________________ प्रमाणप्र० का० 21 ] अांपत्तिप्रमाणनिरासः 511 वप्रत्यये प्रतिबद्धतया बोद्धं शक्यौ, गृहाभावस्य हि व्याप्यत्वे बहिःसद्भावो व्यापकः, स च प्रत्यक्षेण अर्वाग्दर्शिभिः साक्षात्कर्तुमशक्यः अनन्तदेशवृत्तित्वात् / नर्नु कश्चिद् द्वारि स्थितः कस्यचिद् देवदत्तादेः भावाभावौ गह्नाति–'यदा एतस्य गृहेऽभावः तदा अन्यत्र सद्भावः' इत्येवं व्याप्तिग्रहणोत्तरकालं चैत्रादेनिश्चितजीवनस्य गृहेऽभावाद् बहिःसद्भावो निश्चीयते; सत्यम् ; तथाप्यनुमानादस्या वैलक्षण्यम्-तंत्र हि सामान्येन / अनियतदेशेन व्यापकेन सम्बन्धग्रहे सति उत्तरकालं पक्षधर्मतानिश्चयसमये व्यापकस्य नियतदेशतया प्रतिपत्तिः, अंत्र तु वैपरीत्यम् / नहि गृहेऽभावात् नियतदेशतया चैत्रः प्रतीयते / यादृश एव हि व्याप्तिकाले तादृश एव प्रयोगकालेऽप्यनियतदेशोऽसौ प्रतीयते / किञ्च, गृहद्वारवर्त्तिनो गृहेऽभावस्य बहिःसद्भावेन सम्बन्धग्रहे गृहे चैत्रसद्भावेन बहिस्तदभावसाधने कथं सम्बन्धग्रहः स्यात् ? तदुक्तम् ... "नन्वस्त्येव गृहद्वारवर्तिनः सङ्गतिग्रहः।। भावेनाभावसिद्धौ तु कथमष भविष्यति // " [न्यायमं० पृ० 38] न खलु गृहे चैत्रस्य सद्भावाऽन्यथानुपपत्त्या देशान्तरेषु तन्नास्तित्वावसाये गृहे तत्सद्भावस्य देशान्तरे तन्नास्तित्वेन अध्यक्षतः सम्बन्धग्रहो घटते, देशान्तराणामानन्त्यात्। कैथमेव धूमस्य अनग्निव्यतिरेकनिश्चयः इति चेत् ? किं तेन गृहीतेन प्रयोजनम् ? 15 धूमज्वलनयोः अन्वयग्रहणसंभवे व्यतिरेकग्रहणे तात्पर्याऽसंभवात् / नहि भूयोदर्शनसुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमनिवृत्तचेतसाम् अनग्निव्यतिरेकनिश्चयेन किश्चित् प्रयोजनं साध्याधिगमस्य सम्पन्नत्वात् ? इह पुनः अन्वयाधिगमसमय एव गम्यधर्मस्य - (1) गृहद्वारि स्थितो यस्तु बहिर्भाव प्रकल्पयेत् / यदैकस्मिन्नयं देशे न तदाऽन्यत्र विद्यते॥ तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते। न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोभविष्यति ।"-मी० श्लो० अर्था० श्लो०.३४-३५ / (2) अनुमाने हि / (3) प्रयोगकाले / (4) अग्नेः / (५)पर्वतादिस्थतयाआ० टि० / (6) अर्थापत्तौ। (7) अपि तु बहिः यत्र कुत्राप्यस्ति इत्यनियतरूपेण / (8) 'गृहद्वारे वर्तिनः'-न्यायमं० / (9) 'भावेन भावसिद्धौ-न्यायमं० / (10) सम्बन्धः / (11) व्याप्यभूतस्य / (12) व्यापकभूतेन / (13) “ननु चाग्न्याद्यभावेऽपि धूमादिव्यतिरेकिणाम / तद्देशागमनात् स्पष्टो व्यतिरेको न सिद्धयति / यस्य वस्त्वन्तराभावः प्रमेयस्तस्य दुष्यति / मम त्वदृष्टमात्रेण गमकाः सहचारिणः / यः खलु वस्त्वन्तरेषु विपक्षेषु लिङ्गस्याभावावधारणमनुमानाय प्रार्थयते तस्यैव दोषः, वयं तु द्वित्रिचतुरेषु अवगताग्निसाहचर्याद् धूमाद्विपक्षादर्शनमात्रेण सहचारिणमग्निमनुमिमाना न सर्वविपक्षेषु धूमाभावावधारणं प्रार्थयामहे / नापि सर्वधूमवतामग्न्यन्वयमिति।"-मी० श्लो०, न्यायर०पू० 460 / (14) अनग्निप्रदेशानामानन्त्यात्-आ० टि० / (15) प्रतिपतृणाम् / (16) अर्थापत्तौ। (17) बहिः सदभावस्य-आ० टि०। 1 यदि तस्य ब० / 2 गृहे भावाभावात् श्र० / 3-द्वारप्रवत्ति-ब० / 4-ग्रहो गृहे चैत्र ब० / 5 'गहें नास्ति आ०, श्र०। 6 उक्तञ्च ब०। 7 नन्वस्त्वेव आ० / 8-द्वारित्तिनः ब० / 9 कथमेव 10 / 10-निश्चयमज्ञान-श्र० / 11-निवृत्तचे-ब० / 12 अन्वयावगम-ब०, श्र।