________________ प्रमाणप्र का 0 21 ] अर्थापत्तिप्रमाणनिरास: 506 जीवतो हि चैत्रस्य गृहेऽभावमवगम्य तदन्यथानुपपत्त्या बहिर्भावकल्पना अभावपूर्विका अर्थापत्तिः। अथ दृष्टेन अदृष्टसिद्धेः अनुमानमेवेयमित्युच्यते; तन्न; तत्सामध्यभावात् / पक्षधर्मतादिसामग्र्या हि यद्विज्ञानं जन्यते तदनुमानं प्रसिद्धम्, सां चेह नास्ति / तथाहि-बहिर्भावविशिष्टे चैत्रे चैत्रविशिष्टे वा बहिर्भावे अनुमेये कस्य हेतुत्वम्-किं गृहाभावविशिष्टस्य चैत्रस्य, चैत्राभावविशिष्टस्य वा गृहस्य, गृहे चैत्रा- , भावस्य वा, गृहे चैत्रादर्शनस्य वा ? तत्र नैतेषां मध्ये अन्यतमोऽपि हेतुर्घटते; पक्षधर्मत्वाभावात् / न ते चैत्रधर्माः तर्द्वहिर्भावधर्मा वा / किञ्च, प्रमेयानुप्रवेशप्रसङ्गात् नेयमनुमानम् ; तथाहि-आगमावगतजीवनस्य बहिश्चैत्रो विद्यते इत्येवं निश्चयरूपा, इह भाष्ये वर्णिता शबरस्वामिना, तदन्यासामर्थापत्तीनामुपलक्षणार्थमुदाहतेति यावत् / यथा जीवति देवदत्ते गृहेऽदर्शनेन बहिर्भावस्य अदष्टस्य कल्पनेति।"तत्त्वसं० पं० पृ० 460 / .. (1) पक्षधर्मतादिसामग्री। (2) "पक्षधर्माद्यनङ्गत्वाद् भिन्नवाप्यनुमानतः / बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते। प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् // तदभावविशिष्टं तु गृहं धर्मो न कस्यचित् / गृहाभावविशिष्टस्तु तदासौ न प्रतीयते / / गम्यते तु गृहं तत्र न च चैत्रः प्रतीयते / न चात्रादर्शनं हेतुर्यथाऽभावेऽभिधास्यते // तेन वेश्मन्यदृष्टत्वादिति हेतुर्न कल्प्यते / अदर्शनादभावे च प्रमेयस्यावधारिते। बहिर्भावमतिनीसौ तेनादर्शनहेतुका / चैत्राभावस्य हेतुत्वं गेहेऽभावश्च संस्थितः / / . पक्षधर्मत्वं तावन्निराकरोति बहिरिति / गृहगतो ह्यभावो न देवदत्तस्य बहिर्देशस्य वा धर्मः, अभावविशिष्टं तु गृहं न कस्यचिद्धर्म इत्याह गहाभावेति / असौ देवदत्तो बहिर्देशो वेति / कथमित्याह गम्यते इति / चैत्रग्रहणमुपलक्षणम्, गृहमेव गम्यते न चैत्रो बहिर्देशो वा / न चानवगतस्य धर्मावगतिः संभवतीति / यदि तु चैत्रादर्शनं हेतुरित्युच्यते अत आह न चेति / यथा ह्यभावेऽनुमेये लिङ्गत्वमभावस्य न संभवति तथाऽत्रापि पक्षधर्मत्वाभावादेव / ..... इतश्च नादर्शनस्य हेतुत्वमित्याह-अवर्शनादिति / अदर्शनादभावेऽवगते पश्चादुपजायमाना बहिर्भावमति दर्शननिमित्ता भवितुमर्हतीति नाभावस्य लिङ्गत्वं न च तस्य पक्षधर्मता इत्याह चैत्राभावस्येति ।"-मी० श्लो०, न्यायर० पृ० 454-55 / तुलनान्यायमं० पृ० 37 / (3) प्रथमहेतुद्वयापेक्षया-आ० टि०। (4) द्वितीयहेतुद्वयापेक्षया-आ० टि० (5) प्रमेयस्य साध्यस्य हेतुग्रहणकाल एव अनुप्रवेशः ज्ञानम् / “जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्यते / तत्संवित्तिर्बहिर्भावं न चाबुद्ध्वोपजायते // अग्निमत्तानपेक्षा तु धूमवत्ता प्रतीयते। न तद्ग्रहणवेलायामग्न्यधीनं हि किंचन / / गेहाभावस्तु यः शुद्धो विद्यमानत्ववजितः / स मृतेष्वपि दृष्टत्वादहिर्वत्तेन साधकः // विद्यमानत्वसंसष्टगृहाभावधियाऽनया। गेहादुत्कलितश्चैत्रो विद्यते बहिरेव हि॥ गेहाभावत्वमात्रं तु यत्स्वतन्त्रं प्रतीयते / न तावता बहिर्भावश्चैत्रस्यैवावधार्यते // सिद्धे सद्भावविज्ञाने गेहाभावधियाऽत्र तु / गेहादुत्कलिता सत्ता बहिरेवावतिष्ठते // तेनास्य निरपेक्षस्य व्यभिचारोमृतादिना। यस्य त्वव्यभिचारित्वं न ततोऽन्यत्प्रतीयते / तस्मात् प्रत्यक्षतो गेहे चैत्राभावे ह्यभावतः / ज्ञाते यत्सत्वविज्ञानं तदेवेदं बहिः स्थितम् // पक्षधर्मात्मलाभाय बहिर्भावः प्रवेशितः। तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मान्वयादिभिः // पक्षधर्मादिविज्ञानं बहिः संबोधतो यदि / तैश्च तद्बोधतोऽवश्यमन्योन्याश्रयता भवेत्। अन्यथानुपपत्तौ तु प्रमेयानुप्रवेशिता / ताप्येणैव विज्ञानान्न दोषः प्रतिभाति नः // येन बहिर्भावेन विशिष्टश्चैत्रोऽनुमातव्यः, स पक्षीकृतजीवच्चैत्रधर्मतया गहाभावस्यात्मलाभाय तत्प्रतीतिवेलायामेवानुप्रवेशित इति / तदेवं सत्यपि यद्यनुमानत्वमिष्येत तत्स्फुटमितरेतराश्रयमित्याह-पक्षधर्मादीति / 1 जोवतोऽस्य हि श्र०। 2 चैत्रस्य विशिष्टे बहिर्भावे श्र०। 8 गृहे चैत्राभावस्य वा' नास्ति आ०।