________________ 514 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० न्तराद्वा प्रतीयेत ? न तावद् भूयोदर्शनात्; शक्तेरतीन्द्रियतया भूयोदर्शनाऽसंभवात् / नापि विपक्षेऽनुपलम्भात् ; तस्यापि उपलब्धियोग्येष्वेवार्थेषु सम्बन्धप्रतिपत्तिहेतुत्वात् / नापि अर्थापत्त्यन्तरात्; अनवस्थाप्रसङ्गात् / कथं तर्हि साध्यसाधनयोः सम्बन्धप्रति पत्तिर्भवतोऽपीति चेत् ? ऊँहाख्यप्रमाणान्तरात् / अस्माकं तदभ्युपगमे को दोषः 5 इति चेत् ? प्रमाणसंख्याव्याघातः, तथा “प्रत्यक्षेण हि प्रतिपन्ने प्रतिबन्धे अनुमान प्रवर्त्तते' [ ] इत्यादिग्रन्थविरोधश्च , सर्वत्र ऊहाख्यप्रमाणादेव सम्बन्धप्रतिपत्तिप्रसिद्धेः / न खलु तस्य कश्चिदगोचरोऽस्ति येन शक्तेरतीन्द्रियतया केनचिल्लङ्गेन सह सम्बधाऽप्रतिपत्तेः अनुमानतोऽप्रतिपत्ति: स्यात् / यदपि-प्रत्यक्षप्रतिपन्नदाहाख्यकार्यान्यथानुपपत्त्या' इत्यादि प्रत्यक्षपूर्विकार्था10 पत्तेर्लक्षणमुक्तम् ; तत्र अनुपपत्तिस्वरूपं वक्तव्यम्-किं साध्येन विना स्फोटादेरभावः अनुपपत्तिः, प्रमाणविरोधो वा ? प्रथमपक्षे तेन विना नोपपद्यते इति व्यतिरेकभणितिः, व्यतिरेकश्च प्रतीयमानः तस्मिन् सति उपपद्यते' इत्यन्वयमाक्षिपति, अन्वयव्यतिरेको , च लिङ्गस्यैव गमकस्य धर्माविति कथमर्थापत्तिरनुमानादतिरिच्येत ? प्रमाणविरोधोऽपि बाध्यबाधकभावान्नान्यः। तथा च शुक्तिकायां रजततदभावग्राहिणोर्विज्ञानयोः बाध्यबाध15 कभावे सति रजतान्यथानुपपत्त्या अर्थान्तरकल्पनानुषङ्गः स्यात् , तल्लक्षणाया अनुपपत्तेरत्राप्यविशेषात् / किञ्च, प्रमाणयोः परस्परप्रतिबन्धकत्वे सति अर्थापत्तिः प्रवर्त्तते, ते च वक्तव्ये / ननु किमत्र वक्तव्यं सुप्रसिद्धत्वात् ? तथाहि-'स्फोटस्वरूपं तावद् अध्यक्षं परिच्छिनत्ति', 'न च तस्य दृष्टं कारणं संभवति, कारणान्तरश्च नोपलभ्यते, कारणाभावे च कार्याभा20 वो दृष्टः, अतः कारणाभावाख्यलिङ्गप्रभवानुमानात् तस्याभावः प्राप्तः' इत्येवं प्रमाणद्वय विघटनायां तत्सङ्घटनात्मिका तयोर्विषयभेदं दर्शयन्ती अर्थापत्तिः प्रवर्त्तते / स्फोटज्ञानं हि स्फोटविषयम्, कारणाभावानुमानश्च परिदृश्यमानकारणनिबन्धनकार्याभावविषयमिति; तदप्यसमीचीनम् ; यत: कारणाभावोऽत्र कार्याभावनिश्चये लिङ्गम् , स च निश्चितः, अनिश्चितो वा तल्लिङ्गं स्यात् ? न तावदनिश्चितः; वाष्पादेरपि धूमादि (1) तुलना-"भूयोदर्शनगम्या च व्याप्तिः"-मी० श्लो० अनु० श्लो० 12 / (2) पृ० 506 पं० 4 / (3) दहनशक्त्या। (4) तुलना-"तेन विना नोपपद्यते इति च व्यतिरेकभणितिरियम्, व्यतिरेकश्च प्रतीतः तस्मिन् सत्युपपद्यते इत्यन्वयमाक्षिपति, अन्वयव्यतिरेको च गमकस्य लिङ्गस्य धर्म इति च कथमर्थापत्तिर्नानुमानम् ।"-न्यायमं० पृ० 41 / (5) प्रमाणविरोधलक्षणायाः / (6) वह्निरूपम्-आ० टि० / (7) शक्तिरूपम्-आ० टि० (8) स्फोटस्य-आ० टि० / (9) स्फोट प्रत्यक्षेण तावत्स्फोटसद्भाव आवेदितः, शक्तिरूपकारणाभावानुमानेन तु स्फोटाभावोऽनुमित इतिस्फोटविषये प्रत्यक्षानुमाने विघटेते, अतस्तयोर्विषयभेदं प्रदर्शयन्ती अर्थापत्तिः संघटनकारिणी भवति / . 1 सम्बन्ध प्रति हेतु-आ। 2 ऊहात् अस्मा-ब०। 3-कल्पनानुषङ्गात् ब०, श्र०। 4 प्रवर्तते च वक्त-ब०। 6 दृष्टकारणं श्र० / 6-निश्चयलिङ्गम् श्र०।।