चासौ ब०। 2 विशेषग्रह-श्र०। 3 दहनादिकारण-श्र०। 4 तेन तत्प्र-श्र० / 6 प्रतिपत्तिरिति श्र०। 6-सिद्धिः भा०, ब०।