________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे . [3. परोक्षपरि० चैत्रस्य गृहाभावेन बहिर्भावः कल्प्यते, अन्यथा मृतेन अनेकान्तः स्यात् / अभावश्च / गृहीतः, सन् बहिर्भावमवगमयति नागृहीतो धूमवत् / अभावग्रहणश्च सदुपलम्भकप्रमाणपश्चकाभावपूर्वकम् / इह च सदुपलम्भकमस्त्येव जीवनग्राह्यागमाख्यं प्रमाणम् , सति तस्मिन् कथमभावग्रहणं प्रवर्तेत इति ? प्रवर्त्तमानमेव एतत्सदुपलम्भकं प्रमाण 5 पृथग्विषयमवस्थापयति / जीवनं हि अस्तित्वम् , आगमात् सामान्यतो यत्तस्य॑ प्रतिपन्नं तद् गृहेऽभावं परिच्छिन्दता प्रमाणेन स्वविषयादन्यत्र सङ्कोच्यते 'बहिरस्य भावः गृहे त्वभावः' इति / तेन जीवतो गृहेऽभावलक्षणसावनप्रतिपत्तेः बहिर्भावलक्षणसाध्यप्रतिपत्तिपूर्वकत्वसिद्धेः सिद्धः प्रमेयानुप्रवेशः, अतः नेयमनुमानम् / नहि वयाद्यनुमाने धूमादिलिङ्गग्रहणसमये अँनुमेयप्रतिपत्तिः प्रतीता, धूमादिग्रहणोत्तरकालं तत्प्रतिपत्तिप्रतीतेः / ननु अर्थापत्तावपि प्रमेयानुप्रवेशो दोषः समान एव; सत्यमेव तत् ; तथापि प्रमाणद्वयंसमर्पितैकवस्तुविषयभावाभावसमर्थनार्थ प्रवर्त्तमाना अर्थापत्ति: परामृशत्येव प्रमेयद्वयम्, अन्यथा तत्सङ्घटनायोगात् / अतश्च येयम् आगमाद- . नियतदेशतया क्वचिदस्तीति संवित्तिरभूत् सैवेयं गृहाभावे गृहीते 'बहिरस्ति' इति संवित् संवृत्ता / तदतो वैलक्षण्यात् नानुमानमर्थापत्तिः / 15 सम्बन्धग्रहणाभावाञ्च / भौवाभावौ हि न युगपद् वह्नि-धूमवद् एकत्रेन्द्रियप्रभ नन्वर्थापत्तावपि तुल्योऽयं दोषः, तत्रापि हि गृहाभावमात्रं मरणेनाप्युपपन्नं न बहिर्भावं कल्पयति, विद्यमानत्वसंसृष्टस्तु कल्पयेत्, स त्वनवगते बहिर्भावे न शक्यतेऽवगन्तुम्, नचानवगतः कल्पको भवति, तदवगमे च प्रमेयाभावः स्यादत आह-अन्यथेति / अन्यथानुपपत्तिरूपे प्रमाणान्तरे योऽयं विद्यमानत्वसंसृष्टगेहाभावबुद्धावेव प्रमेयस्य बहिर्भावस्यानुप्रवेशः स न दोषः / कस्मात् ? ताप्येणैव ज्ञानात् / ईदग्रपमेव हि एतत्प्रमाणं यदर्थञ्च यस्यासत्यर्थान्तरे मिथः प्रतिघातेनासम्भवमालोच्य अर्थान्तरकल्पनया प्रतिघातं परिहृत्य सम्भवतीत्यत एव विलक्षणसामग्रीत्वेन प्रमाणान्तरत्वम् अनुपपत्तिरिति चावगतस्यार्थान्तरेण प्रतिघातश्चोच्यत इति।"-मी० श्लो०, न्यायर० 10 455-77 / शास्त्रदी० पृ० 297 / तुलना-न्यायमं० पृ० 37 / (1) केवलेन गृहाभावेन यदि बहिर्भावः कल्प्येत / (2) जीवित्वग्राह्यागमाख्यं प्रमाणम् / (3) न हि निर्विषयं प्रमाणं भवति, एवं च भावो गृहीतो नाभावस्तत्कथं स हेतुः, भाववदद्यापि साध्यत्वात्-आ० टि०। (4) चैत्रस्य / (5) अभावप्रमाणेन / (6) गृहलक्षणात् / (7) बहिः / (8) वह्नि। (9) जीवति चैत्र इति आगमाख्यं प्रमाणम्, गृहे च नास्तीत्यभावप्रमाणम्, तत्समर्थनार्थ बहिरस्तीत्यर्थापत्तिः प्रवर्तते अन्यथा प्रमाणद्वयस्य प्रवृत्तिर्न स्यात्-आ० टि० / आगमप्रमाणेन हि चैत्रस्य भावो विषयीकृतः अभावप्रमाणेन च तस्याभाव इति, अतः चैत्रविषयकसद्भावाभावयोः अविरो धस्थापनार्थम् अर्थापत्तिः प्रवर्तते, सा च चैत्रो गृहे नास्ति बहिरस्ति इति प्रमेयद्वयं परामृशति (10) अर्थापत्ति विना। (11) भावाभावयोः-आ० टि०। भावाभावयोः संघटनस्य अविरोधस्य अयोगात अभावापत्तः / (12) नेयमनुमानमिति गतेन सम्बन्धः / (13) 'गृहाभावबहिर्भावौ न च दृष्टौ नियोगतः। साहित्ये तु प्रमाणञ्च तयोरन्यन्न विद्यते ॥"-मी० श्लो० अर्था० श्लो० 31 / तुलना-न्यायमं० पृ० 37 / 1 सच आ०, ब०। 2 जीवग्राह्याग-आ०, ब० / 3 वर्तमा-श्र०। 4 बहिर्भावलक्ष्यसाध्य-ब। 5 एवासत्यमेतत् ब०। 6 योऽयम् श्र०। 7-ग्रहणाभावाभावाच्च श्र० /