________________ प्रमाणप्र० का० 21 ] अर्थापत्तिप्रमाणनिरासः 513 प्रतीतिः अनुमानमेव, तथाहि-दृष्टात् श्रुताद्वाऽर्थाद् अर्थान्तरे प्रतीतिः अनुमानमेव, अविनाभावबलेन उपजायमानत्वात्, यद् यद् अविनाभावबलेनोपजायते तत्तदनुमानेव यथा धूमादग्निविज्ञानम्, अविनाभावबलेनोपजायते चार्थापत्त्यभिमता प्रतीतिरिति / . किञ्च, असौ तत्सम्बद्धोऽपि तद्रूपतया ज्ञातः, अज्ञातो वा तत्कल्पनानिमित्तं स्यात् ? न तावदज्ञातः; बालादेरपि अतोऽदृष्टार्थकल्पनाप्रसङ्गात् / अथ ज्ञातः; तत्रापि / किं साध्यप्रतिपत्तिकाले तत्सम्बद्धतया असौ ज्ञातः, पूर्व वा ? प्रथमपक्षे किं प्रमाणान्तरात् तत्सम्बद्धतया तदाऽसौ ज्ञातः, तत एव वा ? तत्राद्यविकल्पोऽयुक्तः, तत्प्रतिपत्तिकाले तत्सम्बन्धग्राहिणः प्रमाणान्तरस्यासंभवात् , संभवे वा साध्यस्यापि अतें एव सिद्धेः किमर्थापत्त्या ? अस्तु वासौ, तथापि अनुमानान्न भिद्यते; तथाहि-अर्थापत्तिः अनुमानमेव, 10 प्रमाणान्तरावगतसाध्यसम्बन्धाद् हेतोरुपजायमानत्वात्, यद्यत्प्रमाणान्तरावगतसाध्यसम्बन्धाद् हेतोरुपजायते तत्तदनुमानमेव यथा धूमाद् वह्निविज्ञानम् , प्रमाणान्तरावगतसाध्यसम्बन्धाद्धेतोः उपजायते चार्थापत्त्यभिमतं ज्ञानमिति / अथ तत एव साध्यसम्बद्धतया असौ ज्ञातः; तदा अन्योन्याश्रयः-सिद्धायां हि अर्थापत्तौं तर्दुत्थापकार्थस्य तत्सम्बद्धतया ज्ञप्तिसिद्धिः, तत्सिद्धौ च अर्थापत्तिसिद्धिरिति / अथ पूर्व तत्सम्बद्धतयाऽ- 15 सौ ज्ञातः किं साध्यधर्मिण्येव, दृष्टान्तधर्मिणि वा ? प्रथमविकल्पे अर्थापत्तेर्वैयर्थ्यम् तत्साध्यस्य प्रांगेव प्रसिद्धत्वात्। दृष्टान्तधर्मिण्यप्यनभ्युपगमान्नासौ तत्सम्बद्धतया ज्ञातव्यः। / किञ्च, तेत्रासौं साध्यसम्बद्धतया भूयोदर्शनात्, विप॑ क्षेऽनुपलम्भात् , अर्थापत्त्य "न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात्, प्रकारान्तराभावाच्च ।"-न्यायकुसु० 3 / 19 / “सिद्धः साध्याविनाभावो ह्यापत्तेः प्रभावकः / संभवादेश्च यो हेतुः सोऽपि लिङ्गान्न भिद्यते // दृष्टान्तनिरपेक्षत्वं लिङ्गस्यापि निवेदितम् / तन्न मानान्तरं लिङ्गादर्थापत्त्यादिवेदनम् ॥"-तत्त्वार्थइलो० पृ० 217 / प्रमेयक पृ० 193 / सन्मति० टी० पृ० 585 / जैनतर्कवा० पृ० 77 / स्या० र० पृ० 283 / रत्नाकराव० 2 / 1 / (1) दृष्ट: श्रुतो वाऽर्थः-आ० टि०। (2) सम्बद्धरूपतया-आ० टि०। (3) तुलना"अस्यान्यथानुपपद्यमानत्वागमः अर्थापत्तेरेव प्रमाणान्तराद्वा ?"-प्रमेयक० पृ० 193 / स्या०र० पृ० 284 / (4) साध्यप्रतिपत्तिकाले (5) सम्बन्धग्राहिणः प्रमाणान्तरादेव। (6) पीनत्वगृहाभावादे:आ० दि० / (7) मीमांसका हि अर्थापत्तौ सम्बन्धावगमं दृष्टान्ते न स्वीकुर्वन्ति अर्थापत्त्यनुमानयोर्भदाभावप्रसङ्गात् / "अविनाभाविता चात्र तदैव परिकल्प्यते / न प्रागवधृतेत्येवं सत्यप्येषा न कारणम्" ( मी० श्लो०, अर्था० श्लो० 30 ) इत्यभिधानात् / (8) दृष्टान्तधर्मिणि चेद् दृष्ट: श्रुतो वार्थः पूर्व प्रतिपन्नः तदा साध्यधर्मिणि किमायातम्-आ० टि०। (9) दृष्टान्तधर्मिणि / तुलना-“अथ प्रमाणान्तरात्तदवगमः; तत्किं भूयोदर्शनं विपक्षेऽनुपलम्भो वा ?"-प्रमेयक० पृ० 194 / स्या० र० पृ० 284 / (10) विपक्षा हि अनग्निदेशाद्या अनन्ता एव-आ० टि०। 1-तरप्रतीति-श्र० / 2-द्वह्निविज्ञानम् ब०। 3 वा कल्पना-आ० / 4 -सम्बद्धाद् ब० / 5-सम्बद्धाद्धे-आ० / 6 प्रागेव सिद्ध-श्र० / 7-सौ सम्बद्ध-ब०,-सौ साध्यस्य सम्बद्ध-श्र० /