________________ 506 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० भोजनविधिः, विधिप्रतिषेधयोः परस्परपरिहारस्थितिलक्षणविरोधतो मिथः संसर्गा- . भावात् / न चानन्वितस्य पदार्थसमुदायस्य वाक्यार्थता दृष्टेष्टा वा; प्रतीतिविरोधात् / नापि तथाविधे पदसमुदाये अभिधात्री तात्पर्यशक्तिर्वाऽस्तीति / अतः अर्थापत्तित : एव रात्रिभोजनलक्षणोऽर्थः प्रतीयते इति प्रमाणान्तरं श्रुतापत्तिः सिद्धा / तदुक्तम्तत्र प्रत्यक्षतो ज्ञाताहाहाद् दहनशैक्तिता / वहेरनुमितात् सूर्ये यानात्तच्छक्तियोगिता // गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तिता। अभिधानप्रसिद्ध्यर्थमर्थापत्त्याऽवबोधितात् // शब्दे वाचकसामर्थ्यात् तन्नित्यत्वप्रमेयता / अभिधा नान्यथा सिद्धरिति वाचकशैक्तिता // अर्थापत्त्यावगम्यैव तदन्यत्व (दनन्य) गतेः पुनः। अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः // दर्शनस्य परार्थत्वादित्यस्मिन्नेभिधास्यते / " [ मी० श्लो. अर्था० श्लो० 3-7 ] 10 “पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ / रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते // " [मी० श्लो० अर्था० श्लो० 51] इति / * अभावार्थापत्तेस्तु लक्षणम्"प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् / गेहाचैत्रबहिर्भावसिद्धिर्या त्विह 'दर्शिता // तामभावोत्थितामन्यामर्थापत्तिमुदाहरेत् / ' [ मी० श्लो० अर्था० श्लो० 8-9 ] इति / (1) मा भूत्संसर्ग: को दोष इत्याह-आ० टि०। (2) संसर्गरहितस्य / (3) अन्यार्थप्रतिपादनतत्परे / (4) साक्षात् शक्तिः / (5) लक्षणा / (6) गमनशक्ति-आ० टि। 'ज्ञानाद्दाहाहहनशक्तता। वह्वेरनुमिता सूर्ये यानात्तच्छक्तियोग्यता ॥"-मी० श्लो० / स्या० र०प०२७८ / उद्धृतोऽयम्-तत्त्वसं० पृ० 457 / प्रमेयक० पृ० 188 / सन्मति० टी० 10579 / (7) 'गवयोपमिता या गौस्तज्ज्ञानग्राह्यता मता'-मी० श्लो। 'ग्राह्यशक्तता'-स्या० 2040 278 / उद्धृतोऽ यम्-प्रमेयक पृ० 188 / सन्मति० टी० पृ० 579 / तुलना-"गवयोपमिता . या गौस्तज्ज्ञानग्राह्यशक्तता। उपमाबलसंभूतसामर्थ्येन प्रतीयते ॥"-तत्त्वसं० पृ० 459 / (8) 'शब्दे बोधकसामर्थ्यातन्नित्यत्वप्रकल्पनम्'-मी० श्लो०। (9) तस्य शब्दस्य नित्यत्वेन प्रमेयत्वं परिच्छेद्यत्वम्-आ० टि। उद्धृतोऽयम्-प्रमेयक० पृ० 188 / सन्मति० टी० पृ० 579 / स्या० 20 पृ० 278 / (10) "अभिधा नान्यथा सिद्धयेदिति वाचकशक्तताम् / अर्थापपत्त्यावगम्यैवं तदनन्यगतेः पुनः ॥"-मी० श्लो। .... अर्थापत्त्यावगम्यव...'-तत्वसं० 10 459 / 'वाचकशक्तता। अर्थापत्त्यावगम्यव' -स्या० र० पृ० 278 / प्रकृतपाठ:-प्रमेयक० पृ० 188 / 'अभिधानमभिधा अर्थप्रतिपादनमिति यावत / सा शब्दस्य अन्यथा-वाचकशक्त्या विना न सिद्धयेदित्येवं बोधकशक्तताम्, अवगम्य बुदध्वा, तदनन्यगतेः तस्या बोधकशक्तेरन्या गतिनास्ति शब्दनित्यत्वमन्तरेणेति / पुनरर्थापत्त्यन्तरेणव शब्दस्य नित्यत्वनिश्चयः ।"-तत्त्वसं० पृ० 459 / (11) एकया अर्थापत्त्या वाचकशक्तिमवगम्य अन्यया शब्दस्य नित्यत्वं निश्चिनुयात् प्रमाता-आ० टि०। (12) मीमांसासूत्रे / (13) 'शब्दार्थापत्तिरुच्यते' -स्था० र०पृ० 278 / उद्धृतोऽयम्-तत्त्वसं० पृ० 457 / प्रमेयक० पृ० 188 / सन्मति० टी०१० 579 / (14) 'वणिता'-तत्त्वसं० पृ० 460 / उद्धृतोऽयम्-प्रमेयक० पृ० 189 / सन्मति० टी० प० 579 / स्या० र० पृ० 278 / व्याख्या-"प्रत्यक्षादेः प्रमाणस्याभावेन निवृत्त्या निर्णीतो निश्चितो यश्चत्राभावः तेन विशेषिताद् गेहात् इह गृहे चैत्रो नास्तीत्यतः चैत्रस्य जीवने सति या बहिर्भावसिद्धिः 1 तथाविधपद-श्र०। 2-शक्तता ब०। 3-त्याविबोधि-आ०, ब० / 4-शक्तता ब०, श्र०। 6-श्रुतेः ब०।