________________ प्रमाणंप्र० का० 21] अर्थापत्तिप्रमाणनिरास: 515 तया सन्दिग्धस्य लिङ्गताप्रसङ्गात् / अथ निश्चितः; कुतस्तन्निश्चयः ? कारणानुपलब्धेश्चेत्; सा किं दृश्यानुपलब्धिः, अदृश्यानुपलब्धिर्वा ? यद्यदृश्यानुपलब्धिः; कथमतोऽभावसिद्धिः, परमाणुपिशाचादिना अनेकान्तात् ? अथ दृश्यानुपलब्धिः; तर्हि अतः कारणाभावसिद्धेः कथमर्थापत्तेः कारणसद्भावावेदिकायाः प्रामाण्यं स्यात् ? चक्रकप्रसङ्गाच्च न कारणाभावस्य लिङ्गता; तथाहि-कार्यकारणयोः सम्बन्धग्रहणे 5 सति कारणाभावाख्यमनुमानं प्रवर्तते, सम्बन्धग्रहणश्च कारणग्रहणे सति, कारणग्रहणञ्च अर्थापत्तितः, अर्थापत्तिश्च कारणाभावानुमाने सति, तच्च सम्बन्धग्रहणे सति इति / न च अर्थापत्तित एव स्फोटादौ कारणसद्भावसिद्धिः; अनुमानतोऽपि तत्सिद्धेः / तथाहिस्फोटादि कारणपूर्वकम् , कार्यत्वात् , यत् कार्य तत् कारणपूर्वकम् यथा धूमादि, कार्यश्चेदं स्फोटादि, तस्मात् कारणपूर्वकमिति / ____ एतेन अनुमानोपमानपूर्वकाऽर्थापत्तिद्वयमपि प्रत्याख्यातम ; तस्यापि शक्तिविषयत्वेन प्रत्यक्षपूर्वकार्थापत्तिपक्षनिक्षिप्ताऽशेषदोषानुषङ्गात् / यापि शब्दनित्यत्वसिद्धौ अर्थापत्तिपूर्विकार्थापत्तिरुक्ता; साध्ययुक्ता ; शब्दस्यानित्यत्वेऽपि वाचकत्वस्योपपत्तेः, तदनित्यत्वञ्च अग्रे प्रसाधयिष्यामः / __यापि पीनो देवदतो दिवा न भुङ्क्ते' इत्यादि श्रुतार्थापत्तिरुक्ता; साप्यनुमानमेव, 15 कार्यतः कारणप्रतिपत्तः / असति हि रसायनाद्युपयोगे पीनत्वं स्वात्मनि अन्यत्र च भोजनकार्यत्वेन अवगतम् , तच्च देवदत्ताख्ये धर्मिणि आप्तवाक्यात् कॉलविशेषे भोजननिषेधेन निश्रीयमानं प्रतिषिध्यमानकालव्यतिरिक्तकाले प्रतिषिद्धे स्वोपंपादकस्य कारणस्य सत्तामवगमयति / नहि कारणं विना कार्यस्योदयो घटते, अहेतुकत्वेन सदा सत्त्वस्य - (1) पृ० 506 पं० 5,6 / (2) तुलना-"उपमानस्य तु स्मरणादभेदे तत्पूर्विकाऽर्थापत्तिरनुमानमेव, व्याप्तेः पूर्व ग्रहणात् / तथा च सादृश्यावच्छिन्नो गोपिण्डो वाहादिसमर्थः गोपिण्डत्वात पूर्वोपलब्धैवंविधगोपिण्डवत् ।”-प्रश० व्यो० पृ० 590 / (3) पृ० 507 पं०९। (4) पृ० 507 पं०११। (5) तुलना-"श्रुतार्थापत्तिरपि वराकी नानुमानाद् भिद्यते, वचनैकदेशकल्पनाया अनुपपनत्वादर्थस्य च कार्यलिङ्गस्य सत्त्वात् / यथा क्षितिधरकन्धराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान् एवमागमात्पीनत्वाख्यं कार्यमवधार्य तत्कारणमपि भोजनमनुमिनोतु कोऽत्र विशेषः"न्यायमं० पृ०४५। "क्षपाभोजनसम्बन्धी पुमानिष्ट: प्रतीयते। दिवाभोजनवैकल्यपीनत्वेन तदन्यवत् / / भोजने सति पीनत्वमन्वयव्यतिरेकतः / निश्चितं तेन सम्बद्धाद्वस्तुनो वस्तुतो गतिः ॥"-तत्त्वसं० पृ० 465 / सन्मति० टी० पृ० 587 / स्या० र० पृ० 306 / “पीनो दिवा न भुङ्क्ते इति वाक्यश्रवणाद्रात्रिभोजनकल्पनाऽनमितानमानम, लिङ्गभतेन वाक्येन अनमितात पीनत्वात तत्कारणस्य रात्रिभोजनस्य अनुमानात् ।"-प्रश० कन्द पृ० 223 / 'देवदत्तो रात्रौ भङक्ते दिवाऽभोजित्वे सति पीनत्वादिति / " -वैशे० उप० 9 / 2 / 5 / (6) स्थूले पुरुषान्तरे। (7) दिवा / (8) पीनत्वोपपादकस्य-आ०टि० / (9) भोजनस्य / (10) तुलना-"नित्यं सत्त्वमसत्त्वं हि हेतोरन्यानपेक्षणात् / अपेक्षातरंच भावानां कादाचित्कत्वसंभवः ॥"-प्रमाणवा० 3 / 34 / 1 बाचकस्योपपत्तेः आ०12 योऽपि ब०। 3 प्रतिषेध्यमान-आ०। 4 स्वोत्पादकस्य ब०,श्र०। 5 कारणसत्तामव-ब०।