________________ 516 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० असत्त्वस्य वा प्रसङ्गात् / प्रयोगः-रात्रिभुक्तिमान् देवदत्तः, रसायनाद्युपयागाभावे दिवाभुक्तिरहितत्वे च सति पीनत्वात्, यो यो रसायनाथुपयोगाभावे दिवाभुक्तिरहितत्वे च सतिं पीनः स स रात्रिभुक्तिमान् यथा नक्तश्चरः, रसायनाद्युपयोगाभावे दिवाभुक्ति रहितत्वे च सति पीनश्च देवदत्तः, तस्माद् रात्रिभुक्तिमानिति / ततो 'नहीदं वाक्य5 मेव तत्प्रतिपत्तिनिबन्धनम्' इत्यांद्ययुक्तमुक्तम्; यथोक्तविशेषणविशिष्टस्य पीनत्वलक्षणलिङ्गस्यैवातो वाक्यात् प्रतिपत्तेः, तंत्रतिपन्नाच्च लिङ्गात् रात्रिभोजनप्रतिपत्तिसिद्धिरिति / __ याप्यभावपूर्विकाऽर्थापत्ति: साप्यनुमानमेव, जीवतश्चैत्रस्य गृहाभावेन लिङ्गेन बहिर्भावावगमात् / तथाहि-जीवतश्चैत्रस्य गृहेऽभावः बहिर्भावेन तद्वान् , जीवन्मनुष्य गृहाभावत्वात्, पूर्वोपलब्धैवंविधगृहाभाववत् , यथा धूमोऽग्निमान धूमत्वात् पूर्वोपलब्ध10 धूमवत्। ततश्च गृहादीनां लिङ्गत्वनिराकरणं शब्दाडम्बरमात्रम् अस्मन्मतांशाऽस्पर्शित्वात्। यत्पुनः प्रमेयानुप्रवेशो दूषणमुक्तम् ; तदपि न युक्तम् ; यतः किं प्रमेयमत्राऽभिप्रेतम्- किं सत्तामात्रम्, बहिर्देशविशेषितं वा सत्त्वम् ? तत्र सत्तामात्रं तावद् आगमादेवाऽवगतमिति नै प्रमाणान्तरप्रमेयतामवलम्बते / बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम्, न च तस्य तदानीमनुप्रवेशः / गृहे चैत्राभावग्राहकं हि प्रमाणं तत्रैव तत्सद्भा15 वावेदकं प्रमाणमपाकरोति न पुनः बहिस्तत्सदसत्त्वचिन्तां करोति / "मृतस्य जीवतो दूरे तिष्ठतः प्राङ्गणेऽपि वा / गृहाभावपरिच्छेदे न विशेषोस्ति कश्चन // ' [ न्यायमं० पृ० 43 ] (१)पृ० 507 पं० 12 / (2) रसायनाद्युपयोगाभावेत्यादि-आ० टि० / (3) वाक्यप्रतिपन्नात् / (4) तुलना-'साप्यनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात् / तथाहि-देवदत्तो बहिर्देशसम्बन्धी जीवनसम्बन्धित्वे सति गृहेऽनुपलभ्यमानत्वात् विष्णुमित्रवत् ।"-प्रश० व्यो० पृ० 591 / "तदापि गेहायुक्तत्वं दृष्ट्याऽदृष्टेविनिश्चितम् / अतस्तत्र बहिर्भावो लिङ्गादेवावसीयते / / साना यो ह्यसंसृष्टो नियतं बहिरस्त्यसौ। गेहाङ्गणस्थितो दृष्ट: पुमान् द्वारिस्थितैरिव // विपक्षोऽपि भवत्यत्र सदनान्तर्गतो नरः / अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते ॥"-तत्त्वसं० पृ० 470 / प्रमेयक० पृ० 203 / सन्मति० टी०ए० 586 / स्या० र० पृ० 308 / "चैत्रस्य गहाभावो धर्मी बहिर्भावेन तद्वानिति साध्यो धर्मः जीवन्मनुष्यगृहाभावत्वात् पूर्वोपलब्धैवंविधगृहाभाववत् ।"-न्यायमं० पृ० 43 / "तदप्यनुमानमेव, यदा खलु सन्नेकत्र नास्ति तदाऽन्यत्रास्ति, यदा वाऽव्यापक एकत्रास्ति तदाऽन्यत्र नास्ति, सोऽयं स्वशरीर एव व्याप्तिग्रहः सुकरः। तथा च सतो गेहाभावदर्शनेन लिनेन बहिर्भावदर्शनमनुमानम्।"-न्यायवा० ता० पृ० 438 / सांख्यतत्वको० पृ० 44 / प्रश० कन्द० पू० 223 / न्यायकुसु० 3319 / प्रश० किरणा० पृ० 324 / वैशे० उप० 9 / 2 / 5 / (5) पृ०५०९५० 8 / (6) तुलना-"किं प्रमेयमभिमतमत्र भवतां कि सत्तामात्रमुत बहिर्देशविशेषितं सत्त्वम् ।"-न्यायमं० पृ० 43 / स्या० र० पृ० 309 / (7) गृह एव / (8) 'वृत्तस्य'-न्यायमं० / “मृतस्य जीवतो वा दरे प्राङ्गणेऽपि वा / तिष्ठतश्चैत्रस्य गुहाभावपरिच्छेदे विशेषाभावात् ।"-स्या० र० पृ० 309 / 1-स्य प्रस-श्र०। 2-क्यात्तत्प्रति-ब०। 3-प्रतिपत्तिरिति आ०। 4 नत्प्रमा-आ० / 5-णान्तरं प्रमे-ब०। 6-परिच्छेदनवि-श्र०।