________________ 512 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे . [3. परोक्षपरि० दुरधिगमत्वमुक्तम् अनन्तदेशवृत्तित्वात् / अथ अनुपलब्ध्या तैन्निश्चयः; तन्न; गृहव्यतिरिक्तसकलदेशवर्तिनः तदभावस्य नियतदेशया अनुपलब्ध्या निश्चेतुमशक्यत्वात्। तेषु तेषु देशान्तरेषु गत्वा अनुपलब्ध्या तदभावः; इत्यप्यसुन्दरम् ; यतः “गत्वा गत्वापि तान् देशान नास्य जानासि नास्तिताम् / कौशाम्ब्यास्त्वयि निष्कान्ते तत्प्रवेशोभिशया // " [ न्यायमं० पृ० 38 ] तस्मादभूमिरियमसर्वज्ञानाम् / अतो नियतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीराऽन्यथानुपपत्त्यैव तदितरसकलदेशनास्तित्वाऽवधारणं तस्य इत्यर्थापत्त्यैव तंत्र तदभावनिश्चयः इति ॥छ। अत्र प्रतिविधीयते / यत्तावदुक्तम्-'दृष्टः श्रुतो वा' इत्यादि; तत्र दृष्टः श्रुतो वाऽ10 अर्थापत्तेः अनमान- र्थः स्वसाध्येन सम्बद्धः, असम्बद्धो वा तं कल्पयति? यदि असम्बद्धः; प्रमाणे अन्तर्भाव- कथं तत्कल्पनाकारणम् ? नहि यत्किञ्चिद् दृष्ट्वा यः कश्चिदर्थः कल्पसमर्थनम्- यितुं शक्यः अतिप्रसङ्गात् / अथ सम्बद्धः; तर्हि अतो जायमाना . (1) यत्र नोपलभ्यते तत्र नास्ति चैत्र:-आ० टि० / (2) व्यतिरेकमुखेन सम्बन्धनिश्चयः / "नन्वेवमितरत्रापि सम्बन्धोऽनुपलब्धितः / चैत्राभावस्य भावेन दृष्टत्वादुपपद्यते // साहित्ये मितदेशत्वात्प्रसिद्धे चाग्निधूमयोः / व्यतिरेकस्य चादृष्टेर्गमकत्वं प्रकल्प्यते // इह साहित्यमेवेदमेकस्य सहभाविनः / अनन्तदेशवतित्वान्न तावदुपपद्यते ॥"-मी० श्लो० अर्था० श्लो०१-४३ / (3) 'नन्वत्रा विद्यमानत्वं गम्यतेऽनुपलब्धितः / सा चाप्रयत्नसाध्यत्वादेकस्थस्यैव सिद्धयति / / नैतयाऽनुपलब्ध्याऽत्र वस्त्वभाव: प्रतीयते। तद्देशाऽगमनात सा हि दरस्थेष्वस्ति सत्स्वपि / / गत्वा गत्वा तु तान् देशान् : यद्यर्थो नोपलभ्यते / ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥"-मी० इलो० अर्था० श्लो० 36-38 / (4) 'जानामि'-न्यायमं०। (5) 'शादिशङ्या'-न्यायमं०। (6) अनुपलब्धिः / (7) चैत्रस्य / (8) बहिः। (9) चैत्राभावनिश्चयः / (10) पृ० 505 10 18 / (11) रात्रिभोजनादिनाआ० टि० / तुलना-"एषा विचार्यमाणा तु भिद्यते नानुमानतः // प्रतिबन्धाद्विना वस्तु न वस्त्वन्तरबोधकम् / यत्किञ्चिदर्थमालोक्य न च कश्चित्प्रतीयते॥ प्रतिबन्धोऽपि नाज्ञातः प्रयाति मतिहेतुताम् / न सद्योजातबालादेरुद्भवन्ति तथा धियः॥ न विशेषात्मना यत्र सामान्यज्ञानसम्भवः / तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः॥"-न्यायमं० 1041 / “अर्थापत्तेरप्यनुमान एवान्तर्भावोऽविनाभावबलेनार्थप्रतिपत्तिसाधनत्वात् / अन्यथा नोपपद्यते इत्युक्ते सत्येवोपपद्यत इति लभ्यते / अयमेवाविनाभाव इति।" -न्यायसा० पृ० 22 / “अर्थापत्त्युत्थापकोऽर्थोऽन्यथानुपपद्यमानत्वेनानवगतः, अवगतो वाऽदृष्टार्थपरिकल्पनानिमित्तं स्यात् ?"-प्रमेयक० पृ० 193 / स्या० र० 283 / (12) दृष्टात् श्रुतादर्थात्आ० टि०। तुलना-'दर्शनार्थादर्थादर्थापत्तिविरोध्येव श्रवणादनुमितानुमानम्।”-प्रश० भा०, कन्द० पु० 223 / प्रश० व्यो० पृ०५९० / “शब्द ऐतिह्यानर्थान्तरभावाद् अनुमानेऽर्थापत्तिसंभवानर्थान्तरभावाच्चाप्रतिषेधः ।"-ज्यायस० 2 / 2 / 2 / ". ' प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिरनमानं तथा चार्थापत्तिसंभवाभावाः / वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणमापत्तिरनुमानमेव ।"-न्यायभा० 2 / 2 / 2 / "कथमर्थापत्तिरनुमानेन संगृह्यते ? द्वयोरेकतरप्रतिषेधस्य द्वितीयाभ्यनुज्ञाविषयत्वात् / यत्र यत्र द्वयोर्वस्तुनोरेकतरद्वस्तु प्रतिषिध्यते तत्र तत्र द्वितीयाभ्यनुज्ञा दृष्टा, यथा दिवा न भुङ क्ते इत्यभिधानात् रात्रौ भुङ क्ते इति गम्यते ।"-न्यायवा० 10276 / न्यायली० पृ० 57 / 1 नियतदेशतया ब०, श्र०। 2 तेषु देशान्त-आ०, श्र० / 3-तमानो पु-श्र० /